मनुस्मृति २५-११-२०१९

अध्याय  प्रकरण  शीर्षक  सूत्र
अध्याय १ १. भूमिका 
अध्याय १ ऋषियों का मनु भगवान् को प्रणाम  मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन्  ॥ १.१ ॥  
अध्याय १ धर्म ज्ञाता मनु भगवान्  त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः  । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो  ॥ १.३ ॥
अध्याय १ ऋषियों का मनु भगवान् से सवाल पूछना  भगवन् सर्ववर्णानां यथावदनुपूर्वशः  । अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि  ॥ १.२ ॥
अध्याय १ मनु भगवान् का धर्म का प्रवचन  स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः  । प्रत्युवाचार्च्य तान् सर्वान्महर्षीञ्श्रूयतामिति  ॥ १.४ ॥
अध्याय १ २. ब्रह्माण्ड निर्माण 
अध्याय १ जगदुत्त्पत्ति कथनम आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्  । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः  ॥ १.५ ॥
अध्याय १ महाभूतो सहित स्वयंभू का प्रकट होना  ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम्  । महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः  ॥ १.६ ॥
अध्याय १ स्वयंभू के लक्षण  योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः  । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ  ॥ १.७ ॥
अध्याय १ जल की उत्त्पत्ति  सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः  । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८ ॥
अध्याय १ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम्  । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम्  ॥ १.२३ ॥
अध्याय १ 3. प्राणियों की रचना 
अध्याय १ इन तत्त्वों से प्राणियों की रचना , विनिश्वर संसार की रचना  तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम्  । संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे  ॥ १.१६ ॥
अध्याय १ इन तत्त्वों से प्राणियों की रचना , विनिश्वर संसार की रचना  तेषामिदं तु सप्तानां पुरुषाणां महौजसाम्  । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्  ॥ १.१९ ॥
अध्याय १ मनुष्य शरीर की रचना  यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः  ॥ १.१७ ॥
अध्याय १ स्त्री पुरुष की रचना  द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः  ॥ १.३२ ॥
अध्याय १ तन्मात्राओ से अन्य प्राणियों की रचना  अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः  । ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः  ॥ १.२७ ॥
अध्याय १ जरायुज जीव  के लक्षण  पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः  । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः  ॥ १.४३ ॥
अध्याय १ अंडज जीव के लक्षण  अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः  । यानि चैवम्: प्रकाराणि स्थलजान्यौदकानि च  ॥ १.४४ ॥
अध्याय १ स्वेदज जीव के लक्षण  स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम्  । ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम्  ॥ १.४५ ॥
अध्याय १ उद्भिज तथा औषिधि जीव  उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः  । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः  ॥ १.४६ ॥
अध्याय १ वनस्पति तथा वृक्ष के स्वरूप  अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः  । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः  ॥ १.४७ ॥
अध्याय १ गुच्छ गुल्म आदि  गुच्छगुल्मं तु विविधं तथैव तृणजातयः  । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च  ॥ १.४८ ॥
अध्याय १ वृक्षों में चेतना का होना  तमसा बहुरूपेण वेष्टिताः कर्महेतुना  । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः  ॥ १.४९ ॥
अध्याय १ 4. समय आदि की रचना 
अध्याय १ समय आदि की रचना  कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा  । सरितः सागराञ्शैलान् समानि विषमानि च  ॥ १.२४ ॥
अध्याय १ दिन रात का परिमाण  निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला  । त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः  ॥ १.६४ ॥
अध्याय १ दिन रात का विभजन  अहोरात्रे विभजते सूर्यो मानुषदैविके  । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः  ॥ १.६५ ॥
अध्याय १ पक्षों का परिमाण  पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः  । कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी  ॥ १.६६ ॥
अध्याय १ उत्तरायण  दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः  । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्  ॥ १.६७ ॥
अध्याय १ 5. कर्मो की रचना 
अध्याय १ धर्म -अधर्म , कर्म - अकर्म की रचना  कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः  ॥ १.२६ ॥
अध्याय १ कर्मो की रचना  हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते  । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ १.२९ ॥
अध्याय १ प्रत्येक जाति के नाम तथा कर्म की स्रष्टि  सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे  ॥ १.२१ ॥
अध्याय १ ब्राह्मण के कर्म  अध्यापनमध्ययनं यजनं याजनं तथा  । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १.८८ ॥
अध्याय १ क्षत्रियो के कर्म  प्रजानां रक्षणं दानमिज्याध्ययनमेव च  । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः  ॥ १.८९ ॥
अध्याय १ वैश्यों के कर्म  पशूनां रक्षणं दानमिज्याध्ययनमेव च  । वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च  ॥ १.९० ॥
अध्याय १ सप्त वित्तागमा सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः  । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च  ॥ १०.११५ ॥
अध्याय १ दश जीवनहेतवः विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः  । धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः  ॥ १०.११६ ॥
अध्याय १ प्राणियों की श्रेष्ठ  भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः  । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः  ॥ १.९६ ॥
अध्याय १ 6. धर्म के प्रमाण और  सामान्य लक्ष्ण
अध्याय १ धर्म का सामान्य लक्ष्ण  विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः  । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत  ॥ २.१ ॥
अध्याय १ कामात्मता न प्रशस्ता कामात्मता न प्रशस्ता न चैवेहास्त्यकामता  । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः  ॥ २.२ ॥
अध्याय १ संकल्प की शक्ति  संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः  । व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः  ॥ २.३ ॥
अध्याय १ अकामस्य न कापि क्रिया अकामस्य क्रिया का चिद्दृश्यते नेह कर्हि चित् । यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम्  ॥ २.४ ॥
अध्याय १ धर्मस्यवेदमूलतत्वम  वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्  । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च  ॥ २.६ ॥
अध्याय १ धर्म का अध्ययन  सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा  । श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै  ॥ २.८ ॥
अध्याय १ धर्म का पालन  श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः  । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्  ॥ २.९ ॥
अध्याय १ श्रुतिस्मृतिःपरिचय  श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः  । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ  ॥ २.१० ॥
अध्याय १ नास्तिक निंदा  योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः  । स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः  ॥ २.११ ॥
अध्याय १ धर्म के चतुर्विध लक्षण  वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः  । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्  ॥ २.१२ ॥
अध्याय १ धर्मंप्रमाणंपरमंश्रुतिः अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते  । धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः  ॥ २.१३ ॥
अध्याय १ शास्त्रेऽधिकारो निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः  । तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्य चित् ॥ २.१६ ॥
अध्याय २ 1. संस्कार 
अध्याय २ विधि की शुरुवात  एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता  । संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत  ॥ २.२५ ॥
अध्याय २ संस्कार का विधान  वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्  । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च  ॥ २.२६ ॥
अध्याय २ संस्कार का कारण  गार्भैर्होमैर्जातकर्म- चौडमौञ्जीनिबन्धनैः  । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते  ॥ २.२७ ॥
अध्याय २ संस्कार का कारण  स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः  । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः  ॥ २.२८ ॥
अध्याय २ refer Yaj-9,10,11 जातकर्म संस्कार  प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते  । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्  ॥ २.२९ ॥
अध्याय २ नाम कारण संस्कार  नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते  ॥ २.३० ॥
अध्याय २ स्त्रियों का नामकरण  स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम्  । मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३ ॥
अध्याय २ घर से बाहर निकलना, अन्नप्राशन संस्कार  चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले  ॥ २.३४ ॥
अध्याय २ चूडाकरण संस्कार  चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः  । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥
अध्याय २ उपनयन / यज्ञोपवीत  संस्कार  ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे  । राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे  ॥ २.३७ ॥
अध्याय २  यज्ञोपवीत  संस्कार के बाद के कर्तव्य  उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः  । आचारमग्निकार्यं च संध्योपासनमेव च  ॥ २.६९ ॥
अध्याय २ 2. ब्रह्मचारी
अध्याय २ ब्रह्मचारी के वस्त्र  कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः  । वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च  ॥ २.४१ ॥
अध्याय २ मेखला मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला  । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी  ॥ २.४२ ॥
अध्याय २ मेखला का प्रतिनिधि  मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः  । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा  ॥ २.४३ ॥
अध्याय २ यज्ञोपवीत  कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्  ॥ २.४४ ॥
अध्याय २ दंडमान  केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः  । ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः  ॥ २.४६ ॥
अध्याय २ दंडमान  कैसा हो  ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः  । अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः  ॥ २.४७ ॥
अध्याय २ उपविती  के लक्ष्ण  उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः  । सव्ये प्राचीनावीती निवीती कण्ठसज्जने  ॥ २.६३ ॥
अध्याय २ ब्रह्मचारी के तीन प्रकार  मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः  । नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् ॥ २.२१९ ॥
अध्याय २ 3. संस्कार ना होने के परिणाम 
अध्याय २ व्रात्य  अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः  । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः  ॥ २.३९ ॥
अध्याय २ 4. भिक्षा विधि और भोजन विधि 
अध्याय २ प्रथम भिक्षा किनसे मांगे  मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम्  । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥
अध्याय २ भिक्षा द्रव्य की सेवन विधि  समाहृत्य तु तद्भैक्षं यावदन्नममायया  । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः  ॥ २.५१ ॥
अध्याय २ पूर्व दिशा की और मुह करके भोजन करना  आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः  । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः  ॥ २.५२ ॥
अध्याय २ भोजन के अंत में आचमन  उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः  । भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥
अध्याय २ श्रद्धा से भोजन  पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्  । दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः  ॥ २.५४ ॥
अध्याय २ भोजन के अन्य नियम  नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा  । न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्व चिद्व्रजेत् ॥ २.५६ ॥
अध्याय २ अधिक भोजन का निषेध  अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम्  । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २.५७ ॥
अध्याय २ आचमन के योग्य तीर्थ  ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन  ॥ २.५८ ॥
अध्याय २ तीर्थो के लक्षण  अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते  । कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः  ॥ २.५९ ॥
अध्याय २ आचमन विधि  त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम्  । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च  ॥ २.६० ॥
अध्याय २ भिक्षा योग्य घर वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु  । ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम्  ॥ २.१८३ ॥
अध्याय २ 5. अध्ययन विधि 
अध्याय २ वेद अध्ययन विधि  अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः  । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः  ॥ २.७० ॥
अध्याय २ ब्रह्म्नांजलि  ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा  । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः  ॥ २.७१ ॥
अध्याय २ गुरु के अभिवादन की विधि  व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः  । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः  ॥ २.७२ ॥
अध्याय २ अध्ययन का आरम्भ और समाप्ति  अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः  । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २.७३ ॥
अध्याय २ बिना पूछे उत्तर न देना नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः  । जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ २.११० ॥
अध्याय २ पालन ना करने हानि  अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति  । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति  ॥ २.१११ ॥
अध्याय २ विधादान की विफलता  धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा  । तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे  ॥ २.११२ ॥
अध्याय २ शिष्यों से मधुर भाषण  यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा  । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम्  ॥ २.१६० ॥
अध्याय २ वेदाभ्यास  वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः  । वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते  ॥ २.१६६ ॥
अध्याय २ वेदाभ्यास  आ हैव स नखाग्रेभ्यः परमं तप्यते तपः  । यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम्  ॥ २.१६७ ॥
अध्याय २ वेदाभ्यास  योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्  । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः  ॥ २.१६८ ॥
अध्याय २ द्विज तत्व निरूपण  मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने  । तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९ ॥
अध्याय २ गुरु दक्षिणा  न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् । स्नास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥ २.२४५ ॥
अध्याय २ शिक्षा ग्रहण  यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् । तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन्मनः  ॥ २.२२३ ॥
अध्याय २ त्रिवर्ग  धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च  । अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः  ॥ २.२२४ ॥
अध्याय २ 6. प्रणाम करने की विधि 
अध्याय २ अध्यापक की मान्यता  लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा  । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २.११७ ॥
अध्याय २ प्रणाम करने की विधि  अभिवादनशीलस्य नित्यं वृद्धोपसेविनः  । चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम्  ॥ २.१२१ ॥
अध्याय २ प्रणाम करने की विधि  आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने  । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः  ॥ २.१२५ ॥
अध्याय २ स्त्री से संभाषण  परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः  । तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च  ॥ २.१२९ ॥
अध्याय २ विद्धा की महता  वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी  । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्  ॥ २.१३६ ॥
अध्याय २ पहले मार्ग देना  चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः  । स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च  ॥ २.१३८ ॥
अध्याय २ 7. गुरु की आज्ञा पालन
अध्याय २ माता पिता भाई और गुरु  आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः  । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः  ॥ २.२२६ ॥
अध्याय २ ज्ञान प्राप्त करना  विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम्  । अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्  ॥ २.२३९ ॥
अध्याय २ ज्ञान प्राप्त करना  स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम्  । विविधानि च शील्पानि समादेयानि सर्वतः  ॥ २.२४० ॥
अध्याय २ 8. ज्ञान की महिमा 
अध्याय २ अज्ञानी  अज्ञो भवति वै बालः पिता भवति मन्त्रदः  । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्  ॥ २.१५३ ॥
अध्याय २ अवस्था की अपेक्षा ज्ञान  न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः  । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्  ॥ २.१५४ ॥
अध्याय २ ज्ञान  विप्राणां ज्ञानतो, ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः वैश्यानां धान्यधनतः॥ २.१५५ ॥
अध्याय २ मुर्ख की निंदा  यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः  । यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति  ॥ २.१५७ ॥
अध्याय २ 9. नियमो का पालन 
अध्याय २ नियमो का पालन  सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन्  । सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः  ॥ २.१७५ ॥
अध्याय २ संध्या विधि  पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीमार्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ २.१०१ ॥
अध्याय २ दोष नाश  पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति  । पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम्  ॥ २.१०२ ॥
अध्याय २ 10. शिक्षक के लक्षण 
अध्याय २ आचार्य का लक्षण  उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः  । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते  ॥ २.१४० ॥
अध्याय २ उपाध्याय  एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः  । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते  ॥ २.१४१ ॥
अध्याय २ ऋत्विक  अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान्  । यः करोति वृतो यस्य स तस्य र्त्विगिहोच्यते  ॥ २.१४३ ॥
अध्याय २ आचार्य का लक्षण  य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ  । स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन  ॥ २.१४४ ॥
अध्याय २ माता की श्रेष्ठता  उपाध्यायान् दशाचार्य आचार्याणां शतं पिता  । सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते  ॥ २.१४५ ॥
अध्याय २ पिता से आचार्य के  उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता  । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्  ॥ २.१४६ ॥
अध्याय २ पिता से आचार्य के  कामान्माता पिता चैनं यदुत्पादयतो मिथः  । संभूतिं तस्य तां विद्याद्यद्योनावभिजायते  ॥ २.१४७ ॥
अध्याय २ आचार्य का लक्षण  आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः  । उत्पादयति सावित्र्या सा सत्या साजरामरा  ॥ २.१४८ ॥
अध्याय २ गुरु   निषेकादीनि कर्माणि यः करोति यथाविधि  । संभावयति चान्नेन स विप्रो गुरुरुच्यते  ॥ २.१४२ ॥
अध्याय २ गुरु   अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः  । तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया  ॥ २.१४९ ॥
अध्याय २ गुरु   ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता  । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः  ॥ २.१५० ॥
अध्याय ३ १. अध्ययन की समाप्ति 
अध्याय ३ गृहस्थाश्रमवासमाह  वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्  । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२ ॥
अध्याय ३ गृहीतवेदस्यपित्रादिभिःपूजनं तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः  । स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा  ॥ ३.३ ॥
अध्याय ३ कृत समावर्तनोविवाहंकुर्यात  गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि  । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्  ॥ ३.४ ॥
अध्याय ३
अध्याय ३ २. योग्य कन्या 
अध्याय ३ असपिंडाधाविवाह्या असपिण्डा च या मातुरसगोत्रा च या पितुः  । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने  ॥ ३.५ ॥
अध्याय ३ कन्यालक्षणम  अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्  । तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम्  ॥ ३.१० ॥
अध्याय ३ सवर्णास्त्रीप्रशस्ता  सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि  । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः  ॥ ३.१२ ॥
अध्याय ३
अध्याय ३ ३. विवाह भेद 
अध्याय ३ अष्टोविवाहप्रकारा: चतुर्णामपि वर्णानं प्रेत्य चेह हिताहितान्  । अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत  ॥ ३.२० ॥
अध्याय ३ अष्टोविवाहप्रकारा: ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः  । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः  ॥ ३.२१ ॥
अध्याय ३ पैशाचासुरविवाहनिन्दा  पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह  । पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन  ॥ ३.२५ ॥
अध्याय ३ अथःब्रह्मविवाहलक्षण   आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम्  । आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः  ॥ ३.२७ ॥
अध्याय ३ दैवविवाहलक्षण यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते  । अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते  ॥ ३.२८ ॥
अध्याय ३ आर्षविवाहलक्षण   एकं गोमिथुनं द्वे वा वरादादाय धर्मतः  । कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते  ॥ ३.२९ ॥
अध्याय ३ प्राजापत्यविवाहलक्षण  सहोभौ चरतां धर्ममिति वाचानुभाष्य च  । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः  ॥ ३.३० ॥
अध्याय ३ आसुरविवाहलक्षण  ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः  । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते  ॥ ३.३१ ॥
अध्याय ३ गान्धर्वविवाहलक्षण  इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च  । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः  ॥ ३.३२ ॥
अध्याय ३ राक्षसविवाहलक्षण  हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते  ॥ ३.३३ ॥
अध्याय ३ पैशाचविवाहलक्षण  सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति  । स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः  ॥ ३.३४ ॥
अध्याय ३ जलदान पूर्वक विवाह  अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते  । इतरेषां तु वर्णानामितरेतरकाम्यया  ॥ ३.३५ ॥
अध्याय ३ निन्दितविवाहे निन्दित प्रजोत्त्पत्ति  इतरेषु तु शिष्टेषु नृशंसानृतवादिनः  । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः  ॥ ३.४१ ॥
अध्याय ३ कन्याविक्रयेनिषेध  न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि  । गृह्णञ्शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी  ॥ ३.५१ ॥
अध्याय ३ स्त्रीधनग्रहणेदोषः  स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः  । नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्  ॥ ३.५२ ॥
अध्याय ३
अध्याय ३ ४. दाम्पत्यजीवन 
अध्याय ३ ऋतुगमनकाल  ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा  । पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया  ॥ ३.४५ ॥
अध्याय ३ ऋतुकालअवधि  ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः  । चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः  ॥ ३.४६ ॥
अध्याय ३ निन्दितकाल  तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या  । त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः  ॥ ३.४७ ॥
अध्याय ३ युग्मतिथौपुत्रोत्त्त्पत्ति  युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु  । तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्  ॥ ३.४८ ॥
अध्याय ३ स्त्रीपुनपुंसकोत्त्पतिहेतुमाह  पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः  । समेऽपुमान् पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः  ॥ ३.४९ ॥
अध्याय ३ वानप्रस्थस्यापि ऋतुगमनमाह  निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन्  । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन्  ॥ ३.५० ॥
अध्याय ३ पूज्या भूषयितव्या पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा  । पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः  ॥ ३.५५ ॥
अध्याय ३ कन्यादीपूजनमफलम  यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः  । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः  ॥ ३.५६ ॥
अध्याय ३ न शोचन्ति वर्धते सर्वदा शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम्  । न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा  ॥ ३.५७ ॥
अध्याय ३ विनश्यन्तिगृह  जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः  । तानि कृत्याहतानीव विनश्यन्ति समन्ततः  ॥ ३.५८ ॥
अध्याय ३ उत्स्वेषु विशेषतः पूज्या  तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः  । भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च  ॥ ३.५९ ॥
अध्याय ३ दम्पत्योसन्तोषफलम  संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च  । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्  ॥ ३.६० ॥
अध्याय ३ स्त्रियोंअलंकारादिदानादाने  यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते  ॥ ३.६१ ॥
अध्याय ३ पत्निसंतुष्टिफलम  स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलं  । तस्यां त्वरोचमानायां सर्वमेव न रोचते  ॥ ३.६२ ॥
अध्याय ३ कुलोत्क्रर्ष कर्माह  मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि  । कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः  ॥ ३.६६ ॥
अध्याय ३ गृहस्थाश्रमप्रशंसा  यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः  । तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः  ॥ ३.७७ ॥
अध्याय ३ गृहस्थमहत्त्व  यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्  । गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही  ॥ ३.७८ ॥
अध्याय ३ दिधिषुपतिलक्षणमाह  भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः  । धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः  ॥ ३.१७३ ॥
अध्याय ३ कुंडगोलकवाह परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ  । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः  ॥ ३.१७४॥
अध्याय ३ ५. पञ्च महायज्ञ का अनुष्ठान 
अध्याय ३ पञ्चमहायज्ञअनुष्ठान  वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि  । पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही  ॥ ३.६७ ॥
अध्याय ३ पञ्चयाज्ञानाह  अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्  । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्  ॥ ३.७० ॥
अध्याय ३ निन्दितेमनुष्या देवतातिथिभृत्यानां पितॄणामात्मनश्च यः  । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति  ॥ ३.७२॥
अध्याय ३ पञ्चमहायज्ञअनुष्ठानफलंम  एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति  । स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना  ॥ ३.९३॥
अध्याय ३ अतिथिसत्कारे  संप्राप्ताय त्वतिथये प्रदद्यादासनोदके  । अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम्  ॥ ३.९९ ॥
अध्याय ३ यथाशक्ति भोजयेत  इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान्  । प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया  ॥ ३.११३ ॥
अध्याय ३ प्रथमकुमारीश् रोगिणो गर्भिणीः स्त्रियः सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः  । अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन्  ॥ ३.११४ ॥
अध्याय ३ गृह्त्स्यप्रथमभोजननिषेध  अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः  । स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः  ॥ ३.११५॥
अध्याय ३ दम्पत्योःसर्वशेषेणभोजनं भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि  । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती  ॥ ३.११६॥
अध्याय ३ आत्मार्थपाक निषेध  अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते  ॥ ३.११८ ॥
अध्याय ३ वेदेषुलक्षणं  अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च  । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः  ॥ ३.१८४॥
अध्याय ३ वेदेषुलक्षणं  त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् । ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च  ॥ ३.१८५ ॥
अध्याय ४ १. गृहस्थ जीवन के नियम 
अध्याय ४ ब्रह्मचर्यगृह्स्थास्स्र्मकालौ  चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजाः   । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१ ॥
अध्याय ४ वेद स्नातक का सत्कार  वेदविद्याव्रतस्नाताञ्श्रोत्रियान् गृहमेधिनः  । पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ४.३१ ॥
अध्याय ४ ब्रह्मचारी के अन्न दान  शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना  । संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः  ॥ ४.३२ ॥
अध्याय ४ सफाई  कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः  । स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च  ॥ ४.३५ ॥
अध्याय ४ मिटटी गौ आदि  मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्  । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्  ॥ ४.३९ ॥
अध्याय ४ काल विशेषे स्त्री दर्शन निषेध  नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम्  । न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः  ॥ ४.४४ ॥
अध्याय ४ नग्नस्नानादिनिषेध  नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् । न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे  ॥ ४.४५ ॥
अध्याय ४ मार्गादौमुत्रादीनिषेध  न फालकृष्टे न जले न चित्यां न च पर्वते  । न जीर्णदेवायतने न वल्मीके कदा चन  ॥ ४.४६ ॥
अध्याय ४ मार्गादौमुत्रादीनिषेध  न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः  । न नदीतीरमासाद्य न च पर्वतमस्तके  ॥ ४.४७ ॥
अध्याय ४ मुत्रोत्सर्गविधि  तिरस्कृत्योच्चरेत्काष्ठ- लोष्ठपत्रतृणादिना  । नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः  ॥ क्४.४९॥
अध्याय ४ अग्नौ प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम्  । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ४.५३ ॥
अध्याय ४ अग्नि उल्लंधन निषेध  अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ४.५४ ॥
अध्याय ४ जलेमुत्रादीप्रक्षेपनिषेध  नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा  ॥ ४.५६ ॥
अध्याय ४ शून्यगृहसुप्याच्छून्यगेहे निषेध  नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् । नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः  ॥ ४.५७ ॥
अध्याय ४ अग्नि होत्र  अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ  । स्वाध्याये भोजने चैव दक्षिनं पाणिमुद्धरेत् ॥ ४.५८ ॥
अध्याय ४ अधार्मिक ग्राम में निवास का निषेध  नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम्  । नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६० ॥
अध्याय ४ अतिभोजननिषेध  न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् । नातिप्रगे नातिसायं न सायं प्रातराशितः  ॥ ४.६२ ॥
अध्याय ४ व्यर्थचेष्टानिषेध  न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् । नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली  ॥ ४.६३ ॥
अध्याय ४ निषेध बर्तन  न पादौ धावयेत्कांस्ये कदा चिदपि भाजने  । न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते  ॥ ४.६५ ॥
अध्याय ४ यज्ञोपवीतादिपरधृतन धारयेत  उपानहौ च वासश्च धृतमन्यैर्न धारयेत् । उपवीतमलङ्कारं स्रजं करकमेव च  ॥ ४.६६ ॥
अध्याय ४ अविनीतवृर्षयानादिनिषेध  नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः  । न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः  ॥ ४.६७ ॥
अध्याय ४ विनीतवाहनादी गमन योग्य  विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः  । वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम्  ॥ ४.६८ ॥
अध्याय ४ मालाधारणगोयानादौ  न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् । गवां च यानं पृष्ठेन सर्वथैव विगर्हितम्  ॥ ४.७२ ॥
अध्याय ४ अद्वारेंन गृह गमनादौ  अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम्  । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३ ॥
अध्याय ४ अक्षक्रीडाशयनस्थानभोजननिषेध  नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने  ॥ ४.७४ ॥
अध्याय ४ आद्रपदशयननिषेध  आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ४.७६ ॥
अध्याय ४ न संवसेच्चपतित न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः  । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः  ॥ ४.७९ ॥
अध्याय ४ शत्रुचोरपरस्त्रीसेवानिषेध  वैरिणं नोपसेवेत सहायं चैव वैरिणः  । अधार्मिकं तस्करं च परस्यैव च योषितं  ॥ ४.१३३ ॥
अध्याय ४ परदारनिंदा  न हीदृशमनायुष्यं लोके किं चन विद्यते  । यादृशं पुरुषस्येह परदारोपसेवनम्  ॥ ४.१३४ ॥
अध्याय ४ समृद्धिकामना प्रयत्न  नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः  । आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्  ॥ ४.१३७ ॥
अध्याय ४ प्रियसत्यकथनम  सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्  । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः  ॥ ४.१३८ ॥
अध्याय ४ वृथावाद न कुर्यात  भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् । शुष्कवैरं विवादं च न कुर्यात्केन चित्सह  ॥ ४.१३९ ॥
अध्याय ४ अज्ञातेंन पुरुष सह न गन्तव्यं  नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते  । नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह  ॥ ४.१४० ॥
अध्याय ४ हीनअंगादिआक्षेपनिषेध  हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान्  । रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ ४.१४१ ॥
अध्याय ४ मल मुत्र त्याग  दूरादावसथान्मूत्रं दूरात्पादावसेचनम्  । उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ ४.१५१ ॥
अध्याय ४ वृद्ध जनो का अभिवादन  अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम्  । कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ ४.१५४ ॥
अध्याय ४ श्रुतिस्मृतिआचार  श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु  । धर्ममूलं निषेवेत सदाचारमतन्द्रितः  ॥ ४.१५५ ॥
अध्याय ४ आचारफलम  आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः  । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम्  ॥ ४.१५६ ॥
अध्याय ४ दुराचारोपुरुषो लोके निन्दितःभवति  दुराचारो हि पुरुषो लोके भवति निन्दितः  । दुःखभागी च सततं व्याधितोऽल्पायुरेव च  ॥ ४.१५७ ॥
अध्याय ४ शतं वर्षाणि जीवति सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः  । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति  ॥ ४.१५८ ॥
अध्याय ४ परवशं कर्म यत्नेन वर्जयेत्  यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् । यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः  ॥ ४.१५९ ॥
अध्याय ४ आचारपालन  यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः  । तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥
अध्याय ४ आचार्यादिहिंसानिषेध  आचार्यं च प्रवक्तारं पितरं मातरं गुरुम्  । न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः  ॥ ४.१६२ ॥
अध्याय ४ नास्तिक्यंसम्माननिषेध  नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्  । द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ ४.१६३ ॥
अध्याय ४ प्रताड़नाआदि का निषेध  परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् । अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ  ॥ ४.१६४ ॥
अध्याय ४ अधार्मिक व्यक्ति को सुख नहीं  अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम्  । हिंसारतश्च यो नित्यं नेहासौ सुखमेधते  ॥ ४.१७० ॥
अध्याय ४ अधार्मिक व्यक्ति को सुख नहीं  नाधर्मश्चरितो लोके सद्यः फलति गौरिव  । शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति  ॥ ४.१७२ ॥
अध्याय ४ अधार्मिक व्यक्ति को सुख नहीं  यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु  । न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः  ॥ ४.१७३ ॥
अध्याय ४ अधार्मिक व्यक्ति को सुख नहीं  अधर्मेणैधते तावत्ततो भद्राणि पश्यति  । ततः सपत्नान् जयति समूलस्तु विनश्यति  ॥ ४.१७४ ॥
अध्याय ४ अर्थकामत्यागे  परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ  । धर्मं चाप्यसुखोदर्कं लोकसंक्रुष्टमेव च  ॥ ४.१७६ ॥
अध्याय ४ कुलमार्गगमनं येनास्य पितरो याता येन याताः पितामहाः  । तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति  ॥ ४.१७८ ॥
अध्याय ४ निर्थक बाते न करना  ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः  । बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः  ॥ ४.१७९ ॥
अध्याय ४ निर्थक बाते न करना  मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया  । दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥
अध्याय ४ पुर्त का फल  दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम्  । परितुष्टेन भावेन पात्रमासाद्य शक्तितः  ॥ ४.२२७॥
अध्याय ४ दान  यत्किं चिदपि दातव्यं याचितेनानसूयया  । उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः  ॥ ४.२२८॥
अध्याय ४ जलादान  वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः  । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्  ॥ ४.२२९॥
अध्याय ४ वेद दान  सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते  । वार्यन्नगोमहीवासस्- तिलकाञ्चनसर्पिषाम्  ॥ ४.२३३॥
अध्याय ४ अच्छे बुरे कर्मो का फल  एकः प्रजायते जन्तुरेक एव प्रलीयते  । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्  ॥ ४.२४० ॥
अध्याय ४ उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन्  । ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्  ॥ ४.२४५॥
अध्याय ४ उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन्  । अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः  ॥ ४.२४६ ॥
अध्याय ४ ग्राह्य अन्न  एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्  ॥ ४.२४७ ॥
अध्याय ४ असत्य भाषण  वाच्यर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः  । तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः  ॥ ४.२५६ ॥
अध्याय ४ २. उचित धन संचय 
अध्याय ४ उचित धन संचय  यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः  । अक्लेशेन शरीरस्य कुर्वीत धनसंचयम्  ॥ ४.३ ॥
अध्याय ४ ऋत आदि से जीवन वृत्ति  ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा  । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥४.४ ॥
अध्याय ४ उचित धन संचय  कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा  । त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥४.७ ॥
अध्याय ४ आसक्ति का निषेध  इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः  । अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ४.१६ ॥
अध्याय ४ अभक्ष्य भोजन  मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन  । केशकीटावपन्नं च पदा स्पृष्टं च कामतः  ॥ ४.२०७ ॥
अध्याय ४ ३. वेद अध्ययन  वेद अध्ययन 
अध्याय ४ वेद विरुद्ध कर्म  सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः  । यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता  ॥ ४.१७ ॥
अध्याय ४ वय के अनुसार आचरण  वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च  । वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह  ॥ ४.१८ ॥
अध्याय ४ शास्त्र का अध्ययन  बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च  । नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्  ॥ ४.१९ ॥
अध्याय ४ शास्त्र का अध्ययन  यथा यथा हि पुरुषः शास्त्रं समधिगच्छति  । तथा तथा विजानाति विज्ञानं चास्य रोचते  ॥ ४.२० ॥
अध्याय ४ निरंतर अभ्यास  वेदाभ्यासेन सततं शौचेन तपसैव च  । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम्  ॥ ४.१४८ ॥
अध्याय ४ ४. दैनिक  कर्म  दैनिक  कर्म 
अध्याय ४ पाखंडी के सत्कार पर रोक  पाषाण्डिनो विकर्मस्थान् बैडालव्रतिकाञ्शठान्  । हैतुकान् बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत् ॥ ४.३० ॥
अध्याय ४ ब्रह्म मुहर्त में उठना  ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च  ॥ ४.९२ ॥
अध्याय ४ रजस्वला में सम्भोग का निषेध   नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने  । समानशयने चैव न शयीत तया सह  ॥ ४.४० ॥
अध्याय ४ रजस्वला में सम्भोग का निषेध   रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः  । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते  ॥ ४.४१ ॥
अध्याय ४ रजस्वला में सम्भोग का निषेध   तां विवर्जयतस्तस्य रजसा समभिप्लुताम्  । प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते  ॥ ४.४२ ॥
अध्याय ४ स्नान  न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि  । न वासोभिः सहाजस्रं नाविज्ञाते जलाशये  ॥ ४.१२९ ॥
अध्याय ४ गृहस्थ नियम समाप्ति  एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती  । स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः  ॥ ४.२५९ ॥
अध्याय ५  १. भोजन 
अध्याय ५  स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् । स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्  ॥ ५.२८ ॥
अध्याय ५  वेदविहिताहिंसा या वेदविहिता हिंसा नियतास्मिंश्चराचरे  । अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ  ॥ ५.४४ ॥
अध्याय ५  २. अशौच 
अध्याय ५  सपिन्ड़मृत्यु दोष  दन्तजातेऽनुजाते च कृतचूडे च संस्थिते  । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते  ॥ ५.५८ ॥
अध्याय ५  सपिन्ड़मृत्यु दोष  दशाहं शावमाशौचं सपिण्डेषु विधीयते  । अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा  ॥ ५.५९ ॥
अध्याय ५  सपिण्डलक्षणमाह  सपिण्डता तु पुरुषे सप्तमे विनिवर्तते  । समानोदकभावस्तु जन्मनाम्नोरवेदने  ॥ ५.६० ॥
अध्याय ५  साध्वीरजस्वला स्नानेन  रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति  । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला  ॥ ५.६६ ॥
अध्याय ५  निर्हारकानुगमने  अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च  । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति  ॥ ५.१०३ ॥
अध्याय ५ 
अध्याय ५  ३. शरीर और धन की शुद्धि  ज्ञानादीनीशुद्धिसधानानि  ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम्  । वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम्  ॥ ५.१०५॥
अध्याय ५  क्षमादानतपांसीशोधकानि  क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः  । प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः  ॥ ५.१०७ ॥
अध्याय ५  गात्रगमनसात्मबुद्धिशुद्धौ  अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति  । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति  ॥ ५.१०९ ॥
अध्याय ५  अर्थशौच  सर्वेषामेव शौचानामर्थशौचं परं स्मृतं  । योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः  ॥ ५.१०६ ॥
अध्याय ५  ४. पात्र शुधि 
अध्याय ५  समलनदीस्त्रीद्विजशुद्धौ  मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति  । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः  ॥ ५.१०८॥
अध्याय ५  सुवर्णादिमणिशुद्धौ  तैजसानां मणीनां च सर्वस्याश्ममयस्य च  । भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः  ॥ ५.१११॥
अध्याय ५  शुद्धि  निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति  । अब्जमश्ममयं चैव राजतं चानुपस्कृतम्  ॥ ५.११२॥
अध्याय ५  शुद्धि  अपामग्नेश्च संयोगाद्धैमं रौप्यं च निर्बभौ  । तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः  ॥ ५.११३॥
अध्याय ५  शुद्धि  ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च  । शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः  ॥ ५.११४ ॥
अध्याय ५  शुद्धि  द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्  । प्रोक्षणं संहतानां च दारवाणां च तक्षणम्  ॥ ५.११५ ॥
अध्याय ५  मार्जनं यज्ञपात्राणां मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि  । चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु  ॥ ५.११६ ॥
अध्याय ५  शुद्धि  चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा  । स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च  ॥ ५.११७ ॥
अध्याय ५  चर्मवशपात्रशाक फलफूलशुद्धौ  चैलवच्चर्मणां शुद्धिर्वैदलानां तथैव च  । शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते  ॥ ५.११९॥
अध्याय ५  कम्बलपटवस्त्रादिशुद्धौ क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च  । शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा  ॥ ५.१२१॥
अध्याय ५  त्तृणकाष्ठंगृहम्रद्रांडशुद्धौ  प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति  । मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृन्मयम्  ॥ ५.१२२॥
अध्याय ५  भूमिशुद्धौ  संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च  । गवां च परिवासेन भूमिः शुध्यति पञ्चभिः  ॥ ५.१२४ ॥
अध्याय ५  ५. स्त्रियों के कर्तव्य  to be transfer in 3rd chapter
अध्याय ५  अथःस्त्रीधर्मनाह  एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च  । उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत  ॥ ५.१४६ ॥
अध्याय ५  स्त्रियों के कर्तव्य  पित्रा भर्त्रा सुतैर्वापि नेच्छेद्विरहमात्मनः  । एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले  ॥ ५.१४९॥
अध्याय ५  प्रसन्नागृहकर्म कुर्यात  सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया  । सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया  ॥ ५.१५०॥
अध्याय ५  स्वामीप्रशंसा  अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः  । सुखस्य नित्यं दातेह परलोके च योषितः  ॥ ५.१५३ ॥
अध्याय ५  परपुरुषगमननिंदा  अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते  । सेह निन्दामवाप्नोति परलोकाच्च हीयते  ॥ ५.१६१ ॥
अध्याय ५  स्त्रियों के कर्तव्य  नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे  । न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते  ॥ ५.१६२॥
अध्याय ५  पातिवृत्याफलम  पतिं या नाभिचरति मनोवाग्देहसंयुता  । सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते  ॥ ५.१६५॥
अध्याय ५  भार्याया  मृताया श्रौताग्नीदाहः  एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम्  । दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ५.१६७ ॥
अध्याय ५  पुनर्दारग्रहणे  भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि  । पुनर्दारक्रियां कुर्यात्पुनराधानमेव च  ॥ ५.१६८॥
अध्याय ५  गृहस्थ आश्रम पालन  गृहस्थस्यकालावधि  अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् । द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६९॥
अध्याय ५ 
अध्याय ६  १. वानप्रस्थ आश्रम में प्रवेश 
अध्याय ६  वानप्रस्थाश्रममाह  एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः  । वने वसेत्तु नियतो यथावद्विजितेन्द्रियः  ॥ ६.१ ॥
अध्याय ६  सभार्याग्निहोत्रोवनेवसेत  संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्  । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा  ॥ ६.३ ॥
अध्याय ६  अग्निहोत्रं अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम्  । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः  ॥ ६.४ ॥
अध्याय ६  फलमुलेनपञ्चमहायज्ञ  मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा। एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम्  ॥ ६.५ ॥
अध्याय ६  चर्मचीरजटादिधारणम  वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा  । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च  ॥ ६.६ ॥
अध्याय ६  अथितिचर्या  यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः  । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान्  ॥ ६.७ ॥
अध्याय ६  २. वानप्रस्थ के सामान्य नियम 
अध्याय ६  वानप्रस्थनियमाः स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः  । दाता नित्यमनादाता सर्वभूतानुकम्पकः  ॥ ६.८ ॥
अध्याय ६  वानप्रस्थनियमाः वैतानिकं च जुहुयादग्निहोत्रं यथाविधि  । दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः  ॥ ६.९ ॥
अध्याय ६  वानप्रस्थनियमाः ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दक्षस्यायनमेव च  ॥ ६.१० ॥
अध्याय ६  वानप्रस्थनियमाः वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः  । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ॥ ६.११ ॥
अध्याय ६  वानप्रस्थनियमाः देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः  । शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम्॥ ६.१२॥
अध्याय ६  वानप्रस्थनियमाः स्थलजाउदकशाकानि पुष्पमूलफलानि च  । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान्  ॥ ६.१३ ॥
अध्याय ६  वानप्रस्थनियमाः अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा  । अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा  ॥ ६.१७ ॥
अध्याय ६  वानप्रस्थनियमाः सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा  । षण्मासनिचयो वा स्यात्समानिचय एव वा  ॥ ६.१८ ॥
अध्याय ६  वानप्रस्थनियमाः पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा  । कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः  ॥ ६.२१ ॥
अध्याय ६  वानप्रस्थनियमाः भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्  । स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः  ॥ ६.२२ ॥
अध्याय ६  वानप्रस्थनियमाः ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः  । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः  ॥ ६.२३ ॥
अध्याय ६  वानप्रस्थनियमाः अग्नीनात्मनि वैतानान् समारोप्य यथाविधि  । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः  ॥ ६.२५ ॥
अध्याय ६  वानप्रस्थनियमाः अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः  । शरणेष्वममश्चैव वृक्षमूलनिकेतनः  ॥ ६.२६ ॥
अध्याय ६  वानप्रस्थनियमाः तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु  ॥ ६.२७ ॥
अध्याय ६  वानप्रस्थनियमाः ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन्  । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा  ॥ ६.२८ ॥
अध्याय ६  ३. संन्यास काल 
अध्याय ६  परिव्राजककालमाह वनेषु च विहृत्यैवं तृतीयं भागमायुषः  । चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥
अध्याय ६  ४. सन्यासी के नियम 
अध्याय ६  ब्रह्म्चार्यादिक्रमेण परिव्रजेत आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः  । भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते  ॥ ६.३४ ॥
अध्याय ६  ऋणशोध्य न परिव्रजेत ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः  ॥ ६.३५ ॥
अध्याय ६  पुत्रमनुत्पाध न परिव्रजेत अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः  । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥
अध्याय ६  अधोगति  अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान्  । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः  ॥ ६.३७ ॥
अध्याय ६  प्राजापतेय्ष्टि कृत्वा परिव्रजेत प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम्  । आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ ६.३८ ॥
अध्याय ६  एकाकीमोक्षार्थचरेत  एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान्  । सिद्धिमेकस्य संपश्यन्न जहाति न हीयते  ॥ ६.४२ ॥
अध्याय ६  मुक्तलक्षणम  कपालं वृक्षमूलानि कुचेलमसहायता  । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्  ॥ ६.४४ ॥
अध्याय ६  जीवनादीकामनाराहित्यम  नाभिनन्देत मरणं नाभिनन्देत जीवितम्  । कालमेव प्रतीक्षेत निर्वेशं भृतको यथा  ॥ ६.४५ ॥
अध्याय ६  परिव्रजकाचार  दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥
अध्याय ६  परिव्रजकाचार  अतिवादांस्तितिक्षेत नावमन्येत कं चन  । न चेमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ ६.४७ ॥
अध्याय ६  परिव्रजकाचार  क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ६.४८ ॥
अध्याय ६  भिक्षाग्रहणे  न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया  । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ ६.५० ॥
अध्याय ६  दण्डकमंडल्वादयः  कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्  । विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन्  ॥ ६.५२ ॥
अध्याय ६  भिक्षा पात्राणि अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च  । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे  ॥ ६.५३ ॥
अध्याय ६  एककालं भिक्षाचरणम  एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे  । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति  ॥ ६.५५ ॥
अध्याय ६  भिक्षा कालः  विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने  । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ६.५६ ॥
अध्याय ६  प्राणयात्रिकमात्रःभिक्षाचरणम  अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः  ॥ ६.५७ ॥
अध्याय ६  पूजापूर्वकभिक्षानिषेध  अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः  । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते  ॥ ६.५८ ॥
अध्याय ६  इन्द्रिय निग्रह  अल्पान्नाभ्यवहारेण रहःस्थानासनेन च  । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥
अध्याय ६  इन्द्रिय निग्रह  इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च  । अहिंसया च भूतानाममृतत्वाय कल्पते  ॥ ६.६० ॥
अध्याय ६  न लिङ्गं धर्मकारणम् दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः  । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम्  ॥ ६.६६ ॥
अध्याय ६  न लिङ्गं धर्मकारणम् फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम्  । न नामग्रहणादेव तस्य वारि प्रसीदति  ॥ ६.६७ ॥
अध्याय ६  संरक्षणार्थंजन्तूनां भूमि निरीक्ष्य पर्येटत  संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा  । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥
अध्याय ६  विषयानअभिलाषः  यदा भावेन भवति सर्वभावेषु निःस्पृहः  । तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्  ॥ ६.८० ॥
अध्याय ६  ५. संन्यासिककर्मयोगं
अध्याय ६  सन्यासिकर्माह एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम्  । वेदसंन्यासिकानां तु कर्मयोगं निबोधत  ॥ ६.८६ ॥
अध्याय ६  चत्वारआश्रमः  ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा  । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः  ॥ ६.८७ ॥
अध्याय ६  सर्वाश्रमफलम  सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः  । यथोक्तकारिणं विप्रं नयन्ति परमां गतिम्  ॥ ६.८८ ॥
अध्याय ६   गृहस्थउच्यतेश्रेष्ठः सर्वेषामपि चैतेषां वेदस्मृतिविधानतः  । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि  ॥ ६.८९ ॥
अध्याय ६   गृहस्थउच्यतेश्रेष्ठः यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्  । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्  ॥ ६.९० ॥
अध्याय ६  दशविधो धर्मः सेवितव्यः चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः  । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः  ॥ ६.९१ ॥
अध्याय ६  दशविधधर्मलक्षणम् धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः  । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्  ॥ ६.९२ ॥
अध्याय ६  दशविधधर्माचरणफलम  दश लक्षणानि धर्मस्य ये विप्राः समधीयते  । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम्  ॥ ६.९३ ॥
अध्याय ६  वेदत्यागेशुद्राणी  संन्येसेत्सर्वकर्माणि वेद्मेकं न संन्यसेत । वेद्सन्यासतः शुद्रस्त्स्माद्वेदं न संन्यसेत ॥ ६.९५ ॥
अध्याय ६  राज्ञां धर्मं  एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः  । पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत  ॥ ६.९७ ॥
अध्याय ७  १. भूमिका  भूमिका  राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः  । संभवश्च यथा तस्य सिद्धिश्च परमा यथा  ॥ ७.१ ॥
अध्याय ७  २. राजा का चुना जाना 
अध्याय ७  कृतसंस्कारस्य प्रजारक्षणम  ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि  । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्  ॥ ७.२ ॥
अध्याय ७  राजोत्त्पत्ति अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः  ॥ ७.३ ॥
अध्याय ७  कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः  । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः  ॥ ७.१० ॥
अध्याय ७  धर्मं न विचालयेत् तस्माद्धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः  । अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥
अध्याय ७  तेजोमयं दण्डमसृजत्पूर्वमीश्वरः तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्  । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः  ॥ ७.१४ ॥
अध्याय ७  स्वधर्मान्न चलन्ति तस्य सर्वाणि भूतानि स्थावराणि चराणि च  । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च  ॥ ७.१५ ॥
अध्याय ७  दण्डप्रणयम  तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः  । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु  ॥ ७.१६ ॥
अध्याय ७  दण्डः स राजा पुरुषो दण्डः स नेता शासिता च सः  । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः  ॥ ७.१७ ॥
अध्याय ७  दण्डः शास्ति प्रजाः दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति  । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः  ॥ ७.१८ ॥
अध्याय ७  अयथाददण्डनिषेध  समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः  । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः  ॥ ७.१९ ॥
अध्याय ७  मत्स्यन्याय  यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः  । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः  ॥ ७.२० ॥
अध्याय ७  दण्डप्रशंसा  सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः  । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते  ॥ ७.२२ ॥
अध्याय ७  समीक्ष्यकारिणं प्राज्ञं धर्म तस्याहुः संप्रणेतारं राजानं सत्यवादिनम्  । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्  ॥ ७.२६ ॥
अध्याय ७  अधर्मपूर्वक दण्ड निषेध  दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः  । धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्  ॥ ७.२८ ॥
अध्याय ७  मूर्खादिनान्दण्डप्रणयनम  सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना  । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च  ॥ ७.३० ॥
अध्याय ७  सत्यसंधेन यथाशास्त्रानुसारिणा शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा  । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता  ॥ ७.३१ ॥
अध्याय ७  स्वराष्ट्रे न्यायवृत्तः स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु  । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः  ॥ ७.३२ ॥
अध्याय ७  न्यायवर्तिनोराज्ञ प्रशंसा  एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः  । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि  ॥ ७.३३ ॥
अध्याय ७  दुर्वृतराज्ञोनिन्दा अतस्तु विपरीतस्य नृपतेरजितात्मनः  । संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि  ॥ ७.३४ ॥
अध्याय ७  २. धर्म आदि 
अध्याय ७  धर्म आदि  तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः  । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः  ॥ ७.३६ ॥
अध्याय ७  धर्म आदि  ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः  । त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषां च शासने  ॥ ७.३७ ॥
अध्याय ७  धर्म आदि  वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन्  । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते  ॥ ७.३८ ॥
अध्याय ७  धर्म आदि  तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः  । विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥ ७.३९ ॥
अध्याय ७  धर्म आदि  बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः  । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे  ॥ ७.४० ॥
अध्याय ७  धर्म आदि  त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम्  । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः  ॥ ७.४३ ॥
अध्याय ७  धर्म आदि  इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम्  । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः  ॥ ७.४४ ॥
अध्याय ७  धर्म आदि  दश कामसमुत्थानि तथाष्टौ क्रोधजानि च  । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥
अध्याय ७  धर्म आदि  कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः  । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु  ॥ ७.४६ ॥
अध्याय ७  धर्म आदि  मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः  । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः  ॥ ७.४७ ॥
अध्याय ७  धर्म आदि  पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्  । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः  ॥ ७.४८ ॥
अध्याय ७  धर्म आदि  द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः  । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ  ॥ ७.४९ ॥
अध्याय ७  धर्म आदि  पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम्  । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे  ॥ ७.५० ॥
अध्याय ७  धर्म आदि  दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे  । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा  ॥ ७.५१ ॥
अध्याय ७  धर्म आदि  सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः  । पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान्  ॥ ७.५२ ॥
अध्याय ७  धर्म आदि  व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते  । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः  ॥ ७.५३ ॥
अध्याय ७  ३. मंत्रियो की नियुक्ति 
अध्याय ७  मंत्रियो की नियुक्ति  मौलाञ्शास्त्रविदः शूरांल्लब्धलक्षान् कुलोद्भवान्  । सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान्  ॥ ७.५४ ॥
अध्याय ७  मंत्रियो की नियुक्ति  अपि यत्सुकरं कर्म तदप्येकेन दुष्करम्  । विशेषतोऽसहायेन किं तु राज्यं महोदयम्  ॥ ७.५५ ॥
अध्याय ७  मंत्रियो की नियुक्ति  तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम्  । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च  ॥ ७.५६ ॥
अध्याय ७  मंत्रियो की नियुक्ति  तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक्पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः  ॥ ७.५७ ॥
अध्याय ७  मंत्रियो की नियुक्ति  सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता  । मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम्  ॥ ७.५८ ॥
अध्याय ७  मंत्रियो की नियुक्ति  नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥
अध्याय ७ 
अध्याय ७ 
अध्याय ७  ४. अधिकारियों की नियुक्ति 
अध्याय ७  अधिकारियों की नियुक्ति  अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान्  । सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान्  ॥ ७.६० ॥
अध्याय ७  अधिकारियों की नियुक्ति  निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः  । तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान्  ॥ ७.६१ ॥
अध्याय ७  अधिकारियों की नियुक्ति  तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान्  । शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने  ॥ ७.६२ ॥
अध्याय ७ 
अध्याय ७ 
अध्याय ७  ५. दूतो की नियुक्ति 
अध्याय ७  दूतो की नियुक्ति  दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम्  । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम्  ॥ ७.६३ ॥
अध्याय ७  दूतो की नियुक्ति  अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते  ॥ ७.६४ ॥
अध्याय ७  दूतो की नियुक्ति  अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया  । नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ  ॥ ७.६५ ॥
अध्याय ७  दूतो की नियुक्ति  दूत एव हि संधत्ते भिनत्त्येव च संहतान्  । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः  ॥ ७.६६ ॥
अध्याय ७  दूतो की नियुक्ति  स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः  । आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम्  ॥ ७.६७ ॥
अध्याय ७  दूतो की नियुक्ति  बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम्  । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ ७.६८ ॥
अध्याय ७  ६. दुर्ग निर्माण 
अध्याय ७  शाही किला जाङ्गलं सस्यसंपन्नमार्यप्रायमनाविलम्  । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ७.६९ ॥
अध्याय ७  शाही किला धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा  । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्  ॥ ७.७० ॥
अध्याय ७  शाही किला सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते  ॥ ७.७१ ॥
अध्याय ७  शाही किला त्रिण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः  । त्रीण्युत्तराणि क्रमशः प्लवंगमनरामराः  ॥ ७.७२ ॥
अध्याय ७  शाही किला यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः  । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम्  ॥ ७.७३ ॥
अध्याय ७  शाही किला एकः शतं योधयति प्राकारस्थो धनुर्धरः  । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते  ॥ ७.७४ ॥
अध्याय ७  शाही किला तत्स्यादायुधसंपन्नं धनधान्येन वाहनैः  । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च  ॥ ७.७५ ॥
अध्याय ७  शाही किला तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः  । गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम्  ॥ ७.७६ ॥
अध्याय ७  ७. विविध विषय 
अध्याय ७  शादी  तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम्  । कुले महति संभूतां हृद्यां रूपगुणान्वीताम्  ॥ ७.७७ ॥
अध्याय ७  ब्राहमण  आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते  ॥ ७.८२ ॥
अध्याय ७  ब्राहमण  न तं स्तेना न चामित्रा हरन्ति न च नश्यति  । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः  ॥ ७.८३ ॥
अध्याय ७  न्याययिक कार्य तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः  । तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः  ॥ ७.१४०॥
अध्याय ७  न्याययिक कार्य अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम्  । स्थापयेदासने तस्मिन् खिन्नः कार्येक्षणे नृणाम्  ॥ ७.१४१ ॥
अध्याय ७  विषयों की सुरक्षा एवं सर्वं विधायेदमितिकर्तव्यमात्मनः  । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः  ॥ ७.१४२॥
अध्याय ७  विषयों की सुरक्षा विक्रोशन्त्यो यस्य राष्ट्राध्रियन्ते दस्युभिः प्रजाः  । संपश्यतः सभृत्यस्य मृतः स न तु जीवति  ॥ ७.१४३॥
अध्याय ७  विषयों की सुरक्षा क्षत्रियस्य परो धर्मः प्राजानामेव पालनम्  । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते  ॥ ७.१४४॥
अध्याय ७  ८. शासन योजना
अध्याय ७  एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः  । अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून्  ॥ ७.९८॥
अध्याय ७  शासन योजना अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः  । रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥
अध्याय ७  शासन योजना एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम्  । अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः  ॥ ७.१००॥
अध्याय ७  शासन योजना अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया  । रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१॥
अध्याय ७  शासन योजना नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः  । नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः  ॥ ७.१०२॥
अध्याय ७  शासन योजना नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३॥
अध्याय ७  शासन योजना अमाययैव वर्तेत न कथं चन मायया  । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः  ॥ ७.१०४॥
अध्याय ७  शासन योजना नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च  । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः  ॥ ७.१०५॥
अध्याय ७  शासन योजना बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमे  । वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ ७.१०६ ॥
अध्याय ७  शासन योजना एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः  । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः  ॥ ७.१०७॥
अध्याय ७  शासन योजना यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः  । दण्डेनैव प्रसह्यैताञ्शनकैर्वशमानयेत् ॥ ७.१०८॥
अध्याय ७  शासन योजना सामादीनामुपायानां चतुर्णामपि पण्डिताः  । सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये  ॥ ७.१०९॥
अध्याय ७  शासन योजना यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति  । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः  ॥ ७.११० ॥
अध्याय ७  शासन योजना मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया  । सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः  ॥ ७.१११ ॥
अध्याय ७  शासन योजना शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा  । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२ ॥
अध्याय ७  शासन योजना राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् । सुसंगृहीतराष्ट्रे हि पार्थिवः सुखमेधते  ॥ ७.११३ ॥
अध्याय ७  ९. युद्ध  युद्ध 
अध्याय ७  युद्ध  समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः  । न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन्  ॥ ७.८७॥
अध्याय ७  युद्ध  आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः  । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः  ॥ ७.८९॥
अध्याय ७  युद्ध  रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः  । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ ७.९६ ॥
अध्याय ७  १०. राज्य प्रबंध 
अध्याय ७  राज्य प्रबंध  द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम्  । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम्  ॥ ७.११४ ॥
अध्याय ७  राज्य प्रबंध  ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा  । विंशतीशं शतेशं च सहस्रपतिमेव च  ॥ ७.११५ ॥
अध्याय ७  राज्य प्रबंध  ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम्  । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने  ॥ ७.११६॥
अध्याय ७  राज्य प्रबंध  विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम्  ॥ ७.११७ ॥
अध्याय ७  राज्य प्रबंध  यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः  । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ७.११८ ॥
अध्याय ७  राज्य प्रबंध  दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च  । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्  ॥ ७.११९ ॥
अध्याय ७  राज्य प्रबंध  तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि  । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः  ॥ ७.१२० ॥
अध्याय ७  राज्य प्रबंध  नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम्  । उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम्  ॥ ७.१२१ ॥
अध्याय ७  राज्य प्रबंध  स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम्  । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः  ॥ ७.१२२ ॥
अध्याय ७  राज्य प्रबंध  राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः  । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः  ॥ ७.१२३ ॥
अध्याय ७  राज्य प्रबंध  ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः  । तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम्  ॥ ७.१२४ ॥
अध्याय ७  राज्य प्रबंध  राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च   । प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः  ॥ ७.१२५ ॥
अध्याय ७  राज्य प्रबंध  पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम्  । षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः  ॥ ७.१२६॥
अध्याय ७  ११. कर आदि 
अध्याय ७  कर संग्रह आदि  सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम्  । स्याच्चाम्नायपरो लोके वर्तेत पितृवन्नृषु  ॥ ७.८० ॥
अध्याय ७  कर संग्रह आदि  अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः  । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम्  ॥ ७.८१ ॥
अध्याय ७  कर आदि  क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम्  । योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान्  ॥ ७.१२७॥
अध्याय ७  कर आदि  यथा फलेन युज्येत राजा कर्ता च कर्मणाम्  । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान्  ॥ ७.१२८॥
अध्याय ७  कर आदि  यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः  । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः  ॥ ७.१२९॥
अध्याय ७  कर आदि  पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः  । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा  ॥ ७.१३०॥
अध्याय ७  कर आदि  आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम्  । गन्धौषधिरसानां च पुष्पमूलफलस्य च  ॥ ७.१३१॥
अध्याय ७  कर आदि  पत्रशाकतृणानां च चर्मणां वैदलस्य च  । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च  ॥ ७.१३२॥
अध्याय ७  प्रजा का पालन  श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवाउरसम्  ॥ ७.१३५॥
अध्याय ७  कर आदि  यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम्  । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्  ॥ ७.१३७॥
अध्याय ७  कर आदि  कारुकाञ्शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः  । एकैकं कारयेत्कर्म मासि मासि महीपतिः  ॥ ७.१३८॥
अध्याय ७  कर आदि  नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया  । उच्छिन्दन् ह्यात्मनो मूलमाट्मानं तांश्च पीदयेत् ॥ ७.१३९ ॥
अध्याय ७  १२. दिनचर्या 
अध्याय ७  दिनचर्या  तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः  ॥ ७.१४६ ॥
अध्याय ७  दिनचर्या  गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः  । अरण्ये निःशलाके वा मन्त्रयेदविभावितः  ॥ ७.१४७ ॥
अध्याय ७  दिनचर्या  यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः  । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः  ॥ ७.१४८ ॥
अध्याय ७  दिनचर्या  जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान्  । स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ ७.१४९ ॥
अध्याय ७  दिनचर्या  भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च  । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ ७.१५० ॥
अध्याय ७  दिनचर्या  मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः  । चिन्तयेद्धर्मकामार्थान् सार्धं तैरेक एव वा  ॥ ७.१५१ ॥
अध्याय ७  दिनचर्या  परस्परविरुद्धानां तेषां च समुपार्जनम्  । कन्यानां संप्रदानं च कुमाराणां च रक्षणं  ॥ ७.१५२ ॥
अध्याय ७  दिनचर्या  दूतसंप्रेषणं चैव कार्यशेषं तथैव च  । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम्  ॥ ७.१५३ ॥
अध्याय ७  दिनचर्या  कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः  । अनुरागापरागौ च प्रचारं मण्डलस्य च  ॥ ७.१५४ ॥
अध्याय ७  दिनचर्या  मध्यमस्य प्रचारं च विजीगिषोश्च चेष्टितम्  । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः  ॥ ७.१५५ ॥
अध्याय ७  दिनचर्या  एताः प्रकृतयो मूलं मण्डलस्य समासतः  । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः  ॥ ७.१५६ ॥
अध्याय ७  दिनचर्या  अमात्यराष्ट्रदुर्गार्थ- दण्डाख्याः पञ्च चापराः  । प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः  ॥ ७.१५७ ॥
अध्याय ७  दिनचर्या  अनन्तरमरिं विद्यादरिसेविनमेव च  । अरेरनन्तरं मित्रमुदासीनं तयोः परम्  ॥ ७.१५८ ॥
अध्याय ७  दिनचर्या  तान् सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः  । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च  ॥ ७.१५९ ॥
अध्याय ७  दिनचर्या  संधिं च विग्रहं चैव यानमासनमेव च  । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा  ॥ ७.१६० ॥
अध्याय ७  दिनचर्या  आसनं चैव यानं च संधिं विग्रहमेव च  । कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च  ॥ ७.१६१ ॥
अध्याय ७  दिनचर्या  संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च  । उभे यानासने चैव द्विविधः संश्रयः स्मृतः  ॥ ७.१६२ ॥
अध्याय ७  दिनचर्या  समानयानकर्मा च विपरीतस्तथैव च  । तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः  ॥ ७.१६३ ॥
अध्याय ७  दिनचर्या  स्वयंकृतश्च कार्यार्थमकाले काल एव वा  । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः  ॥ ७.१६४ ॥
अध्याय ७  दिनचर्या  एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया  । संहतस्य च मित्रेण द्विविधं यानमुच्यते  ॥ ७.१६५ ॥
अध्याय ७  दिनचर्या  क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा  । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम्  ॥ ७.१६६ ॥
अध्याय ७  दिनचर्या  बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये  । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः  ॥ ७.१६७ ॥
अध्याय ७  दिनचर्या  अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः  । साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः  ॥ ७.१६८ ॥
अध्याय ७  दिनचर्या  यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः  । तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९ ॥
अध्याय ७  दिनचर्या  यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम्  । अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम्  ॥ ७.१७० ॥
अध्याय ७  दिनचर्या  यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्  । परस्य विपरीतं च तदा यायाद्रिपुं प्रति  ॥ ७.१७१ ॥
अध्याय ७  दिनचर्या  यदा तु स्यात्परिक्षीणो वाहनेन बलेन च  । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्  ॥ ७.१७२॥
अध्याय ७  दिनचर्या  मन्येतारिं यदा राजा सर्वथा बलवत्तरम्  । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः  ॥ ७.१७३ ॥
अध्याय ७  दिनचर्या  यदा परबलानां तु गमनीयतमो भवेत् । तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम्  ॥ ७.१७४ ॥
अध्याय ७  दिनचर्या  निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च  । उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा  ॥ ७.१७५ ॥
अध्याय ७  दिनचर्या  यदि तत्रापि संपश्येद्दोषं संश्रयकारितम्  । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६ ॥
अध्याय ७  दिनचर्या  सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः  । यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः  ॥ ७.१७७ ॥
अध्याय ७  दिनचर्या  आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः  ॥ ७.१७८ ॥
अध्याय ७  दिनचर्या  आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः  । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते  ॥ ७.१७९ ॥
अध्याय ७  दिनचर्या  यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः  । तथा सर्वं संविदध्यादेष सामासिको नयः  ॥ ७.१८० ॥
अध्याय ७  दिनचर्या  तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः  । तदानेन विधानेन यायादरिपुरं शनैः  ॥ ७.१८१ ॥
अध्याय ७  दिनचर्या  अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम्  । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः  ॥ ७.१८३ ॥
अध्याय ७  दिनचर्या  कृत्वा विधानं मूले तु यात्रिकं च यथाविधि  । उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च  ॥ ७.१८४ ॥
अध्याय ७  दिनचर्या  संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम्  । सांपरायिककल्पेन यायादरिपुरं प्रति  ॥ ७.१८५ ॥
अध्याय ७  दिनचर्या  शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः  ॥ ७.१८६ ॥
अध्याय ७  दिनचर्या  दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा  । वराहमकराभ्यां वा सूच्या वा गरुडेन वा  ॥ ७.१८७ ॥
अध्याय ७  दिनचर्या  यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम्  । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्  ॥ ७.१८८॥
अध्याय ७  दिनचर्या  सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत्प्राचीं तां कल्पयेद्दिशम्  ॥ ७.१८९ ॥
अध्याय ७  दिनचर्या  गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः  । स्थाने युद्धे च कुशलानभीरूनविकारिणः  ॥ ७.१९० ॥
अध्याय ७  दिनचर्या  संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्  । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥
अध्याय ७  दिनचर्या  स्यन्दनाश्वैः समे युध्येदनूपे नौ द्विपैस्तथा  । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले  ॥ ७.१९२ ॥
अध्याय ७  दिनचर्या  प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन् योधयतामपि  ॥ ७.१९४ ॥
अध्याय ७  दिनचर्या  उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्  ॥ ७.१९५ ॥
अध्याय ७  दिनचर्या  भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा  । समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा  ॥ ७.१९६ ॥
अध्याय ७  दिनचर्या  उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम्  । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः  ॥ ७.१९७ ॥
अध्याय ७  दिनचर्या  साम्ना दानेन भेदेन समस्तैरथ वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदा चन  ॥ ७.१९८ ॥
अध्याय ७  दिनचर्या  अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः  । पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ॥ ७.१९९ ॥
अध्याय ७  दिनचर्या  त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे  । तथा युध्येत संपन्नो विजयेत रिपून् यथा  ॥ ७.२०० ॥
अध्याय ७  दिनचर्या  जित्वा संपूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान्  । प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च  ॥ ७.२०१ ॥
अध्याय ७  दिनचर्या  सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम्  । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम्  ॥ ७.२०२॥
अध्याय ७  दिनचर्या  प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान्  । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह  ॥ ७.२०३ ॥
अध्याय ७  दिनचर्या  आदानमप्रियकरं दानं च प्रियकारकम्  । अभीप्सितानामर्थानां काले युक्तं प्रशस्यते  ॥ ७.२०४ ॥
अध्याय ७  दिनचर्या  सर्वं कर्मेदमायत्तं विधाने दैवमानुषे  । तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया  ॥ ७.२०५ ॥
अध्याय ७  दिनचर्या  सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः  । मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम्  ॥ ७.२०६॥
अध्याय ७  दिनचर्या  पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले  । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ ७.२०७ ॥
अध्याय ७  दिनचर्या  हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते  । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्  ॥ ७.२०८॥
अध्याय ७  दिनचर्या  धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च  । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते  ॥ ७.२०९ ॥
अध्याय ७  दिनचर्या  प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च  । कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः  ॥ ७.२१० ॥
अध्याय ७  दिनचर्या  आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता  । स्थौललक्ष्यं च सततमुदासीनगुणोदयः  ॥ ७.२११ ॥
अध्याय ७  दिनचर्या  क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि  । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्  ॥ ७.२१२ ॥
अध्याय ७  दिनचर्या  आपदर्थं धनं रक्षेद्दारान् रक्षेद्धनैरपि  । आत्मानं सततं रक्षेद्दारैरपि धनैरपि  ॥ ७.२१३ ॥
अध्याय ७  दिनचर्या  सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम्  । संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद्बुधः  ॥ ७.२१४ ॥
अध्याय ७  दिनचर्या  उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः  । एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये  ॥ ७.२१५ ॥
अध्याय ७  दिनचर्या  एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः  । व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ ७.२१६ ॥
अध्याय ७  दिनचर्या  तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः  । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः  ॥ ७.२१७ ॥
अध्याय ७  दिनचर्या  विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा  ॥ ७.२१८ ॥
अध्याय ७  दिनचर्या  परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः  । वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः  ॥ ७.२१९ ॥
अध्याय ७  दिनचर्या  एवं प्रयत्नं कुर्वीत यानशय्यासनाशने  । स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च  ॥ ७.२२० ॥
अध्याय ७  दिनचर्या  भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह  । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥
अध्याय ७  दिनचर्या  अलंकृतश्च संपश्येदायुधीयं पुनर्जनम्  । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च  ॥ ७.२२२॥
अध्याय ७  दिनचर्या  संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम्  ॥ ७.२२३ ॥
अध्याय ७  दिनचर्या  गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम्  । प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः  ॥ ७.२२४ ॥
अध्याय ७  दिनचर्या  तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः  । संविशेत्तं यथाकालमुत्तिष्ठेच्च गतक्लमः  ॥ ७.२५५ ॥
अध्याय ७  समाप्ति  एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः  । अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ ७.२२६ ॥
अध्याय ८  व्यवहार मातृका 
अध्याय ८  न्यायसभा में प्रवेश व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥८.१॥
अध्याय ८  कार्यावाही का प्रारम्भ  तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम्  । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम्  ॥ ८.२ ॥
अध्याय ८  व्यवहार विवादपद  प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः  । अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३ ॥
अध्याय ८  व्यवहार विवादपद  तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः  । संभूय च समुत्थानं दत्तस्यानपकर्म च  ॥ ८.४ ॥
अध्याय ८  व्यवहार विवादपद  वेतनस्यैव चादानं संविदश्च व्यतिक्रमः  । क्रयविक्रयानुशयो विवादः स्वामिपालयोः  ॥ ८.५ ॥
अध्याय ८  व्यवहार विवादपद  सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके  । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च  ॥ ८.६ ॥
अध्याय ८  व्यवहार विवादपद  स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च  । पदान्यष्टादशैतानि व्यवहारस्थिताविह  ॥ ८.७ ॥
अध्याय ८  व्यवहार विवादपद  एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम्  । धर्मं शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम्  ॥ ८.८ ॥
अध्याय ८  न्यायाविद्द की नियुक्ति  यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम्  । तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने  ॥ ८.९ ॥
अध्याय ८  तीन सदस्यों के साथ न्याय करना  सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः  । सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा  ॥ ८.१० ॥
अध्याय ८  न्यायसभा के लक्षण  यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः  । राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः  ॥ ८.११ ॥
अध्याय ८  न्याय न  होने पर सदस्यों को दोष  धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते  । शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः  ॥ ८.१२ ॥
अध्याय ८  सभा में सत्य भाषण करना  सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम्  । अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी  ॥ ८.१३ ॥
अध्याय ८  सत्य का हनन  यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च  । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः  ॥ ८.१४ ॥
अध्याय ८  सत्य / धर्म / विधि  की रक्षा  धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः  । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ ८.१५ ॥
अध्याय ८  धर्म लोप का निषेध  वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम्  । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ ८.१६ ॥
अध्याय ८  धर्म का साथ  एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः  । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति  ॥ ८.१७ ॥
अध्याय ८  पक्षपात का दोष  पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति  । पादः सभासदः सर्वान् पादो राजानमृच्छति  ॥ ८.१८ ॥
अध्याय ८  उत्तम न्याय सभा के लक्षण  राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः  । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते  ॥ ८.१९ ॥
अध्याय ८  नास्तिक और अराजक मनुष्यों की प्रधानता  यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम्  । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम्  ॥ ८.२२ ॥
अध्याय ८  विवादों को सुनने की प्रक्रिया का प्रारम्भ  धर्मासनमधिष्ठाय संवीताङ्गः समाहितः  । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ ८.२३ ॥
अध्याय ८  विवादों को सुनने की प्रक्रिया का प्रारम्भ  अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ  । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम्  ॥ ८.२४ ॥
अध्याय ८  स्वर एवं शरीर के लक्षणों से अन्वेषण  बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्  । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च  ॥ ८.२५ ॥
अध्याय ८  सूत्र  २५ का उद्देश्य कथन   आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च  । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः  ॥ ८.२६ ॥
अध्याय ८  नाबालिग के धन की रक्षा  बालदायादिकं रिक्थं तावद्राजानुपालयेत् । यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः  ॥ ८.२७ ॥
अध्याय ८  असक्षम स्त्री के धन की रक्षा  वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च  । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च  ॥ ८.२८ ॥
अध्याय ८  स्त्रियों के धन हरण पर दण्ड  जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः  । ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः  ॥ ८.२९ ॥
अध्याय ८  अस्वामिक धन की रक्षा का समय  प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ८.३० ॥
अध्याय ८  अस्वामिधन की वापसी  ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि  । संवाद्य रूपसंख्यादीन् स्वामी तद्द्रव्यमर्हति  ॥ ८.३१ ॥
अध्याय ८  अस्वामिधन के विषय में झूट बोलने पर दण्ड  अवेदयानो नष्टस्य देशं कालं च तत्त्वतः  । वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति  ॥ ८.३२ ॥
अध्याय ८  अस्वामिधन से कर  आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः  । दशमं द्वादशं वापि सतां धर्ममनुस्मरन्  ॥ ८.३३ ॥
अध्याय ८  चौरो को दण्ड  प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम्  । यांस्तत्र चौरान् गृह्णीयात्तान् राजेभेन घातयेत् ॥ ८.३४ ॥
अध्याय ८  चौरी किये गए धन की वापसी  ममायमिति यो ब्रूयान्निधिं सत्येन मानवः  । तस्याददीत षड्भागं राजा द्वादशमेव वा  ॥ ८.३५ ॥
अध्याय ८  परधन को अपना कहने पर दण्ड  अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम्  । तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम्  ॥ ८.३६ ॥
अध्याय ८  खजाने पर राज्य का अधिकार  निधीनां तु पुराणानां धातूनामेव च क्षितौ  । अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः  ॥ ८.३९ ॥
अध्याय ८  परम्परा के अनुसार व्यवस्था  जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥
अध्याय ८  धर्म का पालन करने वाले लोग प्रिय होते है  स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः  ॥ ८.४२ ॥
अध्याय ८  राजकीय विवाद का निषेध   नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः । न च प्रापितमन्येन ग्रसेदर्थं कथं चन  ॥ ८.४३ ॥
अध्याय ८  विवाद का अन्वेषण –अनुमान तर्क प्रमाण का प्रयोग  यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम्  । नयेत्तथानुमानेन धर्मस्य नृपतिः पदम्  ॥ ८.४४ ॥
अध्याय ८  सत्य और प्रमाण से व्यवहार दर्शन  सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः  । देशं रूपं च कालं च व्यवहारविधौ स्थितः  ॥ ८.४५ ॥
अध्याय ८  सदाचार पालन  सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः  । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥
अध्याय ८  साक्षी की संख्या पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा  । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ  ॥ ८.६० ॥
अध्याय ८  साक्षी कथन  यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः  । तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतं च तैः  ॥ ८.६१ ॥
अध्याय ८  साक्षी कौन हो सकता है  गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः  । अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि  ॥ ८.६२ ॥
अध्याय ८  साक्षी कौन नही हो सकता है  आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः  । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ ८.६३ ॥
अध्याय ८  साक्षी के अयोग्य व्यक्ति नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः  । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः  ॥ ८.६४ ॥
अध्याय ८  साक्षी के अयोग्य व्यक्ति न साक्षी नृपतिः कार्यो न कारुककुशीलवौ  । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः  ॥ ८.६५ ॥
अध्याय ८  साक्षी की संख्या  नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः  ॥ ८.६६ ॥
अध्याय ८  साक्षी के अयोग्य व्यक्ति  नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः  । न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः  ॥ ८.६७ ॥
अध्याय ८  साक्षी के योग्य व्यक्ति  स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः  । शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः  ॥ ८.६८ ॥
अध्याय ८  धन व्यवहार से भिन्न व्यवहार में साक्षी  अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्  । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये  ॥ ८.६९ ॥
अध्याय ८  साक्षी के योग्य व्यक्ति  स्त्रियाप्यसंभावे कार्यं बालेन स्थविरेण वा  । शिष्येण बन्धुना वापि दासेन भृतकेन वा  ॥ ८.७० ॥
अध्याय ८   साक्षी के अयोग्य  बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा  । जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा  ॥ ८.७१ ॥
अध्याय ८  साक्षी में अपवाद  साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च  । वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः  ॥ ८.७२ ॥
अध्याय ८  साक्षियों में परस्पर मतान्तर  बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः  । समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान्  ॥ ८.७३ ॥
अध्याय ८  साक्षी का सत्य भाषण  समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति  । तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते  ॥ ८.७४ ॥
अध्याय ८  साक्षी का सत्य भाषण  साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि  । अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते  ॥ ८.७५ ॥
अध्याय ८  स्वयं साक्षी  यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किं चन  । पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम्  ॥ ८.७६ ॥
अध्याय ८  साक्षी के वचन का प्रमाण  स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्  । अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम्  ॥ ८.७८ ॥
अध्याय ८  साक्षी से प्रश्न विधि  सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ  । प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्वयन्  ॥ ८.७९ ॥
अध्याय ८  साक्ष्य कथन की आज्ञा  यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः  । तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता  ॥ ८.८० ॥
अध्याय ८  साक्षी का सत्य भाषण  सत्येन पूयते साक्षी धर्मः सत्येन वर्धते  । तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः  ॥ ८.८३ ॥
अध्याय ८  साक्षी को सत्य बोलना चाहये  द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः  । रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम्  ॥ ८.८६ ॥
अध्याय ८  श्रेष्ट साक्षी  यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते  । तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः  ॥ ८.९६ ॥
अध्याय ८  साक्षी के अभाव में शपथ से निर्णय  असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः  । अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥
अध्याय ८  वृथा शपथ लेने के दोष  न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः  । वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति  ॥ ८.१११ ॥
अध्याय ८  पुनः निर्णय  यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.११७ ॥
अध्याय ८  मिथ्या साक्षी  लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च  । अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते  ॥ ८.११८ ॥
अध्याय ८  साक्षी दण्ड  एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः  ॥ ८.११९ ॥
अध्याय ८  साक्षिण दण्ड  लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम्  । भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम्  ॥ ८.१२० ॥
अध्याय ८   साक्षिण दण्ड कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम्  । अज्ञानाद्द्वे शते पूर्णे बालिश्याच्छतमेव तु  ॥ ८.१२१ ॥
अध्याय ८  साक्षी को दण्ड का विधान  एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान्मनीषिभिः  । धर्मस्याव्यभिचारार्थमधर्मनियमाय च  ॥ ८.१२२ ॥
अध्याय ८  दण्ड के स्थान  उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्  । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च  ॥ ८.१२५ ॥
अध्याय ८  दण्ड का विचार कैसे करे  अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः  । सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥
अध्याय ८  धर्म विरुद्ध दण्ड  अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम्  । अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ ८.१२७ ॥
अध्याय ८  दण्ड न देने का परिणाम  अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।अयशो महदाप्नोति नरकं चैव गच्छति  ॥ ८.१२८ ॥
अध्याय ८  वाग्दंड आदि  वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ ८.१२९ ॥
अध्याय ८  दण्डो की सीमा  वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम्  ॥ ८.१३० ॥
अध्याय ८  अमान्य व्यवहार  मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा  । असंबद्धकृतश्चैव व्यावहारो न सिध्यति  ॥ ८.१६३ ॥
अध्याय ८  प्रतिज्ञा पत्र का प्रारंभ से शून्य होना  सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता  । बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात् ॥ ८.१६४ ॥
अध्याय ८  अमान्य व्यवहार  योगाधमनविक्रीतं योगदानप्रतिग्रहम्  । यत्र वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥
अध्याय ८  व्यवहार दर्शन शुरू करने से पहले अभिवादन  यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः  । सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ८.३९१ ॥
अध्याय ८  1. ऋण दान 
अध्याय ८  ऋण वापसी का आवेदन  अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेनचोदितः। दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम्  ॥ ८.४७ ॥
अध्याय ८  ऋण वापसी के साधन  यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः  । तैर्तैरुपायैः संगृह्य दापयेदधमर्णिकम्  ॥ ८.४८ ॥
अध्याय ८  ऋण वापसी के उपाय धर्मेण व्यवहारेण छलेनाचरितेन च  । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च  ॥ ८.४९ ॥
अध्याय ८  ऋण वापसी के उपाय यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् । न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम्  ॥ ८.५० ॥
अध्याय ८  ऋण लेकर मुकरना  अर्थेऽपव्ययमानं तु करणेन विभावितम्  । दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः  ॥ ८.५१ ॥
अध्याय ८  ऋण वापसी में प्रमाण का प्रयोग  अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि  । अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत् ॥ ८.५२ ॥
अध्याय ८  ऋण दान सिद्द करने में असफल  अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः  । यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते  ॥ ८.५३ ॥
अध्याय ८  ऋण दान सिद्द करने में असफल  अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति  । सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति  ॥ ८.५४ ॥
अध्याय ८  ऋण दान सिद्द करने में असफल  असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः  । निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ८.५५ ॥
अध्याय ८  ऋण दान सिद्द करने में असफल  ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते  ॥ ८.५६ ॥
अध्याय ८  ऋण दान सिद्द करने में असफल  साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः  । धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ ८.५७ ॥
अध्याय ८  वादी को दण्ड  अभियोक्ता न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः  । न चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः  ॥ ८.५८ ॥
अध्याय ८  असत्य धन परिमाण बताने पर दण्ड  यो यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यो तद्द्विगुणं दमम्  ॥ ८.५९ ॥
अध्याय ८  ऋण सिद्द होने पर दण्ड  ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति  । अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्  ॥ ८.१३९ ॥
अध्याय ८  ब्याज की मात्रा  वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम्  । अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते  ॥ ८.१४० ॥
अध्याय ८  ब्याज की उत्तम सीमा   द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन्  । द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी  ॥ ८.१४१ ॥
अध्याय ८  बंधक रखने पर ब्याज का निषेध  न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः  ॥ ८.१४३ ॥
अध्याय ८  गोप्य बंधक के भोग का निषेध  न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ ८.१४४ ॥
अध्याय ८  बंधक और दान की वस्तु पर स्वामित्व का नाश नहीं   आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः  । अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ  ॥ ८.१४५ ॥
अध्याय ८  स्वामित्व के अधिकार निषेध  संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन  । धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते  ॥ ८.१४६ ॥
अध्याय ८  स्वामित्वनाश की अवधि  यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी  । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति  ॥ ८.१४७ ॥
अध्याय ८  संपत्ति पर अधिकार  अजडश्चेदपोगण्डो विषये चास्य भुज्यते  । भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति  ॥ ८.१४८ ॥
अध्याय ८  अपवाद आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः  । राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति  ॥ ८.१४९ ॥
अध्याय ८  बंधक  भोगने पर आधा ब्याज  यः स्वामिनाननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः  । तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः  ॥ ८.१५० ॥
अध्याय ८  दुगने से अधिक ब्याज का निषेध  कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता  । धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम्  ॥ ८.१५१ ॥
अध्याय ८  कुसीद की मात्रा  कृतानुसारादधिका व्यतिरिक्ता न सिध्यति  । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति  ॥ ८.१५२ ॥
अध्याय ८  ब्याज के प्रकार  नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या  ॥ ८.१५३ ॥
अध्याय ८  लेख में बदलाव  ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम्  । स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥
अध्याय ८  लेख्य   अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति  ॥ ८.१५५ ॥
अध्याय ८  प्रतिभू  यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः  । अदर्शयन् स तं तस्य प्रयच्छेत्स्वधनादृणम्  ॥ ८.१५८ ॥
अध्याय ८  प्रतिभू के ऋण वापिसी का निषेध  प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् । दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति  ॥ ८.१५९ ॥
अध्याय ८  प्रतिभू  दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः  । दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ ८.१६० ॥
अध्याय ८   प्रतिभू अदातरि पुनर्दाता विज्ञातप्रकृतावृणम्  । पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना  ॥ ८.१६१ ॥
अध्याय ८  प्रतिभूति का विमोचन  निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः  । स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः  ॥ ८.१६२ ॥
अध्याय ८  कुटुंब द्वारा  ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः  । दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः  ॥ ८.१६६ ॥
अध्याय ८  विदेश गमन  कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ ८.१६७ ॥
अध्याय ८  अमान्य व्यवहार  बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम्  । सर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ ८.१६८ ॥
अध्याय ८  क्लेश उठाना  त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः  ॥ ८.१६९ ॥
अध्याय ८  धन का लेनदेन  अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः  । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ ८.१७० ॥
अध्याय ८  पद स्थिति का उपयोग  यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे  । स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम्  ॥ ८.१७६ ॥
अध्याय ८  चुकाने का नियम  कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः  । समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः  ॥ ८.१७७ ॥
अध्याय ८  २. निक्षेप 
अध्याय ८  निक्षेप , धरोहर आदि का रखना  कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि  । महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः  ॥ ८.१७९ ॥
अध्याय ८  लेने के प्रकार से निक्षेप की वापसी  यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः  । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः  ॥ ८.१८० ॥
अध्याय ८  साक्षी के अभाव में धरोहर का निर्णय यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति  । स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ  ॥ ८.१८१ ॥
अध्याय ८  अन्य उपाय  साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः  । अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः  ॥ ८.१८२ ॥
अध्याय ८  शिकायत का झूटा  होना  स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्  । न तत्र विद्यते किं चिद्यत्परैरभियुज्यते  ॥ ८.१८३ ॥
अध्याय ८  दण्ड से वापसी कराना  तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि  । उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा  ॥ ८.१८४ ॥
अध्याय ८  पुत्रादि को धरोहर देने का निषेध  निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे  । नश्यतो विनिपाते तावनिपाते त्वनाशिनौ  ॥ ८.१८५ ॥
अध्याय ८  धरोहर को स्वयं लौटाने पर  स्वयमेव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे  । न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः  ॥ ८.१८६ ॥
अध्याय ८  स्वयं लौटाना  अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम्  । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥
अध्याय ८  मुहरबंद धरोहर देने पर  निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने  । समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् ॥ ८.१८८ ॥
अध्याय ८  धरोहर के चोरी होने पर  चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा  । न दद्याद्यदि तस्मात्स न संहरति किं चन  ॥ ८.१८९ ॥
अध्याय ८  धरोहर वापिस नहीं करने पर दण्ड  निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च  । सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः  ॥ ८.१९० ॥
अध्याय ८  चोर के समान दण्ड  यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते  । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम्  ॥ ८.१९१ ॥
अध्याय ८  दण्ड  निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम्  । तथोपनिधिहर्तारमविशेषेण पार्थिवः  ॥ ८.१९२ ॥
अध्याय ८  छल से दूसरे के धन का हरण करने पर दण्ड  उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः  । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः  ॥ ८.१९३ ॥
अध्याय ८  धरोहर के विषय में असत्य बोलने पर दण्ड  निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ  । तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति  ॥ ८.१९४ ॥
अध्याय ८  धरोहर देने तथा वापिस करने का प्रकार  मिथो दायः कृतो येन गृहीतो मिथ एव वा  । मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः  ॥ ८.१९५ ॥
अध्याय ८  निक्षेप  निर्णय  निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च  । राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम्  ॥ ८.१९६ ॥
अध्याय ८  ३. अस्वामी विक्रय 
अध्याय ८  बिना स्वामित्व के बेचने पर दण्ड  विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः  । न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्  ॥ ८.१९७ ॥
अध्याय ८  चोर के समान दण्ड  अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम्  । निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम्  ॥ ८.१९८ ॥
अध्याय ८  दण्ड  अस्वामिना कृतो यस्तु दायो विक्रय एव वा  । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः  ॥ ८.१९९ ॥
अध्याय ८  आगम सहित भोग की प्रमाणता  संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् । आगमः कारणं तत्र न संभोग इति स्थितिः  ॥ ८.२०० ॥
अध्याय ८  सर्वप्रथम खरीदने पर मूल प्रति  विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ  । क्रयेण स विशुद्धं हि न्यायतो लभते धनम्  ॥ ८.२०१ ॥
अध्याय ८  अन्य साधन  अथ मूलमनाहार्यं प्रकाशक्रयशोधितः  । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्  ॥ ८.२०२ ॥
अध्याय ८  मिलावटी वस्तु  बेचने पर दण्ड  नान्यदन्येन संसृष्ट- रूपं विक्रयमर्हति  । न चासारं न च न्यूनं न दूरेण तिरोहितम्  ॥ ८.२०३ ॥
अध्याय ८  दोष बताकार विवाह कराना   नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना  । पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति  ॥ ८.२०५ ॥
अध्याय ८  ४. साझेदारी 
अध्याय ८  सम्मिलित कार्य मूल्य  ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयोऽशः सहकर्तृभिः  ॥ ८.२०६ ॥
अध्याय ८  मूल्य मिलने पर कार्य का छोड़ना  दक्षिणासु च दत्तासु स्वकर्म परिहापयन्  । कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥ ८.२०७ ॥
अध्याय ८  मूल्य का वितरण  यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः  । स एव ता आदिदीत भजेरन् सर्व एव वा  ॥ ८.२०८ ॥
अध्याय ८  मूल्य का वितरण  रथं हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम्  । होता वापि हरेदश्वमुद्गाता चाप्यनः क्रये  ॥ ८.२०९ ॥
अध्याय ८  यज्ञ की दक्षिणा का वितरण  सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे  । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः  ॥ ८.२१० ॥
अध्याय ८  सम्मिलित कार्य करने पर  संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः  । अनेन विधियोगेन कर्तव्यांशप्रकल्पना  ॥ ८.२११ ॥
अध्याय ८  ५. दिए पदार्थ को न देना 
अध्याय ८  दान द्रव्य को लौटाने का नियम  धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम्  । पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ ८.२१२ ॥
अध्याय ८  वापिस न करने पर दण्ड  यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः  । राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः  ॥ ८.२१३ ॥
अध्याय ८  ६. वेतन न देने का विवाद 
अध्याय ८  वेतन न देने का विवाद  दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया  । अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम्  ॥ ८.२१४ ॥
अध्याय ८  कर्मचारी के काम नहीं करने पर दण्ड  भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम्  । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम्  ॥ ८.२१५ ॥
अध्याय ८  रोगादि में वेतन का विधान आर्तस्तु कुर्यात्स्वस्थः सन् यथाभाषितमादितः  । स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम्  ॥ ८.२१६ ॥
अध्याय ८  वेतन दान निषेध  यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः  ॥ ८.२१७ ॥
अध्याय ८  ७. सविंदा व्यतिक्रम
अध्याय ८  वेतनदान विधि का समापन तथा सविंदा व्यतिक्रम की विधि का वर्णन  एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः  । अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम्  ॥ ८.२१८ ॥
अध्याय ८  सविंदा भंग में दण्ड  यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम्  । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ ८.२१९ ॥
अध्याय ८  जुर्माना  निगृह्य दापयेच्चैनं समयव्यभिचारिणम्  । चतुःसुवर्णान् षण्निष्कांश्छतमानं च राजकम्  ॥ ८.२२० ॥
अध्याय ८  जुर्माना  एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः  । ग्रामजातिसमूहेषु समयव्यभिचारिणाम्  ॥ ८.२२१ ॥
अध्याय ८  ८. क्रय -विक्रय 
अध्याय ८  क्रय-विक्रय करने पर मूल्य लेना या देना  क्रीत्वा विक्रीय वा किं चिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा  ॥ ८.२२२ ॥
अध्याय ८  क्रीत वस्तु की वापसी  परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददत्चैव राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३ ॥
अध्याय ८  बिना दोष बताये कन्यादान करने पर दण्ड  यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति  । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान्  ॥ ८.२२४ ॥
अध्याय ८  कन्या के असत्य दोष कहने पर दण्ड  अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः  । स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन्  ॥ ८.२२५ ॥
अध्याय ८  शादीशुदा के बारे मे कहने पर दण्ड नहीं  पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः  । नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः  ॥ ८.२२६ ॥
अध्याय ८  सप्तपदी –स्थान भ्रष्ट सूत्र  पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्  । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे  ॥ ८.२२७ ॥
अध्याय ८  भूल सुधार का समय  यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् । तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥
अध्याय ८   स्थान तथा समय का भाडा चक्रवृद्धिं समारूढो देशकालव्यवस्थितः  । अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥ ८.१५६ ॥
अध्याय ८  जल मार्ग भाड़ा  समुद्रयानकुशला देशकालार्थदर्शिनः  । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति  ॥ ८.१५७ ॥
अध्याय ८  ९. पशु स्वामी पाल विवाद 
अध्याय ८  पशु स्वामी पाल विवाद  पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे  । विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः  ॥ ८.२२९ ॥
अध्याय ८  पशु रक्षा की जिम्मेदारी  दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे  । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥ ८.२३० ॥
अध्याय ८  दुग्ध वेतन का निर्णय  गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम्  । गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः  ॥ ८.२३१ ॥
अध्याय ८  पशु के नष्ट होने पर दण्ड  नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम्  । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु  ॥ ८.२३२ ॥
अध्याय ८  पशु के अपहरण करने पर दण्ड  विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति  । यदि देशे च काले च स्वामिनः स्वस्य शंसति  ॥ ८.२३३ ॥
अध्याय ८  मृत पशु की पहचान   कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम्  । पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥ ८.२३४ ॥
अध्याय ८  जंगली पशु द्वारा हानि  अजाविके तु संरुद्धे वृकैः पाले त्वनायति  । यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥ ८.२३५ ॥
अध्याय ८  -जंगली पशु द्वारा हानि तासां चेदवरुद्धानां चरन्तीनां मिथो वने  । यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी  ॥ ८.२३६ ॥
अध्याय ८  गोचर भूमि का प्रमाण  धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः  । शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु  ॥ ८.२३७ ॥
अध्याय ८  गोचर भूमि में फसल का नष्ट होना  तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि  । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम्  ॥ ८.२३८ ॥
अध्याय ८  गोचर भूमि की रक्षा  वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् । छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम्  ॥ ८.२३९ ॥
अध्याय ८  खेत की रक्षा  पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः  । सपालः शतदण्डार्हो विपालान् वारयेत्पशून्  ॥ ८.२४० ॥
अध्याय ८  अन्य के खेत में पशु के चरने पर दण्ड  क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति  । सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा  ॥ ८.२४१ ॥
अध्याय ८  सांड आदि के चरने पर दण्ड का अभाव  अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा  । सपालान् वा विपालान् वा न दण्ड्यान्मनुरब्रवीत् ॥ ८.२४२ ॥
अध्याय ८  राजदेयं भाग की हानि करने पर  क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु  ॥ ८.२४३ ॥
अध्याय ८  विधि का अनुकूलन  एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः  । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे  ॥ ८.२४४ ॥
अध्याय ८  १०. सींमा विवाद होने पर 
अध्याय ८  सींमा विवाद होने पर  सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः  । ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु  ॥ ८.२४५ ॥
अध्याय ८  सीमा चिह्न  सींवृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान्  । शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान्  ॥ ८.२४६ ॥
अध्याय ८  सीमा का नष्ट न होना  गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च  । शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति  ॥ ८.२४७ ॥
अध्याय ८  सीमा संधि पर मंदिर तालाब बनवाना  तडागान्युदपानानि वाप्यः प्रस्रवनाणी च ! सीमासंधिषु कार्याणि देवतायतनानि ॥ २४८ 
अध्याय ८  गुप्त वस्तुओ को सीमा पर रखना  उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम्  ॥ ८.२४९ ॥
अध्याय ८  सीमा संधि पर निशानी रखना  अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः  । करीषमिष्टकाङ्गारांश्शर्करा वालुकास्तथा  ॥ ८.२५० ॥
अध्याय ८  गुप्त वस्तुओ को लगाना  यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ ८.२५१ ॥
अध्याय ८  उपभोग द्वारा सीमा निर्णय  एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः  । पूर्वभुक्त्या च सततमुदकस्यागमेन च  ॥ ८.२५२ ॥
अध्याय ८  सीमा साक्षियों की प्रमाणता  यदि स्ंशय एव स्याल्लिङ्गानामपि दर्शने  । साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः  ॥ ८.२५३ ॥
अध्याय ८  सीमा चिह्न का साक्ष्य  ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः  । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः  ॥ ८.२५४ ॥
अध्याय ८  सीमा साक्षियों के कथन को लेखबद्द करना  ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम्  । निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः  ॥ ८.२५५ ॥
अध्याय ८  सीमा साक्षियों की शपथ  शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः  । सुकृतैः शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम्  ॥ ८.२५६ ॥
अध्याय ८  असत्य कहने पर दण्ड  यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः  । विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम्  ॥ ८.२५७ ॥
अध्याय ८  साक्षी के अभाव में कर्तव्य  साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः  । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ  ॥ ८.२५८ ॥
अध्याय ८  वनचरो से पूछताछ  सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम्  । इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान्  ॥ ८.२५९ ॥
अध्याय ८  वनचरो के नाम व्याधाञ्शाकुनिकान् गोपान् कैवर्तान्मूलखानकान्  । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः  ॥ ८.२६० ॥
अध्याय ८  -धर्मानुसार निर्णय ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम्  । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः  ॥ ८.२६१ ॥
अध्याय ८  एक ग्राम में सीमा विवाद होने पर  क्षेत्रकूपतडागानामारामस्य गृहस्य च  । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः  ॥ ८.२६२ ॥
अध्याय ८  असत्य वक्ता सामंतो को दण्ड  सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम्  । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम्  ॥ ८.२६३ ॥
अध्याय ८  बल से गृहादी स्वाधीन करने पर दण्ड  गृहं तडागमारामं क्षेत्रं वा भीषया हरन्  । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः  ॥ ८.२६४ ॥
अध्याय ८  साक्षी अभाव में सीमा निर्णय  सीमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेकेषामुपकारादिति स्थितिः  ॥ ८.२६५ ॥
अध्याय ८  ११. कठोर भाषण 
अध्याय ८  सीमा विवाद विधि की समाप्ति  एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये  । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम्  ॥ ८.२६६ ॥
अध्याय ८  समवर्ण को कटु वाक्य कहना  समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे  । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ ८.२६९ ॥
अध्याय ८  शास्त्र आदि की निंदा करने पर दण्ड  श्रुतं देशं च जातिं च कर्म शरीरमेव च  । वितथेन ब्रुवन् दर्पाद्दाप्यः स्याद्द्विशतं दमम्  ॥ ८.२७३ ॥
अध्याय ८  कटु वचन कहने पर दण्ड  काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्  । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम्  ॥ ८.२७४ ॥
अध्याय ८  माता पिता की निंदा करने पर दण्ड  मातरं पितरं जायां भ्रातरं तनयं गुरुम्  । आक्षारयञ्शतं दाप्यः पन्थानं चाददद्गुरोः  ॥ ८.२७५ ॥
अध्याय ८  आपस में कठोर भाषण पर दण्ड  ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता  । ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः  ॥ ८.२७६ ॥
अध्याय ८  १२. दण्ड पारुष्य 
अध्याय ८  12. दण्ड पारुष्य  एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः  । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम्  ॥ ८.२७८ ॥
अध्याय ८  घातक चोट में दण्ड  त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः  । मांसभेत्ता तु षण्निष्कान् प्रवास्यस्त्वस्थिभेदकः  ॥ ८.२८४ ॥
अध्याय ८  व्रक्षादी काटने पर दण्ड  वनस्पतीनां सर्वेषामुपभोगो यथा यथा  । यथा तथा दमः कार्यो हिंसायामिति धारणा  ॥ ८.२८५ ॥
अध्याय ८  पीडानुसार दण्ड  मनुष्याणां पशूनां च दुःखाय प्रहृते सति  । यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा  ॥ ८.२८६ ॥
अध्याय ८  आहत के स्वस्थ होने तक का व्यय दिलवाना   अङ्गावपीडनायां च व्रणशोनितयोस्तथा  । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा  ॥ ८.२८७ ॥
अध्याय ८  वस्तु के नष्ट होने पर दण्ड  द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा  । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्  ॥ ८.२८८ ॥
अध्याय ८  अन्य वस्तुओ के नष्ट होने पर दण्ड  चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु  । मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च  ॥ ८.२८९ ॥
अध्याय ८  वाहन के नष्ट होने पर दण्ड  यानस्य चैव यातुश्च यानस्वामिन एव च  । दशातिवर्तनान्याहुः शेषे दण्डो विधीयते  ॥ ८.२९० ॥
अध्याय ८  अन्य दण्ड  छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते  । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च  ॥ ८.२९१ ॥
अध्याय ८  अन्य दण्ड छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च  । आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ ८.२९२ ॥
अध्याय ८  सारथि की मुर्खता से किसी के मरने पर स्वामी को दण्ड  यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु  । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्  ॥ ८.२९३ ॥
अध्याय ८  अन्य दण्ड विधान  प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति  । युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम्  ॥ ८.२९४ ॥
अध्याय ८  अन्य अवस्था में दण्ड  स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा  । प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः  ॥ ८.२९५ ॥
अध्याय ८  अपराध के बाद दण्ड विधान  मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् । प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु  ॥ ८.२९६ ॥
अध्याय ८  पशु पक्षी के मरने पर दण्ड  क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः  । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु  ॥ ८.२९७ ॥
अध्याय ८  अन्य पशु के मरने पर दण्ड  गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः  । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने  ॥ ८.२९८ ॥
अध्याय ८  शिक्षार्थ स्त्री , बालक को दण्ड  भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः  । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा  ॥ ८.२९९ ॥
अध्याय ८  अन्य दण्ड  पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन  । अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम्  ॥ ८.३०० ॥
अध्याय ८  १३. चोरी 
अध्याय ८  चोर के लिए दण्ड विधान  एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः  । स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये  ॥ ८.३०१ ॥
अध्याय ८  चोर निग्रह  परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः  । स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते  ॥ ८.३०२ ॥
अध्याय ८  चौर्य कर्म के लिए दण्ड  राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता  । आचक्षाणेन तत्स्तेयमेवंकर्मास्मि शाधि माम्  ॥ ८.३१४ ॥
अध्याय ८  चौर्य कर्म के लिए दण्ड  स्कन्धेनादाय मुसलं लगुडं वापि खादिरम्  । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा  ॥ ८.३१५ ॥
अध्याय ८  चौर्य कर्म के लिए दण्ड  शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते  । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम्  ॥ ८.३१६ ॥
अध्याय ८  दण्डित न करने का दोष  अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी  । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्  ॥ ८.३१७ ॥
अध्याय ८  दण्ड से अपराध की मुक्ति  राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः  । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा  ॥ ८.३१८ ॥
अध्याय ८  कुए की रस्सी चुराने पर दण्ड  यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम्  । स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥ ८.३१९ ॥
अध्याय ८  धान्य चुराने पर दण्ड  धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः  । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम्  ॥ ८.३२० ॥
अध्याय ८  सुवर्ण चुराने पर दण्ड  तथा धरिममेयानां शतादभ्यधिके वधः  । सुवर्णरजतादीनामुत्तमानां च वाससाम्  ॥ ८.३२१ ॥
अध्याय ८  तौल में कमी पर दण्ड  पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते  । शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥
अध्याय ८  स्त्री पुरुष चुराने पर दण्ड  पुरुषाणां कुलीनानां नारीणां च विशेषतः  । मुख्यानां चैव रत्नानां हरणे वधमर्हति  ॥ ८.३२३ ॥
अध्याय ८  बड़े पशु के चुराने पर दण्ड  महापशूनां हरणे शस्त्राणामौषधस्य च  । कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥
अध्याय ८  चौर्य कर्म के लिए दण्ड  गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने  । पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः  ॥ ८.३२५ ॥
अध्याय ८  सूत रुई चुराने पर  सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च  । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च  ॥ ८.३२६ ॥
अध्याय ८  अन्य वस्तुओ को चुराने पर दण्ड  वेणुवैदलभाण्डानां लवणानां तथैव च  । मृण्मयानां च हरणे मृदो भस्मन एव च  ॥ ८.३२७ ॥
अध्याय ८   अन्य वस्तुओ को चुराने पर दण्ड मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च  । मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम्  ॥ ८.३२८ ॥
अध्याय ८   अन्य वस्तुओ को चुराने पर दण्ड अन्येषां चैवमादीनां मद्यानामोदनस्य च  । पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः  ॥ ८.३२९ ॥
अध्याय ८  पुष्पादि चुराने पर दण्ड  पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च  । अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः  ॥ ८.३३० ॥
अध्याय ८  अन्य वस्तु के चुराने पर दण्ड  परिपूतेषु धान्येषु शाकमूलफलेषु च  । निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः  ॥ ८.३३१ ॥
अध्याय ८  साहस तथा स्तेय के लक्षण  स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम्  । निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् ॥ ८.३३२ ॥
अध्याय ८  उपभोग्य वस्युओ को चुराने पर दण्ड  यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः  । तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ॥ ८.३३३ ॥
अध्याय ८  चोर को दण्ड  येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते  । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः  ॥ ८.३३४ ॥
अध्याय ८  धर्मच्युत होने पर दण्ड  पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः  । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति  ॥ ८.३३५ ॥
अध्याय ८  अपराधी राजा को विशेष दण्ड  कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः  । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा  ॥ ८.३३६ ॥
अध्याय ८  गैर आर्यन को दण्ड  अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम्  । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च  ॥ ८.३३७ ॥
अध्याय ८  दण्ड की  मात्रा  ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः  ॥ ८.३३८ ॥
अध्याय ८  दुसरो से सम्पति ग्रहण करने पर दण्ड  योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम्  । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः  ॥ ८.३४० ॥
अध्याय ८  यात्रा में खाने की वास्तु लेने पर अदंड  द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके  । आददानः परक्षेत्रान्न दण्डं दातुमर्हति  ॥ ८.३४१ ॥
अध्याय ८  अरक्षित पशु के अपहरण पर दण्ड  असंदितानां संदाता संदितानां च मोक्षकः  । दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम्  ॥ ८.३४२ ॥
अध्याय ८  चोर दण्ड विधान  अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।यशोऽस्मिन् प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम्  ॥ ८.३४३ ॥
अध्याय ८  १४. साहस
अध्याय ८  साहसकर्ता का निग्रह  ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम्  । नोपेक्षेत क्षणमपि राजा साहसिकं नरम्  ॥ ८.३४४ ॥
अध्याय ८  साहस की अधिक सदोषता  वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः  । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः  ॥ ८.३४५ ॥
अध्याय ८  साहस क्षमा की निंदा  साहसे वर्तमानं तु यो मर्षयति पार्थिवः  । स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति  ॥ ८.३४६ ॥
अध्याय ८  साहसिक को दण्ड  न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान् सर्वभूतभयावहान्  ॥ ८.३४७ ॥
अध्याय ८  आत्म रक्षा  शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते  । द्विजातीनां च वर्णानां विप्लवे कालकारिते  ॥ ८.३४८ ॥
अध्याय ८  आत्म रक्षा आत्मनश्च परित्राणे दक्षिणानां च संगरे  । स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति  ॥ ८.३४९ ॥
अध्याय ८  आततायी को मारना  गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्  । आततायिनमायान्तं हन्यादेवाविचारयन्  ॥ ८.३५० ॥
अध्याय ८   आततायी वध में निदोषता   नाततायिवधे दोषो हन्तुर्भवति कश्चन  । प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति  ॥ ८.३५१ ॥
अध्याय ८  १५. परस्त्री दूषण
अध्याय ८  परस्त्री दूषण में दण्ड  परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः  । उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ॥ ८.३५२ ॥
अध्याय ८  स्त्री दूषण का परिणाम  तत्समुत्थो हि लोकस्य जायते वर्णसंकरः  । येन मूलहरोऽधर्मः सर्वनाशाय कल्पते  ॥ ८.३५३ ॥
अध्याय ८  परस्त्री के साथ एकांत में भाषण करने पर  परस्य पत्न्या पुरुषः संभाषां योजयन् रहः  । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम्  ॥ ८.३५४ ॥
अध्याय ८  कोई दण्ड  नहीं  यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात् । न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः  ॥ ८.३५५ ॥
अध्याय ८  विधान का अपवाद  परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा  । नदीनां वापि संभेदे स संग्रहणमाप्नुयात् ॥ ८.३५६ ॥
अध्याय ८  स्त्री संग्रहण का लक्षण  उपचारक्रिया केलिः स्पर्शो भूषणवाससाम्  । सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम्  ॥ ८.३५७ ॥
अध्याय ८  -स्त्री संग्रहण का लक्षण स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया  । परस्परस्यानुमते सर्वं संग्रहणं स्मृतम्  ॥ ८.३५८ ॥
अध्याय ८  पुरोहित की स्त्री को दूषित करने पर दण्ड  अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति  । चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा  ॥ ८.३५९ ॥
अध्याय ८  अपवाद  भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा  । संभाषनं सह स्त्रीभिः कुर्युरप्रतिवारिताः  ॥ ८.३६० ॥
अध्याय ८  निषेध करने पर भाषण करने पर दण्ड  न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति  ॥ ८.३६१ ॥
अध्याय ८  अपवाद  नैष चारणदारेषु विधिर्नात्मोपजीविषु  । सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च  ॥ ८.३६२ ॥
अध्याय ८  एकान्तिक दोष में दण्ड  किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन्  । प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च  ॥ ८.३६३ ॥
अध्याय ८  कन्या सम्भोग करने पर दण्ड  योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति  । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः  ॥ ८.३६४ ॥
अध्याय ८  गणिका  कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेद्गृहे  ॥ ८.३६५ ॥
अध्याय ८  गैर आर्यन को दण्ड , विधर्मी को दण्ड  उत्तमां सेवमानस्तु जघन्यो वधमर्हति  । शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि  ॥ ८.३६६ ॥
अध्याय ८  कन्या को दूषित करने पर दण्ड  अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः  । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम्  ॥ ८.३६७ ॥
अध्याय ८  कन्या दूषण में दण्ड   सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये  ॥ ८.३६८ ॥
अध्याय ८  कन्या द्वारा कन्या दूषण  कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः  । शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश  ॥ ८.३६९ ॥
अध्याय ८  कन्या दूषण  पर दण्ड  या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति  । अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा  ॥ ८.३७० ॥
अध्याय ८  व्याभिचारिण स्त्री को दण्ड  भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता  । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते  ॥ ८.३७१ ॥
अध्याय ८  व्याभिचारी पुरुष को दण्ड  पुमांसं दाहयेत्पापं शयने तप्त आयसे  । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ ८.३७२ ॥
अध्याय ८  पुनः कारित करने पर दण्ड  संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः  । व्रात्यया सह संवासे चाण्डाल्या तावदेव तु  ॥ ८.३७३ ॥
अध्याय ८  विधर्मी को दण्ड  शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन्  । अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते  ॥ ८.३७४ ॥
अध्याय ९ १६. पति पत्नी धर्म
अध्याय ९ स्त्रीपुंधर्मं  पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः  । संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान्  ॥ ९.१ ॥
अध्याय ९ स्त्रीरक्षा  अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्  । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे  ॥ ९.२ ॥
अध्याय ९ पुनरीक्षण  पिता रक्षति कौमारे भर्ता रक्षति यौवने  । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति  ॥ ९.३ ॥
अध्याय ९ पुनरीक्षण  कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः  । मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता  ॥ ९.४ ॥
अध्याय ९ पुनरीक्षण  सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः  । द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः  ॥ ९.५ ॥
अध्याय ९ पुनरीक्षण  इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम्  । यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि  ॥ ९.६ ॥
अध्याय ९ पुनरीक्षण  स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च  । स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति  ॥ ९.७ ॥
अध्याय ९ जायाशब्दार्थकथनम  पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते  । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः  ॥ ९.८ ॥
अध्याय ९ पत्य्नुकुल संतानोत्त्पति  यादृशं भजते हि स्त्री सुतं सूते तथाविधम्  । तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः  ॥ ९.९ ॥
अध्याय ९ पुनरीक्षण  न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम्  । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम्  ॥ ९.१० ॥
अध्याय ९ पुनरीक्षण  अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे  ॥ ९.११ ॥
अध्याय ९ पुनरीक्षण  अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः  । आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः  ॥ ९.१२ ॥
अध्याय ९ छह दोष  पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्  । स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ ९.१३ ॥
अध्याय ९ स्त्रीस्वभाव  नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः  । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते  ॥ ९.१४ ॥
अध्याय ९ स्त्रीस्वभाव  पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः  । रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते  ॥ ९.१५ ॥
अध्याय ९ स्त्रीस्वामीगुणाभवति  यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि  । तादृग्गुणा सा भवति समुद्रेणेव निम्नगा  ॥ ९.२२ ॥
अध्याय ९ स्त्रीप्रशंसा  प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः  । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन  ॥ ९.२६ ॥
अध्याय ९ -स्त्री से घर की शोभा  उत्पादनमपत्यस्य जातस्य परिपालनम्  । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम्  ॥ ९.२७ ॥
अध्याय ९ पुनरीक्षण  अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा  । दाराधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह  ॥ ९.२८ ॥
अध्याय ९ अव्याभिचारफलम  पतिं या नाभिचरति मनोवाग्देहसंयता  । सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते  ॥ ९.२९ ॥
अध्याय ९ व्याभिचारफलम  व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्  । सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते  ॥ ९.३० ॥
अध्याय ९ -बीज और खेत का महत्व  क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्  । क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम्  ॥ ९.३३ ॥
अध्याय ९ -बीज और क्षेत्र की प्रधानता  विशिष्टं कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते  ॥ ९.३४ ॥
अध्याय ९ --बीज प्राधान्य  बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते  । सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता  ॥ ९.३५ ॥
अध्याय ९ -बीज प्राधान्य में द्रष्टान्त  यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते  । तादृग्रोहति तत्तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः  ॥ ९.३६ ॥
अध्याय ९ -परस्त्री में बीजवपन का निषेध  तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना  । आयुष्कामेन वप्तव्यं न जातु परयोषिति  ॥ ९.४१ ॥
अध्याय ९ -परस्त्री गमन  अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः  । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे  ॥ ९.४२ ॥
अध्याय ९ -भ्रात्रपत्नी से सम्भोग करके पतित होना  भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा  । यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता  ॥ ९.५७ ॥
अध्याय ९ -केवल नियोग में आज्ञा  ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम्  । पतितौ भवतो गत्वा नियुक्तावप्यनापदि  ॥ ९.५८ ॥
अध्याय ९ -नियोग प्रकरण - क्षेत्रज पुत्र  देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया  । प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये  ॥ ९.५९ ॥
अध्याय ९ -नियोग प्रकरण द्वितीय पुत्र को उत्पन्न का निषेध  विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि  । एकमुत्पादयेत्पुत्रं न द्वितीयं कथं चन  ॥ ९.६० ॥
अध्याय ९ -पूर्वत व्यवहार  विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि  । गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम्  ॥ ९.६२ ॥
अध्याय ९ -नियोग में कामवासना से सम्भोग की निंदा  नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः  । तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ  ॥ ९.६३ ॥
अध्याय ९ -वाग्दत कन्या के पति के मरने पर  यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः  । तामनेन विधानेन निजो विन्देत देवरः  ॥ ९.६९ ॥
अध्याय ९ -सप्तपदी के पूर्व दोषवती कन्या का त्याग  विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम्  । व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम्  ॥ ९.७२ ॥
अध्याय ९ - सप्तपदी के बाद दोषवती कन्या का त्याग  यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत् । तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः  ॥ ९.७३ ॥
अध्याय ९ -विदेश गमन से पूर्व स्त्रीवृत्ति की व्यवस्था  विधाय वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः  । अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्यपि  ॥ ९.७४ ॥
अध्याय ९ -विदेश गमन में स्त्री के कर्तव्य  विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता  । प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः  ॥ ९.७५ ॥
अध्याय ९ -विदेश गमन में पति की प्रतीक्षा का समय   प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः  । विद्यार्थं षड्यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान्  ॥ ९.७६ ॥
अध्याय ९ -द्वेषयुक्त स्त्री की प्रतीक्षा का समय  संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः  । ऊर्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ ९.७७ ॥
अध्याय ९ परित्याज्या विभूषणपरिच्छदा अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा  । सा त्रीन्मासान् परित्याज्या विभूषणपरिच्छदा  ॥ ९.७८ ॥
अध्याय ९ -वक्ष्यमान स्त्री के रहते दूसरा विवाह करना   मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् । व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा  ॥ ९.८० ॥
अध्याय ९ -दुसरे विवाह के अन्य नियम  वन्ध्याष्टमेऽधिवेद्याऽअब्दे दशमे तु मृतप्रजा  । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी  ॥ ९.८१ ॥
अध्याय ९ -रोगिणी तथा पति परायण स्त्री के होने पर दूसरा विवाह  या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः  । सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥ ९.८२ ॥
अध्याय ९  नारी निर्गच्छेद्रुषिता गृहात्  अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात् । सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ  ॥ ९.८३ ॥
अध्याय ९ -स्त्री के मधपान पर दण्ड    प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि  । प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥ ९.८४ ॥
अध्याय ९ वर अभाव में जीवन पर्यंत घर रहना  काममा मरणात्तिष्ठेद्गृहे कन्या र्तुमत्यपि  । न चैवैनां प्रयच्चेत्तु गुणहीनाय कर्हि चित् ॥ ९.८९ ॥
अध्याय ९ -निर्गुणी वर के लिए कन्यादान का निषेध  त्रीणि वर्षाण्युदीक्षेत कुमार्यृतुमती सती  । ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम्  ॥ ९.९० ॥
अध्याय ९ -स्वयं वरण  का समय  अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम्  । नैनः किं चिदवाप्नोति न च यं साधिगच्छति  ॥ ९.९१ ॥
अध्याय ९ -स्वयंवरण  में पति पत्नी की निर्दोषता  अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा  । मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९.९२ ॥
अध्याय ९ -विवाह की आवश्यकता  प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः  । तस्मात्साधारणो धर्मः श्रुतौ पत्न्या सहोदितः  ॥ ९.९६ ॥
अध्याय ९ -स्त्री के साथ धर्म कार्य का विधान  कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः  । देवराय प्रदातव्या यदि कन्यानुमन्यते  ॥ ९.९७ ॥
अध्याय ९ जीवन पर्यंत साथ रहना  अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः  । एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः  ॥ ९.१०१ ॥
अध्याय ९ -संक्षेपतः स्त्री पुरुष का धर्म  तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ  । यथा नाभिचरेतां तौ वियुक्तावितरेतरम्  ॥ ९.१०२ ॥
अध्याय ९ स्त्रीपुरुषकर्तव्य एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः  । आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत  ॥ ९.१०३ ॥
अध्याय ९ १७. दायभाग विवाद-निर्णय
अध्याय ९ दायधर्मं निबोधत  ॥ ९.१०३ब ॥
अध्याय ९ दायविभाजनकालसमविभाजन  ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम्  । भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः  ॥ ९.१०४ ॥
अध्याय ९ सम्मिलित रहने पर ज्येष्ठ भाई की प्रधानता  ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः  । शेषास्तमुपजीवेयुर्यथैव पितरं तथा  ॥ ९.१०५ ॥
अध्याय ९ भाइयो का परस्पर व्यवहार  पितेव पालयेत्पूत्रान् ज्येष्ठो भ्रातॄण्यवीयसः  । पुत्रवच्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः  ॥ ९.१०८ ॥
अध्याय ९ ज्येष्ठः भाई के अपने योग्य बर्ताव न करने पर  यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः  । अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ९.११० ॥
अध्याय ९ सम्पति विभाग में हेतु  एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया  । पृथग्विवर्धते धर्मस्तस्माद्धर्म्या पृथक्क्रिया  ॥ ९.१११ ॥
अध्याय ९ अविवाहित बहनो के लिए पृथक् भाग की व्यवस्था  स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् । स्वात्स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः  ॥ ९.११८ ॥
अध्याय ९ 17.1. पुत्रिका के दायभाग का वर्णन—
अध्याय ९ नियोगपुत्रअधिकार  यवीयाञ्ज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि  । समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः  ॥ ९.१२० ॥
अध्याय ९ पुत्रिकाघोषणा  अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्  । यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम्  ॥ ९.१२७ ॥
अध्याय ९ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा  । तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ ९.१३० ॥
अध्याय ९ मातुःस्त्रीधनदुहितु  मातुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः  । दौहित्र एव च हरेदपुत्रस्याखिलं धनम्  ॥ ९.१३१ ॥
अध्याय ९ पुत्रिकापुत्रस्यधनग्राहित्व्म  दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् । स एव दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च  ॥ ९.१३२ ॥
अध्याय ९ पुत्रिकाऔरसपुत्रभाग  पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते  । समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः  ॥ ९.१३४ ॥
अध्याय ९ पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम्  । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम्  ॥ ९.१३६ ॥
अध्याय ९ पौत्रदौहित्रसमान  पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते  । दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ ९.१३९ ॥
अध्याय ९ पिण्डं निर्वपेत्पुत्रिकासुतः मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः  । द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः  ॥ ९.१४० ॥
अध्याय ९ दत्तकपुत्रअधिकार  उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः  । स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः  ॥ ९.१४१ ॥
अध्याय ९ 17.2. नियोग से उत्पन्न क्षत्रेण पुत्र के दायभाग का विधान—
अध्याय ९ दत्तकपुत्रकासंपत्ति में अधिकार  गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः क्व चित् । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा  ॥ ९.१४२ ॥
अध्याय ९ कामजादेर्नधनग्राहकत्वम  अनियुक्तासुतश्चैव पुत्रिण्याप्तश्च देवरात् । उभौ तौ नार्हतो भागं जारजातककामजौ  ॥ ९.१४३ ॥
अध्याय ९ नैवार्हःपैतृकंरिक्थंपतितोत्पादितो नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः  । नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः  ॥ ९.१४४ ॥
अध्याय ९ क्षेत्रजपुत्रकोपितृधनमेंभागअधिकार  हरेत्तत्र नियुक्तायां जातः पुत्रो यथाउरसः  । क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश्च सः  ॥ ९.१४५ ॥
अध्याय ९ नियोगपुत्रअधिकार  धनं यो बिभृयाद्भ्रातुर्मृतस्य स्त्रियमेव च  । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम्  ॥ ९.१४६ ॥
अध्याय ९ कामजमरिक्थीयंवृथोत्पन्नं या नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयात् । तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते  ॥ ९.१४७ ॥
अध्याय ९ षड्बन्धुदायादाःषडदायादबान्धवाः पुत्रान् द्वादश यानाह नॄणां स्वायंभुवो मनुः  । तेषां षड्बन्धुदायादाः षडदायादबान्धवाः  ॥ ९.१५८ ॥
अध्याय ९ दायादा बान्धवाश्च षट् औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च  । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ ९.१५९ ॥
अध्याय ९ षडदायादबान्धवाःअदायदा  कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा  । स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः  ॥ ९.१६० ॥
अध्याय ९ विभक्ति क्रम  औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ  । दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः  ॥ ९.१६५ ॥
अध्याय ९ औरसपुत्रलक्षण  स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम्  । तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम्  ॥ ९.१६६ ॥
अध्याय ९ क्षेत्रजपुत्रलक्षण  यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा  । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः  ॥ ९.१६७ ॥
अध्याय ९ दत्तकपुत्रलक्षण  माता पिता वा दद्यातां यमद्भिः पुत्रमापदि  । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः  ॥ ९.१६८ ॥
अध्याय ९ कृत्रिमपुत्रलक्षण सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम्  । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः  ॥ ९.१६९ ॥
अध्याय ९ गूढ़पुत्रलक्षण उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः  । स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः  ॥ ९.१७० ॥
अध्याय ९ अपविद्दपुत्रलक्षण मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा  । यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते  ॥ ९.१७१ ॥
अध्याय ९ कानीनपुत्रलक्षण पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः  । तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम्  ॥ ९.१७२ ॥
अध्याय ९ सहोढपुत्रलक्षण या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती  । वोढुः स गर्भो भवति सहोढ इति चोच्यते  ॥ ९.१७३ ॥
अध्याय ९ क्रीतकपुत्रलक्षण क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा  ॥ ९.१७४ ॥
अध्याय ९ पौनर्भवपुत्रलक्षण या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया  । उत्पादयेत्पुनर्भूत्वा स पौनर्भव उच्यते  ॥ ९.१७५ ॥
अध्याय ९  पौनर्भवेन संस्कारमर्हति सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा  । पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति  ॥ ९.१७६ ॥
अध्याय ९ स्वयंदत्तपुत्रलक्षण मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानमर्पयेद्यस्मै स्वयंदत्तस्तु स स्मृतः  ॥ ९.१७७ ॥
अध्याय ९ पाराशवपुत्रलक्षण यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम्  । स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः  ॥ ९.१७८ ॥
अध्याय ९ दासीपुत्रलक्षण दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् । सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः  ॥ ९.१७९ ॥
अध्याय ९ सर्वे रिक्थस्य भागिनः श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति  । बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः  ॥ ९.१८४ ॥
अध्याय ९ न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः  । पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च  ॥ ९.१८५ ॥
अध्याय ९ क्षेत्रजादीनापितामहधने  त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते  । चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते  ॥ ९.१८६ ॥
अध्याय ९ अधिकारक्रम  अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् । अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा  ॥ ९.१८७ ॥
अध्याय ९ राज्यअधिकार  अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः  । इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः  ॥ ९.१८९ ॥
अध्याय ९ द्विपुत्रस्यमात  द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने  । तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृह्णीत नेतरः  ॥ ९.१९१ ॥
अध्याय ९ मातृधनविभाजन जनन्यां संस्थितायां तु समं सर्वे सहोदराः  । भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः  ॥ ९.१९२ ॥
अध्याय ९ स्त्रीधनप्रकार  अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि  । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्  ॥ ९.१९४ ॥
अध्याय ९ स्त्रीधनअधिकारी  अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ ९.१९५ ॥
अध्याय ९ संतानहीनास्त्रीधनअधिकारी  ब्राह्मदैवार्षगान्धर्व- प्राजापत्येषु यद्वसु  । अप्रजायामतीतायां भर्तुरेव तदिष्यते  ॥ ९.१९६ ॥
अध्याय ९ निषेधविवाहमेंस्त्रीधनअधिकारी  यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु  । अप्रजायामतीतायां मातापित्रोस्तदिष्यते  ॥ ९.१९७ ॥
अध्याय ९ स्त्रीआभूषणकीअविभाज्यता  पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते  ॥ ९.२०० ॥
अध्याय ९ दायभागअयोग्य  अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा  । उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः  ॥ ९.२०१ ॥
अध्याय ९ दायभागअयोग्यपुरुषकानियोगसेउत्त्पन्नपुत्र  यद्यर्थिता तु दारैः स्यात्क्लीबादीनां कथं चन  । तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति  ॥ ९.२०३ ॥
अध्याय ९ विद्धादीधने  विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् । मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च  ॥ ९.२०६ ॥
अध्याय ९ सशक्त भाई के भाग ग्रहण में उपेक्षा करने पर  भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा  । स निर्भाज्यः स्वकादंशात्किं चिद्दत्त्वोपजीवनम्  ॥ ९.२०७ ॥
अध्याय ९ अविभाज्यधन  अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम्  । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति  ॥ ९.२०८ ॥
अध्याय ९ नष्टोद्धारे  पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम्  ॥ ९.२०९ ॥
अध्याय ९ -पुनः सम्मिलित किये धन का अविभाजन  विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि  । समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते  ॥ ९.२१० ॥
अध्याय ९ -विदेश गमन और सन्यास गमन में भाग का लोप नहीं  येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः  । म्रियेतान्यतरो वापि तस्य भागो न लुप्यते  ॥ ९.२११ ॥
अध्याय ९ -समभाग  सोदर्या विभजेरंस्तं समेत्य सहिताः समम्  । भ्रातरो ये च संसृष्टा भागिन्यश्च सनाभयः  ॥ ९.२१२ ॥
अध्याय ९ -भाग की अप्राप्ति  सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम्  । न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम्  ॥ ९.२१४ ॥
अध्याय ९ -पिता के जीवित रहने पर उपार्जित धन का संमभाग  भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह  । न पुत्रभागं विषमं पिता दद्यात्कथं चन  ॥ ९.२१५ ॥
अध्याय ९ -पितृधनविभाजन के बाद पुत्र उत्पन्न होने पर   ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम्  । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह  ॥ ९.२१६ ॥
अध्याय ९ -संतानहीन पुत्र के धन का अधिकारी   अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम्  ॥ ९.२१७ ॥
अध्याय ९ -ऋण तथा धन का सामान विभाग  ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि  । पश्चाद्दृश्येत यत्किं चित्तत्सर्वं समतां नयेत् ॥ ९.२१८ ॥
अध्याय ९ -अविभाज्य वस्तु   वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः  । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते  ॥ ९.२१९ ॥
अध्याय ९ द्यूतधर्मं निबोधत अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः  । क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत  ॥ ९.२२० ॥
अध्याय ९ १८. द्यूतंसमाह्वयं
अध्याय ९ द्यूतं समाह्वयं का निषेध  द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् । राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम्  ॥ ९.२२१ ॥
अध्याय ९ द्यूतं समाह्वयं प्रकाश तस्करी के समान   प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ  । तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ ९.२२२ ॥
अध्याय ९ द्यूतं समाह्वयं के लक्षण  अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते  । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः  ॥ ९.२२३ ॥
अध्याय ९ द्यूतं समाह्वयं खिलाने वालो को दण्ड  द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा  । तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः  ॥ ९.२२४ ॥
अध्याय ९ देशनिर्वासन  कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान्  । विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ ९.२२५ ॥
अध्याय ९ राज्य के लिए खतरा  एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः  । विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः  ॥ ९.२२६ ॥
अध्याय ९ उपहासार्थ भी द्दुत का निषेध  द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत् । तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्  ॥ ९.२२७ ॥
अध्याय १० राज्य कंटक शोधन एवं विविध विधि प्रकरण  -राज्य के इच्छानुसार दण्ड  प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः  । तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा  ॥ ९.२२८ ॥
अध्याय १० स्त्रीबालोन्मत्तवृद्धानां स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम्  । शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम्  ॥ ९.२३० ॥
अध्याय १० -उत्कोच आदि द्वारा कार्य की हानि   ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम्  । धनोष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः  ॥ ९.२३१ ॥
अध्याय १० विधिपूर्वक कार्य में परिवर्तन कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान्  । स्त्रीबालब्राह्मणघ्नांश्च हन्याद्द्विट्सेविनस्तथा  ॥ ९.२३२ ॥
अध्याय १० पुनः निर्णय तीरितं चानुशिष्टं च यत्र क्व चन यद्भवेत् । कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ ९.२३३ ॥
अध्याय १० अधर्म पूर्वक किये गए कार्य को ठीक करना  अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा  । तत्स्वयं नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥ ९.२३४ ॥
अध्याय १० अधर्म से दण्ड  यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे  । अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः  ॥ ९.२४९ ॥
अध्याय १० -धर्म युक्त शासन  एवं धर्म्याणि कार्याणि सम्यक्कुर्वन्महीपतिः  । देशानलब्धांल्लिप्सेत लब्धांश्च परिपालयेत् ॥ ९.२५१ ॥
अध्याय १० -कंटक निवारण   सम्यङ्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः  । कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम्  ॥ ९.२५२ ॥
अध्याय १० -कंटक शोधन राज्य का कर्म  रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः  ॥ ९.२५३ ॥
अध्याय १० -कंटक निग्रह नहीं करने पर राज्य की अवनती  अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः  । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते  ॥ ९.२५४ ॥
अध्याय १० -निर्भय राज्य की उन्नति   निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम्  । तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः  ॥ ९.२५५ ॥
अध्याय १० -प्रत्यक्ष था परोक्ष चोर का ज्ञान  द्विविधांस्तस्करान् विद्यात्परद्रव्यापहारकान्  । प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः  ॥ ९.२५६ ॥
अध्याय १० -प्रत्यक्ष तथा परोक्ष चोर का लक्षण  प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः  । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः  ॥ ९.२५७ ॥
अध्याय १० -परोक्ष चोर  उत्कोचकाश्चाउपधिका वञ्चकाः कितवास्तथा  । मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह  ॥ ९.२५८ ॥
अध्याय १० -परोक्ष चोर  असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः  । शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः  ॥ ९.२५९ ॥
अध्याय १० -चोरो का पता लगाना  एवमादीन् विजानीयात्प्रकाशांल्लोककण्टकान्  । निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः  ॥ ९.२६० ॥
अध्याय १० -गुप्तचर का प्रयोग  तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः  । चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ॥ ९.२६१ ॥
अध्याय १० -दोषानुसार दण्ड की व्यवस्था  तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः  । कुर्वीत शासनं राजा सम्यक्सारापराधतः  ॥ ९.२६२ ॥
अध्याय १० -चौर्य कर्म के निग्रह में दण्ड का प्रयोग  न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः  । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ  ॥ ९.२६३ ॥
अध्याय १०  -चौरो का अन्वेषण  सभाप्रपापूपशाला- वेशमद्यान्नविक्रयाः  । चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च  ॥ ९.२६४ ॥
अध्याय १० -समायोजित  जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च  । शून्यानि चाप्यगाराणि वनान्युपवनानि च  ॥ ९.२६५ ॥
अध्याय १० -समायोजित एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः  । तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥ ९.२६६ ॥
अध्याय १० -चोरो का पता लगाने के उपाय  तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः  । विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः  ॥ ९.२६७ ॥
अध्याय १० -चोरो को पकड़ने के उपाय  भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः  । शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम्  ॥ ९.२६८ ॥
अध्याय १० -गुप्तचरों द्वारा चोरो का निग्रह  ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये  । तान् प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान्  ॥ ९.२६९ ॥
अध्याय १० -चुराए गए धन का पता न लगने पर  न होढेन विना चौरं घातयेद्धार्मिको नृपः  । सहोढं सोपकरणं घातयेदविचारयन्  ॥ ९.२७० ॥
अध्याय १० -चोरो के आश्रयदाताओ को दण्ड  ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः  । भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥ ९.२७१ ॥
अध्याय १० -अपराधी सीमा रक्षको को दण्ड  राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान्  । अभ्याघातेषु मध्यस्थाञ्शिष्याच्चौरानिव द्रुतम्  ॥ ९.२७२ ॥
अध्याय १० -चोर उपद्रव में सहायक न होने वालो का उपाय  ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने  । शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः  ॥ ९.२७४ ॥
अध्याय १० -राजकोष के चोर आदि  को दण्ड  राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान्  । घातयेद्विविधैर्दण्डैररीणां चोपजापकान्  ॥ ९.२७५ ॥
अध्याय १० -सेंध मारने वाले चोर को दण्ड  संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः  । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६ ॥
अध्याय १० -गिरहकट चोर को दण्ड  अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे  । द्वितीये हस्तचरणौ तृतीये वधमर्हति  ॥ ९.२७७ ॥
अध्याय १० -चौरो के सहायको को दण्ड  अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान्  । संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः  ॥ ९.२७८ ॥
अध्याय १० - तडागभेदकं पर दण्ड  तडागभेदकं हन्यादप्सु शुद्धवधेन वा  । यद्वापि प्रतिसंस्कुर्याद्दाप्यस्तूत्तमसाहसम्  ॥ ९.२७९ ॥
अध्याय १० - कोष्ठागारायुधागार को तोड़ने पर दण्ड  कोष्ठागारायुधागार- देवतागारभेदकान्  । हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन्  ॥ ९.२८० ॥
अध्याय १० -व्यक्तिगत तड़ाग तोड़ने पर दण्ड  यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । आगमं वाप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम्  ॥ ९.२८१ ॥
अध्याय १० -राजमार्ग को गन्दा करने पर दण्ड  समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि  । स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ ९.२८२ ॥
अध्याय १० -राजमार्ग को गन्दा करने पर सफाई करवाना  आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा  । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः  ॥ ९.२८३ ॥
अध्याय १० -चिकिस्सक को दण्ड  चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः  । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः  ॥ ९.२८४ ॥
अध्याय १० -संक्रम आदि को तोड़ने पर दण्ड  संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः  । प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च  ॥ ९.२८५ ॥
अध्याय १० -शुद्द पदार्थ को दूषित करने पर दण्ड  अदूषितानां द्रव्याणां दूषणे भेदने तथा  । मणीनामपवेधे च दण्डः प्रथमसाहसः  ॥ ९.२८६ ॥
अध्याय १० -विषम व्यवहार करने पर दण्ड  समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा  । समाप्नुयाद्दमं पूर्वं नरो मध्यममेव वा  ॥ ९.२८७ ॥
अध्याय १० -बंधन ग्रह को राजमार्ग के पास बनवाना  बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः पापकारिणह् ॥ ९.२८८ ॥
अध्याय १० -सार्वजनिक संपत्ति के नुक्सान पर दण्ड  प्राकारस्य च भेत्तारं परिखाणां च पूरकम्  । द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥ ९.२८९ ॥
अध्याय १० -अभिचार कर्म करने वालो को दण्ड  अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः  । मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च  ॥ ९.२९० ॥
अध्याय १० -दूषित बीज बेचने पर दण्ड  अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च  । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम्  ॥ ९.२९१ ॥
अध्याय १० -चोर सुनार को दण्ड  सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः  । प्रवर्तमानमन्याये छेदयेल्लवशः क्षुरैः  ॥ ९.२९२ ॥
अध्याय १० -खेती के साधन चुराने पर दण्ड  सीताद्रव्यापहरणे शस्त्राणामौषधस्य च  । कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ९.२९३ ॥
अध्याय १० -`सप्तांग राज्य  स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा  । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते  ॥ ९.२९४ ॥
अध्याय १० -प्रकृति की श्रेष्टता  सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्  । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं महत् ॥ ९.२९५ ॥
अध्याय १० -प्रकृतियो की समानता  सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् । अन्योन्यगुणवैशेष्यान्न किं चिदतिरिच्यते  ॥ ९.२९६ ॥
अध्याय १० -प्रकृति का महत्व  तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते  । येन यत्साध्यते कार्यं तत्तस्मिञ्श्रेष्ठमुच्यते  ॥ ९.२९७ ॥
अध्याय १० -स्वपर शक्ति का ज्ञान  चारेणोत्साहयोगेन क्रिययैव च कर्मणाम्  । स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः  ॥ ९.२९८ ॥
अध्याय १० -दुसरे राज्य की कमी  पीडनानि च सर्वाणि व्यसनानि तथैव च  । आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम्  ॥ ९.२९९ ॥
अध्याय १० -उधोगशीलता का महत्व  आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः  । कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते  ॥ ९.३०० ॥
अध्याय १० -उधोगशीलता का महत्व  कृतं त्रेतायुगं चैव द्वापरं कलिरेव च  । राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते  ॥ ९.३०१ ॥
अध्याय १० -उधोगशीलता का महत्व  कलिः प्रसुप्तो भवति स जाग्रद्द्वापरं युगम्  । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम्  ॥ ९.३०२ ॥
अध्याय १० राजा का आचरण इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च  । चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ ९.३०३ ॥
अध्याय १०  –इंद्र व्रत  वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति  । तथाभिवर्षेत्स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन्  ॥ ९.३०४ ॥
अध्याय १० -सूर्य व्रत  अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः  । तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ ९.३०५ ॥
अध्याय १० -वायु व्रत  प्रविश्य सर्वभूतानि यथा चरति मारुतः  । तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्  ॥ ९.३०६ ॥
अध्याय १० -यम व्रत  यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति  । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम्  ॥ ९.३०७ ॥
अध्याय १०  –वरुण व्रत  वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते  । तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम्  ॥ ९.३०८ ॥
अध्याय १०  –चन्द्र व्रत  परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः  । तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः  ॥ ९.३०९ ॥
अध्याय १० -आग्नेय व्रत  प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु  । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम्  ॥ ९.३१० ॥
अध्याय १० - पार्थिवं व्रतम् यथा सर्वाणि भूतानि धरा धारयते समम्  । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम्  ॥ ९.३११ ॥
अध्याय १० -चौरो का निग्रह  एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः  । स्तेनान् राजा निगृह्णीयात्स्वराष्ट्रे पर एव च  ॥ ९.३१२ ॥
अध्याय १० -विधि की समाप्ति  एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः  । इमं कर्मविधिं विद्यात्क्रमशो वैश्यशूद्रयोः  ॥ ९.३२५ ॥
अध्याय १० रत्नों का परिक्षण  मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च  । गन्धानां च रसानां च विद्यादर्घबलाबलम्  ॥ ९.३२९ ॥
अध्याय १० माप तौल रीति का ज्ञान  बीजानामुप्तिविच्च स्यात्क्षेत्रदोषगुणस्य च  । मानयोगं च जानीयात्तुलायोगांश्च सर्वशः  ॥ ९.३३० ॥
अध्याय १० वस्तु की पहचान  सारासारं च भाण्डानां देशानां च गुणागुणान्  । लाभालाभं च पण्यानां पशूनां परिवर्धनम्  ॥ ९.३३१ ॥
अध्याय १० वस्तु की पहचान  भृत्यानां च भृतिं विद्याद्भाषाश्च विविधा नृणां  । द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च  ॥ ९.३३२ ॥
अध्याय १० तौल  लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः  ॥ ८.१३१ ॥
अध्याय १० त्रसरेणु  जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते  ॥ ८.१३२ ॥
अध्याय १० गौर सर्षेप  त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः  ॥ ८.१३३ ॥
अध्याय १० तौल  सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम्। पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश  ॥ ८.१३४ ॥
अध्याय १० तौल  पलं सुवर्णाश्चत्वारः पलानि धरणं दश  । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः  ॥ ८.१३५ ॥
अध्याय १० तौल  ते षोडश स्याद्धरणं पुराणश्चैव राजतः  । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः  ॥ ८.१३६ ॥
अध्याय १० तौल  धरणानि दश ज्ञेयः शतमानस्तु राजतः  । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः  ॥ ८.१३७ ॥
अध्याय १० तौल  पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः  । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः  ॥ ८.१३८ ॥
अध्याय १० राजा की दुर्बलता  अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति  ॥ ८.१७१ ॥
अध्याय १० राजा की सार्थकता  स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । बलं संजायते राज्ञः स प्रेत्येह च वर्धते  ॥ ८.१७२ ॥
अध्याय १० राजा की सार्थकता  तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये  । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः  ॥ ८.१७३ ॥
अध्याय १० राजा की दुर्बलता  यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः  । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः  ॥ ८.१७४ ॥
अध्याय १० विधि शासन का लाभ  कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति  । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः  ॥ ८.१७५ ॥
अध्याय १० विवाद निर्णय में साक्षी, प्रमाणों का उपयोग  अनेन विधिना राजा मिथो विवदतां नृणाम्  । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८ ॥
अध्याय १० अपराध रहित राज्य  यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६ ॥
अध्याय १० -अपराध रहित राज्य एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके  । सांराज्यकृत्सजात्येषु लोके चैव यशस्करः  ॥ ८.३८७ ॥
अध्याय १० पुरोहित तथा यजमान का त्याग करने पर दण्ड  ऋत्विजं यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि  । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम्  ॥ ८.३८८ ॥
अध्याय १० माता पिता का त्याग करने पर दण्ड  न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति  । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥
अध्याय १० कर ग्रहण से मुक्त व्यक्ति  अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः  । श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित्करम्  ॥ ८.३९४ ॥
अध्याय १० श्रोत्रियं व्याधितार्तौ श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिंचनम्  । महाकुलीनमार्यं च राजा संपूजयेत्सदा  ॥ ८.३९५ ॥
अध्याय १० धोबी के कपडे धोने का विधान  शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः  । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ ८.३९६ ॥
अध्याय १० बुनकर द्वारा कपडे बनाने का विधान  तन्तुवायो दशपलं दद्यादेकपलाधिकम्  । अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम्  ॥ ८.३९७ ॥
अध्याय १० विक्रय कर  शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः  । कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥
अध्याय १० निषिद्ध वस्तु का निर्यात  राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च  । ताणि निर्हरतो लोभात्सर्वहारं हरेन्नृपः  ॥ ८.३९९ ॥
अध्याय १० असमय विक्रय करने पर दण्ड  शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी  । मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम्  ॥ ८.४०० ॥
अध्याय १० विदेश में विक्रय करने का मूल्य निर्णय  आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ  । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ  ॥ ८.४०१ ॥
अध्याय १० मूल्य निर्धारण  पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते  । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः  ॥ ८.४०२ ॥
अध्याय १० तराजू बाट आदि की जांच  तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम्  । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ८.४०३ ॥
अध्याय १० नाव का भाड़ा  पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे  । पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान्  ॥ ८.४०४ ॥
अध्याय १० भाड़ा में राहत  भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः  । रिक्तभाण्डानि यत्किं चित्पुमांसश्चापरिच्छदाः  ॥ ८.४०५ ॥
अध्याय १० उचित भाड़ा  दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम्  ॥ ८.४०६ ॥
अध्याय १० भाड़े से मुक्ति  गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः  । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे  ॥ ८.४०७ ॥
अध्याय १० मल्लाह के दोष से सामान नष्ट होने पर दण्ड  यन्नावि किं चिद्दाशानां विशीर्येतापराधतः  । तद्दाशैरेव दातव्यं समागम्य स्वतोऽशतः  ॥ ८.४०८ ॥
अध्याय १० मल्लाह के दोष से सामान नष्ट होने पर दण्ड एष नौयायिनामुक्तो व्यवहारस्य निर्णयः  । दाशापराधतस्तोये दैविके नास्ति निग्रहः  ॥ ८.४०९ ॥
अध्याय १० भरण पोषण करना  क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ  । बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ॥ ८.४११ ॥
अध्याय १० भरण पोषण करना  दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान् द्विजान्  । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥
अध्याय १० दासो के प्रकार  ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ  । पैत्रिको दण्डदासश्च सप्तैते दासयोनयः  ॥ ८.४१५ ॥
अध्याय १० प्रतिदिन आय व्यव का निरीक्षण  अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च  । आयव्ययौ च नियतावाकरान् कोशमेव च  ॥ ८.४१९ ॥
अध्याय १० राज्य का परम कर्त्तव्य  एवं सर्वानिमान् राजा व्यवहारान् समापयन्  । व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम्  ॥ ८.४२० ॥
अध्याय १० भय मुक्त वातावरण  अभयस्य हि यो दाता स पूज्यः सततं नृपः  । सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम्  ॥ ८.३०३ ॥
अध्याय १० सुरक्षा कर  सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः  । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः  ॥ ८.३०४ ॥
अध्याय १० सुरक्षा कर  यदधीते यद्यजते यद्ददाति यदर्चति  । तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ ८.३०५ ॥
अध्याय १० दण्ड का न्याय से प्रयोग  रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन्  । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः  ॥ ८.३०६ ॥
अध्याय १० अधर्म कर ग्रहण  योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः  । प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥
अध्याय १० सुरक्षा कर  अरक्षितारं राजानं बलिषड्भागहारिणम्  । तमाहुः सर्वलोकस्य समग्रमलहारकम्  ॥ ८.३०८ ॥
अध्याय १० अधर्मं से कर संग्रह  अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम्  । अरक्षितारमत्तारं नृपं विद्यादधोगतिम्  ॥ ८.३०९ ॥
अध्याय १० अपराधियों का निग्रह –आसेध  अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः  । निरोधनेन बन्धेन विविधेन वधेन च  ॥ ८.३१० ॥
अध्याय १० अपराधियों का निग्रह –आसेध  निग्रहेण हि पापानां साधूनां संग्रहेण च  । द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः  ॥ ८.३११ ॥
अध्याय १० शान्ति स्थापना  क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम्  । बालवृद्धातुराणां च कुर्वता हितमात्मनः  ॥ ८.३१२ ॥
अध्याय १० शान्ति स्थापना  यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते  । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति  ॥ ८.३१३ ॥
अध्याय १० विवाद पदों की वर्णन की समाप्ति  उदितोऽयं विस्तरशो मिथो विवादमानयोः  । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः  ॥ ९.२५० ॥
अध्याय ११ १. दान देना और लेना नवविध स्नातक के लिए दान देना सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम्  । गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः  ॥ ११.१ ॥
अध्याय ११ नवविध स्नातक के लिए दान देना न वै तान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान्  । निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः  ॥ ११.२ ॥
अध्याय ११ सोमयागाधिकरण  यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये  । अधिकं वापि विद्येत स सोमं पातुमर्हति  ॥ ११.७ ॥
अध्याय ११ स्वजनेदुःखजीविनि शक्तः परजने दाता स्वजने दुःखजीविनि  । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः  ॥ ११.९ ॥
अध्याय ११ स्वजनेदुःखजीविनि भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम्  । तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च  ॥ ११.१० ॥
अध्याय ११ याज्ञार्थमर्थंभिक्षित्वानरक्षणीयम  याज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति  । स याति भासतां विप्रः काकतां वा शतं समाः  ॥ ११.२५ ॥
अध्याय ११
अध्याय ११ २. प्रायश्चितविधान 
अध्याय ११ प्रायश्चित कब किया जाएगा  अकुर्वन् विहितं कर्म निन्दितं च समाचरन्  । प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः  ॥ ११.४४ ॥
अध्याय ११ प्रायश्चित कैसे  किया जाएगा  अकामतः कृतं पापं वेदाभ्यासेन शुध्यति  । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः  ॥ ११.४६ ॥
अध्याय ११ प्रायश्चितअर्थः  प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा  । न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः  ॥ ११.४७ ॥
अध्याय ११  नित्यं प्रायश्चित्तं चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये  । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः  ॥ ११.५४॥
अध्याय ११ 3.  व्रत्याओ के लिए शुद्धिकरण 
अध्याय ११ व्रत्याओ के लिए व्रत एवं शुद्धिकरण  येषां द्विजानां सावित्री नानूच्येत यथाविधि  । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ॥ ११.१९२ ॥
अध्याय ११ निन्दित कर्म करने वालो का प्राश्चित  प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः  । ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ११.१९३ ॥
अध्याय ११ वेदौक्त नियमो का लोप वेदोदितानां नित्यानां कर्मणां समतिक्रमे  । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्  ॥ ११.२०४ ॥
अध्याय ११ 4. व्रतो के प्रकार
अध्याय ११ व्रत विधि  यैरभ्युपायैरेनांसि मानवो व्यपकर्षति  । तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान्  ॥ ११.२११ ] ॥
अध्याय ११ प्राजापत्य व्रत त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्  । त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन् द्विजः  ॥ ११.२१२ ॥
अध्याय ११ कृच्छ-सांतपनं व्रत गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्  । एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्  ॥ ११.२१३ ॥
अध्याय ११ अति कृच्छ व्रत एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः  ॥ ११.२१४ ॥
अध्याय ११ तप्त कृच्छ व्रत तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्  । प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः  ॥ ११.२१५ ॥
अध्याय ११ चान्द्रायण व्रत एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चाण्द्रायणं स्मृतम्  ॥ ११.२१७ ॥
अध्याय ११ यवमध्यम चान्द्रायण व्रत एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे  । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम्  ॥ ११.२१८ ॥
अध्याय ११ व्रत पालन के समय यज्ञ विधान  महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम्  । अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ ११.२२३ ॥
अध्याय ११ मानस पापो का प्रायश्चित  एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः  । अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ ११.२२७ ॥
अध्याय ११ पापप्रकटीकरण यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते  । तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते  ॥ ११.२२९ ॥
अध्याय ११ पापप्रकटीकरण यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति  । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते  ॥ ११.२३० ॥
अध्याय ११ पापप्रकटीकरण कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते  । नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः  ॥ ११.२३१ ॥
अध्याय ११ शुभआचरण  एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम्  । मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ ११.२३२ ॥
अध्याय ११ शुभआचरण  अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम्  । तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३३ ॥
अध्याय ११ वेदोंसेपापभावनानाश  यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति  । तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति  ॥ ११.२६४ ॥
अध्याय ११ वेदवेत्ता  ऋचो यजूंषि चान्यानि सामानि विविधानि च  । एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ ११.२६५ ॥
अध्याय ११ ईश्वर की महिमा  आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता  । स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥ ११.२६६ ॥
अध्याय ११
अध्याय १२ १. कर्मो का स्रोत 
अध्याय १२ कर्मउत्पत्तिस्थान  शुभाशुभफलं कर्म मनोवाग्देहसंभवम्  । कर्मजा गतयो नॄणामुत्तमाधममध्यमः  ॥ १२.३ ॥
अध्याय १२ कर्मप्रवर्तक  तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः  । दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम्  ॥ १२.४ ॥
अध्याय १२ त्रिविधमानसकर्माणि  परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्  । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्  ॥ १२.५ ॥
अध्याय १२ चतुर्विधवाचिककर्माणि  पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः  । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्  ॥ १२.६ ॥
अध्याय १२ त्रिविधशरीरकर्माणि  अदत्तानामुपादानं हिंसा चैवाविधानतः  । परदारोपसेवा च शारीरं त्रिविधं स्मृतम्  ॥ १२.७ ॥
अध्याय १२ मनसैवायमुपभुङ्क्ते शुभाशुभम् फलम  मानसं मनसैवायमुपभुङ्क्ते शुभाशुभम्  । वाचा वाचा कृतं कर्म कायेनैव च कायिकम्  ॥ १२.८ ॥
अध्याय १२ २. त्रिविधगुणकथनम
अध्याय १२ त्रिविधगुणकथनम  सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान्  । यैर्व्याप्येमान् स्थितो भावान्महान् सर्वानशेषतः  ॥ १२.२४ ॥
अध्याय १२ अधिकगुणप्रधानोदेह  यो यदैषां गुणो देहे साकल्येनातिरिच्यते  । स तदा तद्गुणप्रायं तं करोति शरीरिणम्  ॥ १२.२५ ॥
अध्याय १२ त्रिविधगुणव्याप्तशरीर  सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्  । एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः  ॥ १२.२६ ॥
अध्याय १२ सतगुण  तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् । प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ १२.२७ ॥
अध्याय १२ रजोगुण  यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः  । तद्रजो प्रतीपं विद्यात्सततं हारि देहिनाम्  ॥ १२.२८ ॥
अध्याय १२ तमोगुण  यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम्  । अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ १२.२९ ॥
अध्याय १२ सात्विकगुणलक्षण वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः  । धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम्  ॥ १२.३१ ॥
अध्याय १२ राजसिकगुणलक्षण आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः  । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम्  ॥ १२.३२ ॥
अध्याय १२ तामसिकगुणलक्षण लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता  । याचिष्णुता प्रमादश्च तामसं गुणलक्षणम्  ॥ १२.३३ ॥
अध्याय १२ त्रिविधगतिप्रकारा  त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः  । अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः  ॥ १२.४१ ॥
अध्याय १२ कार्माणुसारफलभोग  यादृशेन तु भावेन यद्यत्कर्म निषेवते  । तादृशेन शरीरेण तत्तत्फलमुपाश्नुते  ॥ १२.८१ ॥
अध्याय १२ ३. सर्वदाकर्मवैदिकम्
अध्याय १२ मोक्षोपायष्टकर्मा वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः  । अहिंसा [धर्म क्रिया ] गुरुसेवा [आत्मचिन्ता ]च निःश्रेयसकरं परम्  ॥ १२.८३ ॥
अध्याय १२ वेदोदितकर्मणाश्रेष्ठत्व  षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चेह च  । श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम्  ॥ १२.८६ ॥
अध्याय १२ वैदिककर्मद्विविधिम  सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च  । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्  ॥ १२.८८ ॥
अध्याय १२ वेद विहित कार्य इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते  । निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते  ॥ १२.८९ ॥
अध्याय १२ वेदाभ्यासादौ  यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः  । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्  ॥ १२.९२ ॥
अध्याय १२ वेद विहित कार्य प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम्  । निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै  ॥ १२.९० ॥
अध्याय १२ समदर्शनम  सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि  । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति  ॥ १२.९१ ॥
अध्याय १२ वेदबाह्याःस्मृतयोसर्वास्ता निष्फलाः या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः  । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः  ॥ १२.९५ ॥
अध्याय १२ - वेद विहित कार्य उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् । तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च  ॥ १२.९६ ॥
अध्याय १२ वेद सिद्धि बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम्  । तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्  ॥ १२.९९ ॥
अध्याय १२ वेद ज्ञाता सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च  । सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति  ॥ १२.१०० ॥
अध्याय १२ ज्ञान  अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः  । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः  ॥ १२.१०३ ॥
अध्याय १२ ४. धर्मसंशयनिवारण  प्रत्यक्षं चानुमानं च शास्त्रं त्रिविध प्रमाणा प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम्  । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता  ॥ १२.१०५ ॥
अध्याय १२ धर्मज्ञलक्षणम  आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना  । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः  ॥ १२.१०६ ॥
अध्याय १२ शिष्ट के द्वारा संशय का निवारण अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः  ॥ १२.१०८ ॥
अध्याय १२ शिष्टब्राह्मण धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः  । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः  ॥ १२.१०९ ॥
अध्याय १२ परिषद् का गठन दशावरा वा परिषद्यं धर्मं परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥
अध्याय १२ दस विद्द्वानो की परिषद् त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः  । त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा  ॥ १२.१११ ॥
अध्याय १२ तीन विद्द्वानो की परिषद् ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च  । त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये  ॥ १२.११२ ॥
अध्याय १२ आपात काल में वेदज्ञ  एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः  । स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः  ॥ १२.११३ ॥
अध्याय १२ मूर्खाणापरिषद्निषेध अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्  । सहस्रशः समेतानां परिषत्त्वं न विद्यते  ॥ १२.११४ ॥
अध्याय १२ समय चक्र  एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः  । जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
अध्याय १२ 5. शास्त्र में वर्णित विषय
अध्याय १२ शास्त्र में वर्णित विषय जगतश्च समुत्पत्तिं संस्कारविधिमेव च   । व्रतचर्योपचारं च स्नानस्य च परं विधिम्  ॥ १.१११ ॥
अध्याय १२ शास्त्र में वर्णित विषय दाराधिगमनं चैव विवाहानां च लक्षणम्  । महायज्ञविधानं च  शाश्वतम्  ॥ १.११२ ॥
अध्याय १२ शास्त्र में वर्णित विषय वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च  । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च  ॥ १.११३ ॥
अध्याय १२ शास्त्र में वर्णित विषय स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च  । राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम्  ॥ १.११४ ॥
अध्याय १२ शास्त्र में वर्णित विषय साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि  । विभागधर्मं द्यूतं च कण्टकानां च शोधनम्  ॥ १.११५ ॥
अध्याय १२ शास्त्र में वर्णित विषय संसारगमनं चैव त्रिविधं कर्मसंभवम्  । निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम्  ॥ १.११७ ॥
अध्याय १२ शास्त्र में वर्णित विषय देशधर्माञ्जातिधर्मान् कुलधर्मांश्च शाश्वतान्  । पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः  ॥ १.११८ ॥
अध्याय १२ End मनुः स्वयंभुवो देवः सर्वशास्त्रार्थ पारगः । तस्यातस्यनिर्गतं धर्म विचार्य बहुविस्तरम ॥ १२.१२६ ॥

Comments