मनुस्मृति २५-११-२०१९
अध्याय ८
व्यवहार मातृका
1. न्यायसभा में
प्रवेश
व्यवहारान्
दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर्मन्त्रिभिश्चैव
विनीतः प्रविशेत्सभाम् ॥८.१॥
2. कार्यावाही का
प्रारम्भ
तत्रासीनः
स्थितो वापि पाणिमुद्यम्य दक्षिणम् ।
विनीतवेषाभरणः
पश्येत्कार्याणि कार्यिणाम् ॥ ८.२ ॥
3. व्यवहार विवादपद
प्रत्यहं
देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
अष्टादशसु
मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३ ॥
4. व्यवहार विवादपद
तेषामाद्यमृणादानं
निक्षेपोऽस्वामिविक्रयः ।
संभूय च
समुत्थानं दत्तस्यानपकर्म च ॥ ८.४ ॥
5. व्यवहार विवादपद
वेतनस्यैव
चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयो
विवादः स्वामिपालयोः ॥ ८.५ ॥
6.
व्यवहार विवादपद
सीमाविवादधर्मश्च
पारुष्ये दण्डवाचिके ।
स्तेयं च
साहसं चैव स्त्रीसंग्रहणमेव च ॥ ८.६ ॥
7. व्यवहार विवादपद
स्त्रीपुंधर्मो
विभागश्च द्यूतमाह्वय एव च ।
पदान्यष्टादशैतानि
व्यवहारस्थिताविह ॥ ८.७ ॥
8. व्यवहार विवादपद
एषु
स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
धर्मं
शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम्
॥ ८.८ ॥
9. न्यायाविद्द की
नियुक्ति
यदा स्वयं
न कुर्यात्तु नृपतिः कार्यदर्शनम् ।
तदा
नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने
॥ ८.९ ॥
10.तीन सदस्यों के साथ
न्याय करना
सोऽस्य
कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः
।
सभामेव
प्रविश्याग्र्यामासीनः स्थित एव वा ॥ ८.१०
॥
11.न्यायसभा के लक्षण
यस्मिन्
देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।
राज्ञश्चाधिकृतो
विद्वान् ब्रह्मणस्तां सभां विदुः ॥ ८.११
॥
12.न्याय न होने पर सदस्यों को दोष
धर्मो
विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते ।
शल्यं
चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥
८.१२ ॥
13.सभा में सत्य भाषण
करना
सभां वा न
प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् ।
अब्रुवन्
विब्रुवन् वापि नरो भवति किल्बिषी ॥ ८.१३
॥
14.सत्य का हनन
यत्र
धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
हन्यते
प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ८.१४ ॥
15.सत्य / धर्म /
विधि की रक्षा
धर्म एव
हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो
न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ ८.१५ ॥
16.धर्म लोप का निषेध
वृषो हि
भगवान् धर्मस्तस्य यः कुरुते ह्यलम् ।
वृषलं तं
विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ ८.१६ ॥
17.धर्म का साथ
एक एव
सुहृद्धर्मो निधानेऽप्यनुयाति यः ।
शरीरेण
समं नाशं सर्वमन्यद्धि गच्छति ॥ ८.१७ ॥
18.पक्षपात का दोष
पादोऽधर्मस्य
कर्तारं पादः साक्षिणमृच्छति ।
पादः
सभासदः सर्वान् पादो राजानमृच्छति ॥ ८.१८
॥
19.उत्तम न्याय सभा के
लक्षण
राजा
भवत्यनेनास्तु मुच्यन्ते च सभासदः ।
एनो
गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते
॥ ८.१९ ॥
20.नास्तिक और अराजक
मनुष्यों की प्रधानता
यद्राष्ट्रं
शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् ।
विनश्यत्याशु
तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥
८.२२ ॥
21.विवादों को सुनने
की प्रक्रिया का प्रारम्भ
धर्मासनमधिष्ठाय
संवीताङ्गः समाहितः ।
प्रणम्य
लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ ८.२३ ॥
22.विवादों को सुनने
की प्रक्रिया का प्रारम्भ
अर्थानर्थावुभौ
बुद्ध्वा धर्माधर्मौ च केवलौ ।
वर्णक्रमेण
सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥
८.२४ ॥
23.स्वर एवं शरीर के
लक्षणों से अन्वेषण
बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं
नृणाम् ।
स्वरवर्णेङ्गिताकारैश्चक्षुषा
चेष्टितेन च ॥ ८.२५ ॥
24.सूत्र २५ का उद्देश्य कथन
आकारैरिङ्गितैर्गत्या
चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश्च
गृह्यतेऽन्तर्गतं मनः ॥ ८.२६ ॥
25.नाबालिग के धन की
रक्षा
बालदायादिकं
रिक्थं तावद्राजानुपालयेत् ।
यावत्स
स्यात्समावृत्तो यावच्चातीतशैशवः ॥ ८.२७ ॥
26.असक्षम स्त्री के
धन की रक्षा
वशापुत्रासु
चैवं स्याद्रक्षणं निष्कुलासु च ।
पतिव्रतासु
च स्त्रीषु विधवास्वातुरासु च ॥ ८.२८ ॥
27.स्त्रियों के धन
हरण पर दण्ड
जीवन्तीनां
तु तासां ये तद्धरेयुः स्वबान्धवाः ।
ताञ्शिष्याच्चौरदण्डेन
धार्मिकः पृथिवीपतिः ॥ ८.२९ ॥
28.अस्वामिक धन की
रक्षा का समय
प्रणष्टस्वामिकं
रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक्त्र्यब्दाद्धरेत्स्वामी
परेण नृपतिर्हरेत् ॥ ८.३० ॥
29.अस्वामिधन की वापसी
ममेदमिति
यो ब्रूयात्सोऽनुयोज्यो यथाविधि ।
संवाद्य
रूपसंख्यादीन् स्वामी तद्द्रव्यमर्हति ॥
८.३१ ॥
30.अस्वामिधन के विषय
में झूट बोलने पर दण्ड
अवेदयानो
नष्टस्य देशं कालं च तत्त्वतः ।
वर्णं
रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ८.३२
॥
31.अस्वामिधन से कर
आददीताथ
षड्भागं प्रनष्टाधिगतान्नृपः ।
दशमं
द्वादशं वापि सतां धर्ममनुस्मरन् ॥ ८.३३ ॥
32.चौरो को दण्ड
प्रनष्टाधिगतं
द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम् ।
यांस्तत्र
चौरान् गृह्णीयात्तान् राजेभेन घातयेत् ॥ ८.३४ ॥
33.चौरी किये गए धन की
वापसी
ममायमिति
यो ब्रूयान्निधिं सत्येन मानवः ।
तस्याददीत
षड्भागं राजा द्वादशमेव वा ॥ ८.३५ ॥
34.परधन को अपना कहने
पर दण्ड
अनृतं तु
वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् ।
तस्यैव वा
निधानस्य संख्ययाल्पीयसीं कलाम् ॥ ८.३६ ॥
35.खजाने पर राज्य का
अधिकार
निधीनां
तु पुराणानां धातूनामेव च क्षितौ ।
अर्धभाग्रक्षणाद्राजा
भूमेरधिपतिर्हि सः ॥ ८.३९ ॥
36.परम्परा के अनुसार
व्यवस्था
जातिजानपदान्
धर्मान् श्रेणीधर्मांश्च धर्मवित् ।
समीक्ष्य
कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥
37.धर्म का पालन करने
वाले लोग प्रिय होते है
स्वानि
कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः ।
प्रिया
भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः
॥ ८.४२ ॥
38.राजकीय विवाद का
निषेध
नोत्पादयेत्स्वयं
कार्यं राजा नाप्यस्य पुरुषः ।
न च
प्रापितमन्येन ग्रसेदर्थं कथं चन ॥ ८.४३ ॥
39.विवाद का अन्वेषण
–अनुमान तर्क प्रमाण का प्रयोग
यथा
नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् ।
नयेत्तथानुमानेन
धर्मस्य नृपतिः पदम् ॥ ८.४४ ॥
40.सत्य और प्रमाण से
व्यवहार दर्शन
सत्यमर्थं
च संपश्येदात्मानमथ साक्षिणः ।
देशं रूपं
च कालं च व्यवहारविधौ स्थितः ॥ ८.४५ ॥
41.सदाचार पालन
सद्भिराचरितं
यत्स्याद्धार्मिकैश्च द्विजातिभिः ।
तद्देशकुलजातीनामविरुद्धं
प्रकल्पयेत् ॥ ८.४६ ॥
42.साक्षी की संख्या
पृष्टोऽपव्ययमानस्तु
कृतावस्थो धनैषिणा ।
त्र्यवरैः
साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥
८.६० ॥
43.साक्षी कथन
यादृशा
धनिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान्
संप्रवक्ष्यामि यथा वाच्यमृतं च तैः ॥
८.६१ ॥
44.साक्षी कौन हो सकता
है
गृहिणः
पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः ।
अर्थ्युक्ताः
साक्ष्यमर्हन्ति न ये के चिदनापदि ॥ ८.६२
॥
45.साक्षी कौन नही हो
सकता है
आप्ताः
सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः
।
सर्वधर्मविदोऽलुब्धा
विपरीतांस्तु वर्जयेत् ॥ ८.६३ ॥
46.साक्षी के अयोग्य
व्यक्ति
नार्थसंबन्धिनो
नाप्ता न सहाया न वैरिणः।
न
दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः
॥ ८.६४ ॥
47.साक्षी के अयोग्य
व्यक्ति
न साक्षी
नृपतिः कार्यो न कारुककुशीलवौ ।
न
श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः
॥ ८.६५ ॥
48.साक्षी की संख्या
नाध्यधीनो
न वक्तव्यो न दस्युर्न विकर्मकृत् ।
न वृद्धो
न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥
८.६६ ॥
49.साक्षी के अयोग्य
व्यक्ति
नार्तो न
मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न
श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः
॥ ८.६७ ॥
50.साक्षी के योग्य
व्यक्ति
स्त्रीणां
साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।
शूद्राश्च
सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥
८.६८ ॥
51.धन व्यवहार से
भिन्न व्यवहार में साक्षी
अनुभावी
तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्
।
अन्तर्वेश्मन्यरण्ये
वा शरीरस्यापि चात्यये ॥ ८.६९ ॥
52.साक्षी के योग्य
व्यक्ति
स्त्रियाप्यसंभावे
कार्यं बालेन स्थविरेण वा ।
शिष्येण
बन्धुना वापि दासेन भृतकेन वा ॥ ८.७० ॥
53.साक्षी के अयोग्य
बालवृद्धातुराणां
च साक्ष्येषु वदतां मृषा ।
जानीयादस्थिरां
वाचमुत्सिक्तमनसां तथा ॥ ८.७१ ॥
54.साक्षी में अपवाद
साहसेषु च
सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोश्च
पारुष्ये न परीक्षेत साक्षिणः ॥ ८.७२ ॥
55.साक्षियों में
परस्पर मतान्तर
बहुत्वं
परिगृह्णीयात्साक्षिद्वैधे नराधिपः ।
समेषु तु
गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान्
॥ ८.७३ ॥
56.साक्षी का सत्य
भाषण
समक्षदर्शनात्साक्ष्यं
श्रवणाच्चैव सिध्यति ।
तत्र
सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते
॥ ८.७४ ॥
57.साक्षी का सत्य
भाषण
साक्षी
दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि ।
अवाङ्नरकमभ्येति
प्रेत्य स्वर्गाच्च हीयते ॥ ८.७५ ॥
58.स्वयं साक्षी
यत्रानिबद्धोऽपीक्षेत
शृणुयाद्वापि किं चन ।
पृष्टस्तत्रापि
तद्ब्रूयाद्यथादृष्टं यथाश्रुतम् ॥ ८.७६ ॥
59.साक्षी के वचन का
प्रमाण
स्वभावेनैव
यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ।
अतो
यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् ॥
८.७८ ॥
60.साक्षी से प्रश्न
विधि
सभान्तः
साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाकोऽनुयुञ्जीत
विधिनानेन सान्त्वयन् ॥ ८.७९ ॥
61.साक्ष्य कथन की
आज्ञा
यद्द्वयोरनयोर्वेत्थ
कार्येऽस्मिंश्चेष्टितं मिथः ।
तद्ब्रूत
सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥
८.८० ॥
62.साक्षी का सत्य
भाषण
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
तस्मात्सत्यं
हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८.८३
॥
63.साक्षी को सत्य
बोलना चाहये
द्यौर्भूमिरापो
हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः
संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम्
॥ ८.८६ ॥
64.श्रेष्ट साक्षी
यस्य
विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते
।
तस्मान्न
देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥
८.९६ ॥
65.साक्षी के अभाव में
शपथ से निर्णय
असाक्षिकेषु
त्वर्थेषु मिथो विवादमानयोः ।
अविन्दंस्तत्त्वतः
सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥
66.वृथा शपथ लेने के
दोष
न वृथा
शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ।
वृथा हि
शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥
८.१११ ॥
67.पुनः निर्णय
यस्मिन्
यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत्तत्कार्यं
निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.११७ ॥
68.मिथ्या साक्षी
लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव
च ।
अज्ञानाद्बालभावाच्च
साक्ष्यं वितथमुच्यते ॥ ८.११८ ॥
69.साक्षी दण्ड
एषामन्यतमे
स्थाने यः साक्ष्यमनृतं वदेत् ।
तस्य
दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥
८.११९ ॥
70.साक्षिण दण्ड
लोभात्सहस्रं
दण्ड्यस्तु मोहात्पूर्वं तु साहसम् ।
भयाद्द्वौ
मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम् ॥
८.१२० ॥
71.साक्षिण दण्ड
कामाद्दशगुणं
पूर्वं क्रोधात्तु त्रिगुणं परम् ।
अज्ञानाद्द्वे
शते पूर्णे बालिश्याच्छतमेव तु ॥ ८.१२१ ॥
72.साक्षी को दण्ड का
विधान
एतानाहुः
कौटसाक्ष्ये प्रोक्तान् दण्डान्मनीषिभिः ।
धर्मस्याव्यभिचारार्थमधर्मनियमाय
च ॥ ८.१२२ ॥
73.दण्ड के स्थान
उपस्थमुदरं
जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा
च कर्णौ च धनं देहस्तथैव च ॥ ८.१२५ ॥
74.दण्ड का विचार कैसे
करे
अनुबन्धं
परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधो
चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥
75.धर्म विरुद्ध दण्ड
अधर्मदण्डनं
लोके यशोघ्नं कीर्तिनाशनम् ।
अस्वर्ग्यं
च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ ८.१२७ ॥
76.दण्ड न देने का
परिणाम
अदण्ड्यान्
दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशो
महदाप्नोति नरकं चैव गच्छति ॥ ८.१२८ ॥
77.वाग्दंड आदि
वाग्दण्डं
प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् ।
तृतीयं
धनदण्डं तु वधदण्डमतः परम् ॥ ८.१२९ ॥
78.दण्डो की सीमा
वधेनापि
यदा त्वेतान्निग्रहीतुं न शक्नुयात् ।
तदैषु
सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ ८.१३०
॥
79.अमान्य व्यवहार
मत्तोन्मत्तार्ताध्यधीनैर्बालेन
स्थविरेण वा ।
असंबद्धकृतश्चैव
व्यावहारो न सिध्यति ॥ ८.१६३ ॥
80.प्रतिज्ञा पत्र का
प्रारंभ से शून्य होना
सत्या न
भाषा भवति यद्यपि स्यात्प्रतिष्ठिता ।
बहिश्चेद्भाष्यते
धर्मान्नियताद्व्यवहारिकात् ॥ ८.१६४ ॥
81.अमान्य व्यवहार
योगाधमनविक्रीतं
योगदानप्रतिग्रहम् ।
यत्र
वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥
82.व्यवहार दर्शन शुरू
करने से पहले अभिवादन
यथार्हमेतानभ्यर्च्य
ब्राह्मणैः सह पार्थिवः ।
सान्त्वेन
प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ८.३९१ ॥
1. ऋण दान
83.ऋण वापसी का आवेदन
अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेनचोदितः।
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ८.४७ ॥
84.ऋण वापसी के साधन
यैर्यैरुपायैरर्थं
स्वं प्राप्नुयादुत्तमर्णिकः ।
तैर्तैरुपायैः
संगृह्य दापयेदधमर्णिकम् ॥ ८.४८ ॥
85.ऋण वापसी के उपाय
धर्मेण
व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं
साधयेदर्थं पञ्चमेन बलेन च ॥ ८.४९ ॥
86.ऋण वापसी के उपाय
यः स्वयं
साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।
न स
राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥
८.५० ॥
87.ऋण लेकर मुकरना
अर्थेऽपव्ययमानं
तु करणेन विभावितम् ।
दापयेद्धनिकस्यार्थं
दण्डलेशं च शक्तितः ॥ ८.५१ ॥
88.ऋण वापसी में
प्रमाण का प्रयोग
अपह्नवेऽधमर्णस्य
देहीत्युक्तस्य संसदि ।
अभियोक्ता
दिशेद्देश्यं करणं वान्यदुद्दिशेत् ॥ ८.५२ ॥
89.ऋण दान सिद्द करने
में असफल
अदेश्यं
यश्च दिशति निर्दिश्यापह्नुते च यः ।
यश्चाधरोत्तरानर्थान्
विगीतान्नावबुध्यते ॥ ८.५३ ॥
90.ऋण दान सिद्द करने
में असफल
अपदिश्यापदेश्यं
च पुनर्यस्त्वपधावति ।
सम्यक्प्रणिहितं
चार्थं पृष्टः सन्नाभिनन्दति ॥ ८.५४ ॥
91.ऋण दान सिद्द करने
में असफल
असंभाष्ये
साक्षिभिश्च देशे संभाषते मिथः ।
निरुच्यमानं
प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ८.५५ ॥
92.ऋण दान सिद्द करने
में असफल
ब्रूहीत्युक्तश्च
न ब्रूयादुक्तं च न विभावयेत् ।
न च
पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥
८.५६ ॥
93.ऋण दान सिद्द करने
में असफल
साक्षिणः
सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः
।
धर्मस्थः
कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ ८.५७ ॥
94.वादी को दण्ड
अभियोक्ता
न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः ।
न
चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः
॥ ८.५८ ॥
95.असत्य धन परिमाण
बताने पर दण्ड
यो
यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेण
ह्यधर्मज्ञौ दाप्यो तद्द्विगुणं दमम् ॥
८.५९ ॥
96.ऋण सिद्द होने पर
दण्ड
ऋणे देये
प्रतिज्ञाते पञ्चकं शतमर्हति ।
अपह्नवे
तद्द्विगुणं तन्मनोरनुशासनम् ॥ ८.१३९ ॥
97.ब्याज की मात्रा
वसिष्ठविहितां
वृद्धिं सृजेद्वित्तविवर्धिनीम् ।
अशीतिभागं
गृह्णीयान्मासाद्वार्धुषिकः शते ॥ ८.१४० ॥
98.ब्याज की उत्तम
सीमा
द्विकं
शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् ।
द्विकं
शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥
८.१४१ ॥
99.बंधक रखने पर ब्याज
का निषेध
न
त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् ।
न चाधेः
कालसंरोधान्निसर्गोऽस्ति न विक्रयः ॥
८.१४३ ॥
100.
गोप्य बंधक के भोग का निषेध
न
भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् ।
मूल्येन
तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ ८.१४४ ॥
101.
बंधक और दान की वस्तु पर स्वामित्व का नाश नहीं
आधिश्चोपनिधिश्चोभौ
न कालात्ययमर्हतः ।
अवहार्यौ
भवेतां तौ दीर्घकालमवस्थितौ ॥ ८.१४५ ॥
102.
स्वामित्व के अधिकार निषेध
संप्रीत्या
भुज्यमानानि न नश्यन्ति कदा चन ।
धेनुरुष्ट्रो
वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ ८.१४६
॥
103.
स्वामित्वनाश की अवधि
यत्किं
चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं
परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ ८.१४७
॥
104.
संपत्ति पर अधिकार
अजडश्चेदपोगण्डो
विषये चास्य भुज्यते ।
भग्नं
तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति ॥
८.१४८ ॥
105.
अपवाद
आधिः सीमा
बालधनं निक्षेपोपनिधिः स्त्रियः ।
राजस्वं
श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥
८.१४९ ॥
106.
बंधक भोगने पर
आधा ब्याज
यः
स्वामिनाननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः
।
तेनार्धवृद्धिर्मोक्तव्या
तस्य भोगस्य निष्कृतिः ॥ ८.१५० ॥
107.
दुगने से अधिक ब्याज का निषेध
कुसीदवृद्धिर्द्वैगुण्यं
नात्येति सकृदाहृता ।
धान्ये
सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥
८.१५१ ॥
108.
कुसीद की मात्रा
कृतानुसारादधिका
व्यतिरिक्ता न सिध्यति ।
कुसीदपथमाहुस्तं
पञ्चकं शतमर्हति ॥ ८.१५२ ॥
109.
ब्याज के प्रकार
नातिसांवत्सरीं
वृद्धिं न चादृष्टां पुनर्हरेत् ।
चक्रवृद्धिः
कालवृद्धिः कारिता कायिका च या ॥ ८.१५३ ॥
110.
लेख में बदलाव
ऋणं
दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम्
।
स दत्त्वा
निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥
111.
लेख्य अदर्शयित्वा
तत्रैव
हिरण्यं परिवर्तयेत् ।
यावती
संभवेद्वृद्धिस्तावतीं दातुमर्हति ॥ ८.१५५
॥
112.
प्रतिभू
यो यस्य
प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
अदर्शयन्
स तं तस्य प्रयच्छेत्स्वधनादृणम् ॥ ८.१५८
॥
113.
प्रतिभू के ऋण वापिसी का निषेध
प्रातिभाव्यं
वृथादानमाक्षिकं सौरिकां च यत् ।
दण्डशुल्कावशेषं
च न पुत्रो दातुमर्हति ॥ ८.१५९ ॥
114.
प्रतिभू के ऋण वापिसी का निषेध
प्रतिभू दर्शनप्रातिभाव्ये तु विधिः
स्यात्पूर्वचोदितः ।
दानप्रतिभुवि
प्रेते दायादानपि दापयेत् ॥ ८.१६० ॥
115.
प्रतिभू के ऋण वापिसी का निषेध
प्रतिभू अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् ।
पश्चात्प्रतिभुवि
प्रेते परीप्सेत्केन हेतुना ॥ ८.१६१ ॥
116.
प्रतिभूति का विमोचन
निरादिष्टधनश्चेत्तु
प्रतिभूः स्यादलंधनः ।
स्वधनादेव
तद्दद्यान्निरादिष्ट इति स्थितिः ॥ ८.१६२
॥
117.
कुटुंब द्वारा ग्रहीता
यदि नष्टः
स्यात्कुटुम्बार्थे कृतो व्ययः ।
दातव्यं
बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥
८.१६६ ॥
118.
विदेश गमन
कुटुम्बार्थेऽध्यधीनोऽपि
व्यवहारं यमाचरेत् ।
स्वदेशे
वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ ८.१६७ ॥
119.
अमान्य व्यवहार
बलाद्दत्तं
बलाद्भुक्तं बलाद्यच्चापि लेखितम् ।
सर्वान्
बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ ८.१६८ ॥
120.
क्लेश उठाना
त्रयः
परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
चत्वारस्तूपचीयन्ते
विप्र आढ्यो वणिङ्नृपः ॥ ८.१६९ ॥
121.
धन का लेनदेन
अनादेयं
नाददीत परिक्षीणोऽपि पार्थिवः ।
न चादेयं
समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ ८.१७० ॥
122.
पद स्थिति का उपयोग
यः
साधयन्तं छन्देन वेदयेद्धनिकं नृपे ।
स राज्ञा
तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् ॥
८.१७६ ॥
123.
चुकाने का नियम
कर्मणापि
समं कुर्याद्धनिकायाधमर्णिकः ।
समोऽवकृष्टजातिस्तु
दद्याच्छ्रेयांस्तु तच्छनैः ॥ ८.१७७ ॥
२. निक्षेप
124.
निक्षेप , धरोहर आदि का रखना
कुलजे
वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ।
महापक्षे
धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः ॥
८.१७९ ॥
125.
लेने के प्रकार से निक्षेप की वापसी
यो यथा
निक्षिपेद्धस्ते यमर्थं यस्य मानवः ।
स तथैव
ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ ८.१८० ॥
126.
साक्षी के अभाव में धरोहर का निर्णय
यो
निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति
।
स याच्यः
प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ ॥
८.१८१ ॥
127.
अन्य उपाय
साक्ष्यभावे
प्रणिधिभिर्वयोरूपसमन्वितैः ।
अपदेशैश्च
संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ ८.१८२ ॥
128.
शिकायत का झूटा
होना
स यदि
प्रतिपद्येत यथान्यस्तं यथाकृतम् ।
न तत्र
विद्यते किं चिद्यत्परैरभियुज्यते ॥ ८.१८३
॥
129.
दण्ड से वापसी कराना
तेषां न
दद्याद्यदि तु तद्धिरण्यं यथाविधि ।
उभौ
निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥
८.१८४ ॥
130.
पुत्रादि को धरोहर देने का निषेध
निक्षेपोपनिधी
नित्यं न देयौ प्रत्यनन्तरे ।
नश्यतो
विनिपाते तावनिपाते त्वनाशिनौ ॥ ८.१८५ ॥
131.
धरोहर को स्वयं लौटाने पर
स्वयमेव
तु यौ दद्यान्मृतस्य प्रत्यनन्तरे ।
न स
राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः
॥ ८.१८६ ॥
132.
स्वयं लौटाना
अच्छलेनैव
चान्विच्छेत्तमर्थं प्रीतिपूर्वकम् ।
विचार्य
तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥
133.
मुहरबंद धरोहर देने पर
निक्षेपेष्वेषु
सर्वेषु विधिः स्यात्परिसाधने ।
समुद्रे
नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् ॥ ८.१८८ ॥
134.
धरोहर के चोरी होने पर
चौरैर्हृतं
जलेनोढमग्निना दग्धमेव वा ।
न
दद्याद्यदि तस्मात्स न संहरति किं चन ॥
८.१८९ ॥
135.
धरोहर वापिस नहीं करने पर दण्ड
निक्षेपस्यापहर्तारमनिक्षेप्तारमेव
च ।
सर्वैरुपायैरन्विच्छेच्छपथैश्चैव
वैदिकैः ॥ ८.१९० ॥
136.
चोर के समान दण्ड
यो
निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।
तावुभौ
चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥
८.१९१ ॥
137.
चोर के समान दण्ड
दण्ड निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् ।
तथोपनिधिहर्तारमविशेषेण
पार्थिवः ॥ ८.१९२ ॥
138.
छल से दूसरे के धन का हरण करने पर दण्ड
उपधाभिश्च
यः कश्चित्परद्रव्यं हरेन्नरः ।
ससहायः स
हन्तव्यः प्रकाशं विविधैर्वधैः ॥ ८.१९३ ॥
139.
धरोहर के विषय में असत्य बोलने पर दण्ड
निक्षेपो
यः कृतो येन यावांश्च कुलसंनिधौ ।
तावानेव स
विज्ञेयो विब्रुवन् दण्डमर्हति ॥ ८.१९४ ॥
140.
धरोहर देने तथा वापिस करने का प्रकार
मिथो दायः
कृतो येन गृहीतो मिथ एव वा ।
मिथ एव
प्रदातव्यो यथा दायस्तथा ग्रहः ॥ ८.१९५ ॥
141.
निक्षेप
निर्णय
निक्षिप्तस्य
धनस्यैवं प्रीत्योपनिहितस्य च ।
राजा
विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ॥
८.१९६ ॥
३. अस्वामी विक्रय
142.
बिना स्वामित्व के बेचने पर दण्ड
विक्रीणीते
परस्य स्वं योऽस्वामी स्वाम्यसम्मतः ।
न तं नयेत
साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ ८.१९७ ॥
143.
चोर के समान दण्ड
अवहार्यो
भवेच्चैव सान्वयः षट्शतं दमम् ।
निरन्वयोऽनपसरः
प्राप्तः स्याच्चौरकिल्बिषम् ॥ ८.१९८ ॥
144.
दण्ड
अस्वामिना
कृतो यस्तु दायो विक्रय एव वा ।
अकृतः स
तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ ८.१९९
॥
145.
आगम सहित भोग की प्रमाणता
संभोगो
दृश्यते यत्र न दृश्येतागमः क्व चित् ।
आगमः
कारणं तत्र न संभोग इति स्थितिः ॥ ८.२०० ॥
146.
सर्वप्रथम खरीदने पर मूल प्रति
विक्रयाद्यो
धनं किं चिद्गृह्णीयत्कुलसंनिधौ ।
क्रयेण स
विशुद्धं हि न्यायतो लभते धनम् ॥ ८.२०१ ॥
147.
अन्य साधन
अथ
मूलमनाहार्यं प्रकाशक्रयशोधितः ।
अदण्ड्यो
मुच्यते राज्ञा नाष्टिको लभते धनम् ॥
८.२०२ ॥
148.
मिलावटी वस्तु
बेचने पर दण्ड
नान्यदन्येन
संसृष्ट- रूपं विक्रयमर्हति ।
न चासारं
न च न्यूनं न दूरेण तिरोहितम् ॥ ८.२०३ ॥
149.
दोष बताकार विवाह कराना
न्मत्ताया
न कुष्ठिन्या न च या स्पृष्टमैथुना ।
पूर्वं
दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥
८.२०५ ॥
४. साझेदारी
150.
सम्मिलित कार्य मूल्य
ऋत्विग्यदि
वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य
कर्मानुरूपेण देयोऽशः सहकर्तृभिः ॥ ८.२०६
॥
151.
मूल्य मिलने पर कार्य का छोड़ना
दक्षिणासु
च दत्तासु स्वकर्म परिहापयन् ।
कृत्स्नमेव
लभेतांशमन्येनैव च कारयेत् ॥ ८.२०७ ॥
152.
मूल्य का वितरण
यस्मिन्
कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः
।
स एव ता
आदिदीत भजेरन् सर्व एव वा ॥ ८.२०८ ॥
153.
मूल्य का वितरण
रथं
हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम् ।
होता वापि
हरेदश्वमुद्गाता चाप्यनः क्रये ॥ ८.२०९ ॥
154.
यज्ञ की दक्षिणा का वितरण
सर्वेषामर्धिनो
मुख्यास्तदर्धेनार्धिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च
पादिनः ॥ ८.२१० ॥
155.
सम्मिलित कार्य करने पर
संभूय स्वानि
कर्माणि कुर्वद्भिरिह मानवैः ।
अनेन
विधियोगेन कर्तव्यांशप्रकल्पना ॥ ८.२११ ॥
५. दिए पदार्थ को न देना
156.
दान द्रव्य को लौटाने का नियम
धर्मार्थं
येन दत्तं स्यात्कस्मै चिद्याचते धनम्
।
पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ ८.२१२ ॥
157.
वापिस न करने पर दण्ड
यदि
संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः ।
राज्ञा
दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः
॥ ८.२१३ ॥
६. वेतन न देने का विवाद
158.
वेतन न देने का विवाद
दत्तस्यैषोदिता
धर्म्या यथावदनपक्रिया ।
अत
ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥
८.२१४ ॥
159.
कर्मचारी के काम नहीं करने पर दण्ड
भृतो
नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम्
।
स दण्ड्यः
कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥
८.२१५ ॥
160.
रोगादि में वेतन का विधान
आर्तस्तु
कुर्यात्स्वस्थः सन् यथाभाषितमादितः ।
स
दीर्घस्यापि कालस्य तल्लभेतैव वेतनम् ॥
८.२१६ ॥
161.
वेतन दान निषेध
यथोक्तमार्तः
सुस्थो वा यस्तत्कर्म न कारयेत् ।
न तस्य
वेतनं देयमल्पोनस्यापि कर्मणः ॥ ८.२१७ ॥
७. सविंदा व्यतिक्रम
162.
वेतनदान विधि का समापन तथा सविंदा व्यतिक्रम की विधि
का वर्णन
एष
धर्मोऽखिलेनोक्तो वेतनादानकर्मणः ।
अत ऊर्ध्वं
प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ ८.२१८ ॥
163.
सविंदा भंग में दण्ड
यो
ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन्नरो
लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ ८.२१९ ॥
164.
जुर्माना
निगृह्य
दापयेच्चैनं समयव्यभिचारिणम् ।
चतुःसुवर्णान्
षण्निष्कांश्छतमानं च राजकम् ॥ ८.२२० ॥
165.
जुर्माना
एतद्दण्डविधिं
कुर्याद्धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु
समयव्यभिचारिणाम् ॥ ८.२२१ ॥
८. क्रय -विक्रय
166.
क्रय-विक्रय करने पर मूल्य लेना या देना
क्रीत्वा
विक्रीय वा किं चिद्यस्येहानुशयो भवेत् ।
सोऽन्तर्दशाहात्तद्द्रव्यं
दद्याच्चैवाददीत वा ॥ ८.२२२ ॥
167.
क्रीत वस्तु की वापसी
परेण तु
दशाहस्य न दद्यान्नापि दापयेत् ।
आददानो
ददत्चैव राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३ ॥
168.
बिना दोष बताये कन्यादान करने पर दण्ड
यस्तु
दोषवतीं कन्यामनाख्याय प्रयच्छति ।
तस्य
कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान्
॥ ८.२२४ ॥
169.
कन्या के असत्य दोष कहने पर दण्ड
अकन्येति
तु यः कन्यां ब्रूयाद्द्वेषेण मानवः ।
स शतं
प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥
८.२२५ ॥
170.
शादीशुदा के बारे मे कहने पर दण्ड नहीं
पाणिग्रहणिका
मन्त्राः कन्यास्वेव प्रतिष्ठिताः ।
नाकन्यासु
क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ॥
८.२२६ ॥
171.
सप्तपदी –स्थान भ्रष्ट सूत्र
पाणिग्रहणिका
मन्त्रा नियतं दारलक्षणम् ।
तेषां
निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे
॥ ८.२२७ ॥
172.
भूल सुधार का समय
यस्मिन्
यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
तमनेन
विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥
173.
स्थान तथा समय का भाडा
चक्रवृद्धिं
समारूढो देशकालव्यवस्थितः ।
अतिक्रामन्
देशकालौ न तत्फलमवाप्नुयात् ॥ ८.१५६ ॥
174.
जल मार्ग भाड़ा
समुद्रयानकुशला
देशकालार्थदर्शिनः ।
स्थापयन्ति
तु यां वृद्धिं सा तत्राधिगमं प्रति ॥
८.१५७ ॥
९. पशु स्वामी पाल विवाद
175.
पशु स्वामी पाल विवाद
पशुषु
स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं
संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः ॥
८.२२९ ॥
176.
पशु रक्षा की जिम्मेदारी
दिवा
वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमेऽन्यथा
चेत्तु पालो वक्तव्यतामियात् ॥ ८.२३० ॥
177.
दुग्ध वेतन का निर्णय
गोपः
क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।
गोस्वाम्यनुमते
भृत्यः सा स्यात्पालेऽभृते भृतिः ॥ ८.२३१
॥
178.
पशु के नष्ट होने पर दण्ड
नष्टं
विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं
पुरुषकारेण प्रदद्यात्पाल एव तु ॥ ८.२३२ ॥
179.
पशु के अपहरण करने पर दण्ड
विघुष्य
तु हृतं चौरैर्न पालो दातुमर्हति ।
यदि देशे
च काले च स्वामिनः स्वस्य शंसति ॥ ८.२३३ ॥
180.
मृत पशु की पहचान
कर्णौ
चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम्
।
पशुषु
स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥ ८.२३४ ॥
181.
जंगली पशु द्वारा हानि
अजाविके
तु संरुद्धे वृकैः पाले त्वनायति ।
यां
प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥ ८.२३५ ॥
182.
जंगली पशु द्वारा हानि
तासां
चेदवरुद्धानां चरन्तीनां मिथो वने ।
यामुत्प्लुत्य
वृको हन्यान्न पालस्तत्र किल्बिषी ॥ ८.२३६
॥
183.
गोचर भूमि का प्रमाण
धनुःशतं
परीहारो ग्रामस्य स्यात्समन्ततः ।
शम्यापातास्त्रयो
वापि त्रिगुणो नगरस्य तु ॥ ८.२३७ ॥
184.
गोचर भूमि में फसल का नष्ट होना
तत्रापरिवृतं
धान्यं विहिंस्युः पशवो यदि ।
न तत्र
प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥
८.२३८ ॥
185.
गोचर भूमि की रक्षा
वृतिं
तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् ।
छिद्रं च
वारयेत्सर्वं श्वसूकरमुखानुगम् ॥ ८.२३९ ॥
186.
खेत की रक्षा
पथि
क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः
।
सपालः
शतदण्डार्हो विपालान् वारयेत्पशून् ॥
८.२४० ॥
187.
अन्य के खेत में पशु के चरने पर दण्ड
क्षेत्रेष्वन्येषु
तु पशुः सपादं पणमर्हति ।
सर्वत्र
तु सदो देयः क्षेत्रिकस्येति धारणा ॥
८.२४१ ॥
188.
सांड आदि के चरने पर दण्ड का अभाव
अनिर्दशाहां
गां सूतां वृषान् देवपशूंस्तथा ।
सपालान्
वा विपालान् वा न दण्ड्यान्मनुरब्रवीत् ॥ ८.२४२ ॥
189.
राजदेयं भाग की हानि करने पर
क्षेत्रियस्यात्यये
दण्डो भागाद्दशगुणो भवेत् ।
ततोऽर्धदण्डो
भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ ८.२४३
॥
190.
विधि का अनुकूलन
एतद्विधानमातिष्ठेद्धार्मिकः
पृथिवीपतिः ।
स्वामिनां
च पशूनां च पालानां च व्यतिक्रमे ॥ ८.२४४
॥
१०. सींमा विवाद होने पर
191.
सींमा विवाद होने पर
सीमां
प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः
।
ज्येष्ठे
मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥
८.२४५ ॥
192.
सीमा चिह्न
सींवृक्षांश्च
कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीन्
सालतालांश्च क्षीरिणश्चैव पादपान् ॥ ८.२४६
॥
193.
सीमा का नष्ट न होना
गुल्मान्
वेणूंश्च विविधान् शमीवल्लीस्थलानि च ।
शरान्
कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥
८.२४७ ॥
194.
सीमा संधि पर मंदिर तालाब बनवाना
……………………………………................................................…….२४८
195.
गुप्त वस्तुओ को सीमा पर रखना
उपछन्नानि
चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके
विपर्ययम् ॥ ८.२४९ ॥
196.
सीमा संधि पर निशानी रखना
अश्मनोऽस्थीनि
गोवालांस्तुषान् भस्म कपालिकाः ।
करीषमिष्टकाङ्गारांश्शर्करा
वालुकास्तथा ॥ ८.२५० ॥
197.
गुप्त वस्तुओ को लगाना
यानि
चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् ।
तानि
संधिषु सीमायामप्रकाशानि कारयेत् ॥ ८.२५१ ॥
198.
उपभोग द्वारा सीमा निर्णय
एतैर्लिङ्गैर्नयेत्सीमां
राजा विवदमानयोः ।
पूर्वभुक्त्या
च सततमुदकस्यागमेन च ॥ ८.२५२ ॥
199.
सीमा साक्षियों की प्रमाणता
यदि स्ंशय
एव स्याल्लिङ्गानामपि दर्शने ।
साक्षिप्रत्यय
एव स्यात्सीमावादविनिर्णयः ॥ ८.२५३ ॥
200.
सीमा चिह्न का साक्ष्य
ग्रामीयककुलानां
च समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः
सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ ८.२५४ ॥
201.
सीमा साक्षियों के कथन को लेखबद्द करना
ते
पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम्
।
निबध्नीयात्तथा
सीमां सर्वांस्तांश्चैव नामतः ॥ ८.२५५ ॥
202.
सीमा साक्षियों की शपथ
शिरोभिस्ते
गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः
शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥
८.२५६ ॥
203.
असत्य कहने पर दण्ड
यथोक्तेन
नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं
नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥
८.२५७ ॥
204.
साक्षी के अभाव में कर्तव्य
साक्ष्यभावे
तु चत्वारो ग्रामाः सामन्तवासिनः ।
सीमाविनिर्णयं
कुर्युः प्रयता राजसंनिधौ ॥ ८.२५८ ॥
205.
वनचरो से पूछताछ
सामन्तानामभावे
तु मौलानां सीम्नि साक्षिणाम् ।
इमानप्यनुयुञ्जीत
पुरुषान् वनगोचरान् ॥ ८.२५९ ॥
206.
वनचरो के नाम
व्याधाञ्शाकुनिकान्
गोपान् कैवर्तान्मूलखानकान् ।
व्यालग्राहानुञ्छवृत्तीनन्यांश्च
वनचारिणः ॥ ८.२६० ॥
207.
-धर्मानुसार निर्णय
ते
पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम्
।
तत्तथा
स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः ॥
८.२६१ ॥
208.
एक ग्राम में सीमा विवाद होने पर
क्षेत्रकूपतडागानामारामस्य
गृहस्य च ।
सामन्तप्रत्ययो
ज्ञेयः सीमासेतुविनिर्णयः ॥ ८.२६२ ॥
209.
असत्य वक्ता सामंतो को दण्ड
सामन्ताश्चेन्मृषा
ब्रूयुः सेतौ विवादतां नृणाम् ।
सर्वे
पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥
८.२६३ ॥
210.
बल से गृहादी स्वाधीन करने पर दण्ड
गृहं
तडागमारामं क्षेत्रं वा भीषया हरन् ।
शतानि
पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥
८.२६४ ॥
211.
साक्षी अभाव में सीमा निर्णय
सीमायामविषह्यायां
स्वयं राजैव धर्मवित् ।
प्रदिशेद्भूमिमेकेषामुपकारादिति
स्थितिः ॥ ८.२६५ ॥
११. कठोर भाषण
212.
सीमा विवाद विधि की समाप्ति
एषोऽखिलेनाभिहितो
धर्मः सीमाविनिर्णये ।
अत
ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम्
॥ ८.२६६ ॥
213.
समवर्ण को कटु वाक्य कहना
समवर्णे
द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्ववचनीयेषु
तदेव द्विगुणं भवेत् ॥ ८.२६९ ॥
214.
शास्त्र आदि की निंदा करने पर दण्ड
श्रुतं
देशं च जातिं च कर्म शरीरमेव च ।
वितथेन
ब्रुवन् दर्पाद्दाप्यः स्याद्द्विशतं दमम्
॥ ८.२७३ ॥
215.
कटु वचन कहने पर दण्ड
काणं
वाप्यथ वा खञ्जमन्यं वापि तथाविधम् ।
तथ्येनापि
ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥
८.२७४ ॥
216.
माता पिता की निंदा करने पर दण्ड
मातरं
पितरं जायां भ्रातरं तनयं गुरुम् ।
आक्षारयञ्शतं
दाप्यः पन्थानं चाददद्गुरोः ॥ ८.२७५ ॥
217.
आपस में कठोर भाषण पर दण्ड
ब्राह्मणक्षत्रियाभ्यां
तु दण्डः कार्यो विजानता ।
ब्राह्मणे
साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥
८.२७६ ॥
१२. दण्ड पारुष्य
218.
दण्ड पारुष्य
एष
दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
अत
ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम्
॥ ८.२७८ ॥
219.
घातक चोट में दण्ड
त्वग्भेदकः
शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता
तु षण्निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥
८.२८४ ॥
220.
व्रक्षादी काटने पर दण्ड
वनस्पतीनां
सर्वेषामुपभोगो यथा यथा ।
यथा तथा
दमः कार्यो हिंसायामिति धारणा ॥ ८.२८५ ॥
221.
पीडानुसार दण्ड
मनुष्याणां
पशूनां च दुःखाय प्रहृते सति ।
यथा यथा
महद्दुःखं दण्डं कुर्यात्तथा तथा ॥ ८.२८६
॥
222.
आहत के स्वस्थ होने तक का व्यय दिलवाना
अङ्गावपीडनायां
च व्रणशोनितयोस्तथा ।
समुत्थानव्ययं
दाप्यः सर्वदण्डमथापि वा ॥ ८.२८७ ॥
223.
वस्तु के नष्ट होने पर दण्ड
द्रव्याणि
हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।
स
तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्
॥ ८.२८८ ॥
224.
अन्य वस्तुओ के नष्ट होने पर दण्ड
चर्मचार्मिकभाण्डेषु
काष्ठलोष्टमयेषु ।
मूल्यात्पञ्चगुणो
दण्डः पुष्पमूलफलेषु च ॥ ८.२८९ ॥
225.
वाहन के नष्ट होने पर दण्ड
यानस्य
चैव यातुश्च यानस्वामिन एव च ।
दशातिवर्तनान्याहुः
शेषे दण्डो विधीयते ॥ ८.२९० ॥
226.
अन्य दण्ड
छिन्ननास्ये
भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे
च यानस्य चक्रभङ्गे तथैव च ॥ ८.२९१ ॥
227.
अन्य दण्ड
छेदने चैव
यन्त्राणां योक्त्ररश्म्योस्तथैव च ।
आक्रन्दे
चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ ८.२९२ ॥
228.
सारथि की मुर्खता से किसी के मरने पर स्वामी को दण्ड
यत्रापवर्तते
युग्यं वैगुण्यात्प्राजकस्य तु ।
तत्र
स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्
॥ ८.२९३ ॥
229.
अन्य दण्ड विधान
प्राजकश्चेद्भवेदाप्तः
प्राजको दण्डमर्हति ।
युग्यस्थाः
प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥
८.२९४ ॥
230.
अन्य अवस्था में दण्ड
स चेत्तु
पथि संरुद्धः पशुभिर्वा रथेन वा ।
प्रमापयेत्प्राणभृतस्तत्र
दण्डोऽविचारितः ॥ ८.२९५ ॥
231.
अपराध के बाद दण्ड विधान
मनुष्यमारणे
क्षिप्रं चौरवत्किल्बिषं भवेत् ।
प्राणभृत्सु
महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥ ८.२९६ ॥
232.
पशु पक्षी के मरने पर दण्ड
क्षुद्रकाणां
पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत्तु
भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ ८.२९७ ॥
233.
अन्य पशु के मरने पर दण्ड
गर्धभाजाविकानां
तु दण्डः स्यात्पञ्चमाषिकः ।
माषिकस्तु
भवेद्दण्डः श्वसूकरनिपातने ॥ ८.२९८ ॥
234.
शिक्षार्थ स्त्री , बालक को दण्ड
भार्या
पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः
।
प्राप्तापराधास्ताड्याः
स्यू रज्ज्वा वेणुदलेन वा ॥ ८.२९९ ॥
235.
अन्य दण्ड
पृष्ठतस्तु
शरीरस्य नोत्तमाङ्गे कथं चन ।
अतोऽन्यथा
तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ॥
८.३०० ॥
१३. चोरी
236.
चोर के लिए दण्ड विधान
एषोऽखिलेनाभिहितो
दण्डपारुष्यनिर्णयः ।
स्तेनस्यातः
प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ ८.३०१
॥
237.
चोर निग्रह
परमं
यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः ।
स्तेनानां
निग्रहादस्य यशो राष्ट्रं च वर्धते ॥
८.३०२ ॥
238.
चौर्य कर्म के लिए दण्ड
राजा
स्तेनेन गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन
तत्स्तेयमेवंकर्मास्मि शाधि माम् ॥ ८.३१४
॥
239.
चौर्य कर्म के लिए दण्ड
स्कन्धेनादाय
मुसलं लगुडं वापि खादिरम् ।
शक्तिं
चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ८.३१५
॥
240.
चौर्य कर्म के लिए दण्ड
शासनाद्वा
विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ।
अशासित्वा
तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥
८.३१६ ॥
241.
दण्डित न करने का दोष
अन्नादे
भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ
शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्
॥ ८.३१७ ॥
242.
दण्ड से अपराध की मुक्ति
राजभिः
कृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलाः
स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥
८.३१८ ॥
243.
कुए की रस्सी चुराने पर दण्ड
यस्तु
रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम्
।
स दण्डं
प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥ ८.३१९ ॥
244.
धान्य चुराने पर दण्ड
धान्यं
दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
शेषेऽप्येकादशगुणं
दाप्यस्तस्य च तद्धनम् ॥ ८.३२० ॥
245.
सुवर्ण चुराने पर दण्ड
तथा
धरिममेयानां शतादभ्यधिके वधः ।
सुवर्णरजतादीनामुत्तमानां
च वाससाम् ॥ ८.३२१ ॥
246.
तौल में कमी पर दण्ड
पञ्चाशतस्त्वभ्यधिके
हस्तच्छेदनमिष्यते ।
शेषे
त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥
247.
स्त्री पुरुष चुराने पर दण्ड
पुरुषाणां
कुलीनानां नारीणां च विशेषतः ।
मुख्यानां
चैव रत्नानां हरणे वधमर्हति ॥ ८.३२३ ॥
248.
बड़े पशु के चुराने पर दण्ड
महापशूनां
हरणे शस्त्राणामौषधस्य च ।
कालमासाद्य
कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥
249.
चौर्य कर्म के लिए दण्ड
गोषु
ब्राह्मणसंस्थासु छुरिकायाश्च भेदने ।
पशूनां
हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ ८.३२५
॥
250.
सूत रुई चुराने पर
सूत्रकार्पासकिण्वानां
गोमयस्य गुडस्य च ।
दध्नः
क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥
८.३२६ ॥
251.
अन्य वस्तुओ को चुराने पर दण्ड
वेणुवैदलभाण्डानां
लवणानां तथैव च ।
मृण्मयानां
च हरणे मृदो भस्मन एव च ॥ ८.३२७ ॥
252.
अन्य वस्तुओ को चुराने पर दण्ड
मत्स्यानां
पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य
मधुनश्चैव यच्चान्यत्पशुसंभवम् ॥ ८.३२८ ॥
253.
अन्य वस्तुओ को चुराने पर दण्ड
अन्येषां
चैवमादीनां मद्यानामोदनस्य च ।
पक्वान्नानां
च सर्वेषां तन्मुल्याद्द्विगुणो दमः ॥
८.३२९ ॥
254.
पुष्पादि चुराने पर दण्ड
पुष्पेषु
हरिते धान्ये गुल्मवल्लीनगेषु च ।
अन्येष्वपरिपूतेषु
दण्डः स्यात्पञ्चकृष्णलः ॥ ८.३३० ॥
255.
अन्य वस्तु के चुराने पर दण्ड
परिपूतेषु
धान्येषु शाकमूलफलेषु च ।
निरन्वये
शतं दण्डः सान्वयेऽर्धशतं दमः ॥ ८.३३१ ॥
256.
साहस तथा स्तेय के लक्षण
स्यात्साहसं
त्वन्वयवत्प्रसभं कर्म यत्कृतम् ।
निरन्वयं
भवेत्स्तेयं हृत्वापव्ययते च यत् ॥ ८.३३२ ॥
257.
उपभोग्य वस्युओ को चुराने पर दण्ड
यस्त्वेतान्युपकॢप्तानि
द्रव्याणि स्तेनयेन्नरः ।
तमाद्यं
दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ॥ ८.३३३ ॥
258.
चोर को दण्ड
येन येन
यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत्तदेव
हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ ८.३३४
॥
259.
धर्मच्युत होने पर दण्ड
पिताचार्यः
सुहृन्माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो
नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥
८.३३५ ॥
260.
अपराधी राजा को विशेष दण्ड
कार्षापणं
भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः ।
तत्र राजा
भवेद्दण्ड्यः सहस्रमिति धारणा ॥ ८.३३६ ॥
261.
गैर आर्यन को दण्ड
अष्टापाद्यं
तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु
वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥
८.३३७ ॥
262.
दण्ड की
मात्रा
ब्राह्मणस्य
चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा
वा चतुःषष्टिस्तद्दोषगुणविद्धि सः ॥ ८.३३८
॥
263.
दुसरो से सम्पति ग्रहण करने पर दण्ड
योऽदत्तादायिनो
हस्ताल्लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि
यथा स्तेनस्तथैव सः ॥ ८.३४० ॥
264.
यात्रा में खाने की वास्तु लेने पर अदंड
द्विजोऽध्वगः
क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
आददानः
परक्षेत्रान्न दण्डं दातुमर्हति ॥ ८.३४१ ॥
265.
अरक्षित पशु के अपहरण पर दण्ड
असंदितानां
संदाता संदितानां च मोक्षकः ।
दासाश्वरथहर्ता
च प्राप्तः स्याच्चोरकिल्बिषम् ॥ ८.३४२ ॥
266.
चोर दण्ड विधान
अनेन
विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
यशोऽस्मिन्
प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम्
॥ ८.३४३ ॥
१४. साहस
267.
साहसकर्ता का निग्रह
ऐन्द्रं
स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
नोपेक्षेत
क्षणमपि राजा साहसिकं नरम् ॥ ८.३४४ ॥
268.
साहस की अधिक सदोषता
वाग्दुष्टात्तस्कराच्चैव
दण्डेनैव च हिंसतः ।
साहसस्य
नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ८.३४५ ॥
269.
साहस क्षमा की निंदा
साहसे
वर्तमानं तु यो मर्षयति पार्थिवः ।
स विनाशं
व्रजत्याशु विद्वेषं चाधिगच्छति ॥ ८.३४६ ॥
270.
साहसिक को दण्ड
न
मित्रकारणाद्राजा विपुलाद्वा धनागमात् ।
समुत्सृजेत्साहसिकान्
सर्वभूतभयावहान् ॥ ८.३४७ ॥
271.
आत्म रक्षा
शस्त्रं
द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते
।
द्विजातीनां
च वर्णानां विप्लवे कालकारिते ॥ ८.३४८ ॥
272.
आत्म रक्षा
आत्मनश्च
परित्राणे दक्षिणानां च संगरे ।
स्त्रीविप्राभ्युपपत्तौ
च घ्नन् धर्मेण न दुष्यति ॥ ८.३४९ ॥
273.
आततायी को मारना
गुरुं वा
बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं
हन्यादेवाविचारयन् ॥ ८.३५० ॥
274.
आततायी वध में निदोषता
नाततायिवधे
दोषो हन्तुर्भवति कश्चन ।
प्रकाशं
वाप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥
८.३५१ ॥
१५. परस्त्री दूषण
275.
परस्त्री दूषण में दण्ड
परदाराभिमर्शेषु
प्रवृत्तान्नॄन्महीपतिः ।
उद्वेजनकरैर्दण्डैश्छिन्नयित्वा
प्रवासयेत् ॥ ८.३५२ ॥
276.
स्त्री दूषण का परिणाम
तत्समुत्थो
हि लोकस्य जायते वर्णसंकरः ।
येन
मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥ ८.३५३ ॥
277.
परस्त्री के साथ एकांत में भाषण करने पर
परस्य
पत्न्या पुरुषः संभाषां योजयन् रहः ।
पूर्वमाक्षारितो
दोषैः प्राप्नुयात्पूर्वसाहसम् ॥ ८.३५४ ॥
278.
कोई दण्ड नहीं
यस्त्वनाक्षारितः
पूर्वमभिभाषते कारणात् ।
न दोषं
प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः
॥ ८.३५५ ॥
279.
विधान का अपवाद
परस्त्रियं
योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ।
नदीनां
वापि संभेदे स संग्रहणमाप्नुयात् ॥ ८.३५६ ॥
280.
स्त्री संग्रहण का लक्षण
उपचारक्रिया
केलिः स्पर्शो भूषणवाससाम् ।
सह
खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥
८.३५७ ॥
281.
-स्त्री संग्रहण का लक्षण
स्त्रियं
स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया ।
परस्परस्यानुमते
सर्वं संग्रहणं स्मृतम् ॥ ८.३५८ ॥
282.
पुरोहित की स्त्री को दूषित करने पर दण्ड
अब्राह्मणः
संग्रहणे प्राणान्तं दण्डमर्हति ।
चतुर्णामपि
वर्णानां दारा रक्ष्यतमाः सदा ॥ ८.३५९ ॥
283.
अपवाद
भिक्षुका
बन्दिनश्चैव दीक्षिताः कारवस्तथा ।
संभाषनं
सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ ८.३६०
॥
284.
निषेध करने पर भाषण करने पर दण्ड
न संभाषां
परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
निषिद्धो
भाषमाणस्तु सुवर्णं दण्डमर्हति ॥ ८.३६१ ॥
285.
अपवाद
नैष
चारणदारेषु विधिर्नात्मोपजीविषु ।
सज्जयन्ति
हि ते नारीर्निगूढाश्चारयन्ति च ॥ ८.३६२ ॥
286.
एकान्तिक दोष में दण्ड
किं चिदेव
तु दाप्यः स्यात्संभाषां ताभिराचरन् ।
प्रैष्यासु
चैकभक्तासु रहः प्रव्रजितासु च ॥ ८.३६३ ॥
287.
कन्या सम्भोग करने पर दण्ड
योऽकामां
दूषयेत्कन्यां स सद्यो वधमर्हति ।
सकामां
दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥
८.३६४ ॥
288.
गणिका
कन्यां
भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् ।
जघन्यं
सेवमानां तु संयतां वासयेद्गृहे ॥ ८.३६५ ॥
289.
गैर आर्यन को दण्ड , विधर्मी को दण्ड
उत्तमां
सेवमानस्तु जघन्यो वधमर्हति ।
शुल्कं
दद्यात्सेवमानः समामिच्छेत्पिता यदि ॥
८.३६६ ॥
290.
कन्या को दूषित करने पर दण्ड
अभिषह्य
तु यः कन्यां कुर्याद्दर्पेण मानवः ।
तस्याशु
कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम्
॥ ८.३६७ ॥
291.
कन्या दूषण में दण्ड
सकामां
दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् ।
द्विशतं
तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ८.३६८
॥
292.
कन्या द्वारा कन्या दूषण
कन्यैव
कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः
।
शुल्कं च
द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश ॥
८.३६९ ॥
293.
कन्या दूषण पर
दण्ड
या तु
कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति
।
अङ्गुल्योरेव
वा छेदं खरेणोद्वहनं तथा ॥ ८.३७० ॥
294.
व्याभिचारिण स्त्री को दण्ड
भर्तारं
लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता ।
तां
श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते
॥ ८.३७१ ॥
295.
व्याभिचारी पुरुष को दण्ड
पुमांसं
दाहयेत्पापं शयने तप्त आयसे ।
अभ्यादध्युश्च
काष्ठानि तत्र दह्येत पापकृत् ॥ ८.३७२ ॥
296.
पुनः कारित करने पर दण्ड
संवत्सराभिशस्तस्य
दुष्टस्य द्विगुणो दमः ।
व्रात्यया
सह संवासे चाण्डाल्या तावदेव तु ॥ ८.३७३ ॥
297.
विधर्मी को दण्ड
शूद्रो
गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् ।
अगुप्तमङ्गसर्वस्वैर्गुप्तं
सर्वेण हीयते ॥ ८.३७४ ॥
Comments
Post a Comment