मनुस्मृति २५-११-२०१९
अध्याय ७
१. भूमिका
1. भूमिका
राजधर्मान्
प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।
संभवश्च
यथा तस्य सिद्धिश्च परमा यथा ॥ ७.१ ॥
२. राजा का चुना जाना
2. कृतसंस्कारस्य प्रजारक्षणम
ब्राह्मं
प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
सर्वस्यास्य
यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२ ॥
3. राजोत्त्पत्ति
अराजके हि
लोकेऽस्मिन् सर्वतो विद्रुतो भयात् ।
रक्षार्थमस्य
सर्वस्य राजानमसृजत्प्रभुः ॥ ७.३ ॥
4. राजा का चुना जाना
कार्यं
सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते
धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ७.१०
॥
5. राजा का चुना जाना
तस्माद्धर्मं
यमिष्टेषु स व्यवस्येन्नराधिपः ।
अनिष्टं
चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥
6. राजा का चुना जाना
तस्यार्थे
सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
ब्रह्मतेजोमयं
दण्डमसृजत्पूर्वमीश्वरः ॥ ७.१४ ॥
7. राजा का चुना जाना
तस्य
सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय
कल्पन्ते स्वधर्मान्न चलन्ति च ॥ ७.१५ ॥
8. राजा का चुना जाना
तं
देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः
।
यथार्हतः
संप्रणयेन्नरेष्वन्यायवर्तिषु ॥ ७.१६ ॥
9. राजा का चुना जाना
स राजा
पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णामाश्रमाणां
च धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७ ॥
10.राजा का चुना जाना
दण्डः
शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः
सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः
॥ ७.१८ ॥
11.राजा का चुना जाना
समीक्ष्य
स धृतः सम्यक्सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य
प्रणीतस्तु विनाशयति सर्वतः ॥ ७.१९ ॥
12.राजा का चुना जाना
यदि न
प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
शूले
मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः
॥ ७.२० ॥
13.राजा का चुना जाना
सर्वो
दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।
दण्डस्य
हि भयात्सर्वं जगद्भोगाय कल्पते ॥ ७.२२ ॥
14.राजा का चुना जाना
तस्याहुः
संप्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं
प्राज्ञं धर्मकामार्थकोविदम् ॥ ७.२६ ॥
15.राजा का चुना जाना
दण्डो हि
सुमहत्तेजो दुर्धरश्चाकृतात्मभिः ।
धर्माद्विचलितं
हन्ति नृपमेव सबान्धवम् ॥ ७.२८ ॥
16.राजा का चुना जाना
सोऽसहायेन
मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्यो
न्यायतो नेतुं सक्तेन विषयेषु च ॥ ७.३० ॥
17.राजा का चुना जाना
शुचिना
सत्यसंधेन यथाशास्त्रानुसारिणा ।
प्रणेतुं
शक्यते दण्डः सुसहायेन धीमता ॥ ७.३१ ॥
18.राजा का चुना जाना
स्वराष्ट्रे
न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः
स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥
७.३२ ॥
19.राजा का चुना जाना
एवंवृत्तस्य
नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते
यशो लोके तैलबिन्दुरिवाम्भसि ॥ ७.३३ ॥
20.राजा का चुना जाना
अतस्तु
विपरीतस्य नृपतेरजितात्मनः ।
संक्षिप्यते
यशो लोके घृतबिन्दुरिवाम्भसि ॥ ७.३४ ॥
२. धर्म आदि
21.धर्म आदि
तेन
यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः ।
तत्तद्वोऽहं
प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ७.३६ ॥
22.धर्म आदि
ब्राह्मणान्
पर्युपासीत प्रातरुत्थाय पार्थिवः ।
त्रैविद्यवृद्धान्
विदुषस्तिष्ठेत्तेषां च शासने ॥ ७.३७ ॥
23.धर्म आदि
वृद्धांश्च
नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
वृद्धसेवी
हि सततं रक्षोभिरपि पूज्यते ॥ ७.३८ ॥
24.धर्म आदि
तेभ्योऽधिगच्छेद्विनयं
विनीतात्मापि नित्यशः ।
विनीतात्मा
हि नृपतिर्न विनश्यति कर्हि चित् ॥ ७.३९ ॥
25.धर्म आदि
बहवोऽविनयान्नष्टा
राजानः सपरिच्छदाः ।
वनस्था
अपि राज्यानि विनयात्प्रतिपेदिरे ॥ ७.४० ॥
26.धर्म आदि
त्रैविद्येभ्यस्त्रयीं
विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं
चात्मविद्यां वार्तारम्भांश्च लोकतः ॥
७.४३ ॥
27.धर्म आदि
इन्द्रियाणां
जये योगं समातिष्ठेद्दिवानिशम् ।
जितेन्द्रियो
हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ७.४४
॥
28.धर्म आदि
दश
कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि
दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥
29.धर्म आदि
कामजेषु
प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यतेऽर्थधर्माभ्यां
क्रोधजेष्वात्मनैव तु ॥ ७.४६ ॥
30.धर्म आदि
मृगयाक्षो
दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं
वृथाट्या च कामजो दशको गणः ॥ ७.४७ ॥
31.धर्म आदि
पैशुन्यं
साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं
च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ ७.४८ ॥
32.धर्म आदि
द्वयोरप्येतयोर्मूलं
यं सर्वे कवयो विदुः ।
तं यत्नेन
जयेल्लोभं तज्जावेतावुभौ गणौ ॥ ७.४९ ॥
33.धर्म आदि
पानमक्षाः
स्त्रियश्चैव मृगया च यथाक्रमम् ।
एतत्कष्टतमं
विद्याच्चतुष्कं कामजे गणे ॥ ७.५० ॥
34.धर्म आदि
दण्डस्य
पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजेऽपि
गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥ ७.५१ ॥
35.धर्म आदि
सप्तकस्यास्य
वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्वं
पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान् ॥
७.५२ ॥
36.धर्म आदि
व्यसनस्य
च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोऽधो
व्रजति स्वर्यात्यव्यसनी मृतः ॥ ७.५३ ॥
३. मंत्रियो की नियुक्ति
37.मंत्रियो की नियुक्ति
मौलाञ्शास्त्रविदः
शूरांल्लब्धलक्षान् कुलोद्भवान् ।
सचिवान्
सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥
७.५४ ॥
38.मंत्रियो की नियुक्ति
अपि
यत्सुकरं कर्म तदप्येकेन दुष्करम् ।
विशेषतोऽसहायेन
किं तु राज्यं महोदयम् ॥ ७.५५ ॥
39.मंत्रियो की नियुक्ति
तैः
सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम्
।
स्थानं
समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ७.५६ ॥
40.मंत्रियो की नियुक्ति
तेषां
स्वं स्वमभिप्रायमुपलभ्य पृथक्पृथक् ।
समस्तानां
च कार्येषु विदध्याद्धितमात्मनः ॥ ७.५७ ॥
41.मंत्रियो की नियुक्ति
सर्वेषां
तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत्परमं
मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ ७.५८ ॥
42.मंत्रियो की नियुक्ति
नित्यं
तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् ।
तेन
सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥
४. अधिकारियों की नियुक्ति
43.अधिकारियों की नियुक्ति
अन्यानपि
प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् ।
सम्यगर्थसमाहर्तॄनमात्यान्
सुपरीक्षितान् ॥ ७.६० ॥
44.अधिकारियों की नियुक्ति
निर्वर्तेतास्य
यावद्भिरितिकर्तव्यता नृभिः ।
तावतोऽतन्द्रितान्
दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७.६१ ॥
45.अधिकारियों की नियुक्ति
तेषामर्थे
नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीनाकरकर्मान्ते
भीरूनन्तर्निवेशने ॥ ७.६२ ॥
५. दूतो की नियुक्ति
46.दूतो की नियुक्ति
दूतं चैव
प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं
शुचिं दक्षं कुलोद्गतम् ॥ ७.६३ ॥
47.दूतो की नियुक्ति
अनुरक्तः
शुचिर्दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान्
वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥
७.६४ ॥
48.दूतो की नियुक्ति
अमात्ये
दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ
कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ ७.६५ ॥
49.दूतो की नियुक्ति
दूत एव हि
संधत्ते भिनत्त्येव च संहतान् ।
दूतस्तत्कुरुते
कर्म भिद्यन्ते येन मानवः ॥ ७.६६ ॥
50.दूतो की नियुक्ति
स
विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः
।
आकारमिङ्गितं
चेष्टां भृत्येषु च चिकीर्षितम् ॥ ७.६७ ॥
51.दूतो की नियुक्ति
बुद्ध्वा
च सर्वं तत्त्वेन परराजचिकीर्षितम् ।
तथा
प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ ७.६८ ॥
६. दुर्ग निर्माण
52.शाही किला
जाङ्गलं
सस्यसंपन्नमार्यप्रायमनाविलम् ।
रम्यमानतसामन्तं
स्वाजीव्यं देशमावसेत् ॥ ७.६९ ॥
53.शाही किला
धन्वदुर्गं
महीदुर्गमब्दुर्गं वार्क्षमेव वा ।
नृदुर्गं
गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥
७.७० ॥
54.शाही किला
सर्वेण तु
प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि
बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७.७१
॥
55.शाही किला
त्रिण्याद्यान्याश्रितास्त्वेषां
मृगगर्ताश्रयाप्चराः ।
त्रीण्युत्तराणि
क्रमशः प्लवंगमनरामराः ॥ ७.७२ ॥
56.शाही किला
यथा
दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।
तथारयो न
हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७.७३ ॥
57.शाही किला
एकः शतं
योधयति प्राकारस्थो धनुर्धरः ।
शतं
दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ ७.७४
॥
58.शाही किला
तत्स्यादायुधसंपन्नं
धनधान्येन वाहनैः ।
ब्राह्मणैः
शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥ ७.७५ ॥
59.शाही किला
तस्य
मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः ।
गुप्तं
सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥
७.७६ ॥
७. विविध विषय
60.शादी
तदध्यास्योद्वहेद्भार्यां
सवर्णां लक्षणान्विताम् ।
कुले महति
संभूतां हृद्यां रूपगुणान्वीताम् ॥ ७.७७ ॥
61.ब्राहमण
आवृत्तानां
गुरुकुलाद्विप्राणां पूजको भवेत् ।
नृपाणामक्षयो
ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ ७.८२ ॥
62.ब्राहमण
न तं
स्तेना न चामित्रा हरन्ति न च नश्यति ।
तस्माद्राज्ञा
निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ ७.८३
॥
63.न्याययिक कार्य
तीक्ष्णश्चैव
मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश्चैव
मृदुश्चैव राज भवति सम्मतः ॥ ७.१४०॥
64.न्याययिक कार्य
अमात्यमुख्यं
धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेदासने
तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥
७.१४१ ॥
65.विषयों की सुरक्षा
एवं सर्वं
विधायेदमितिकर्तव्यमात्मनः ।
युक्तश्चैवाप्रमत्तश्च
परिरक्षेदिमाः प्रजाः ॥ ७.१४२॥
66.विषयों की सुरक्षा
विक्रोशन्त्यो
यस्य राष्ट्राध्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः
सभृत्यस्य मृतः स न तु जीवति ॥ ७.१४३॥
67.विषयों की सुरक्षा
क्षत्रियस्य
परो धर्मः प्राजानामेव पालनम् ।
निर्दिष्टफलभोक्ता
हि राजा धर्मेण युज्यते ॥ ७.१४४॥
८. शासन योजना
68.एषोऽनुपस्कृतः प्रोक्तो
योधधर्मः सनातनः
एषोऽनुपस्कृतः
प्रोक्तो योधधर्मः सनातनः ।
अस्माद्धर्मान्न
च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥
७.९८॥
69.शासन योजना
अलब्धं
चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।
रक्षितं
वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥
70.शासन योजना
एतच्चतुर्विधं
विद्यात्पुरुषार्थप्रयोजनम् ।
अस्य
नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः ॥
७.१००॥
71.शासन योजना
अलब्धमिच्छेद्दण्डेन
लब्धं रक्षेदवेक्षया ।
रक्षितं
वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१॥
72.शासन योजना
नित्यमुद्यतदण्डः
स्यान्नित्यं विवृतपौरुषः ।
नित्यं
संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥
७.१०२॥
73.शासन योजना
नित्यमुद्यतदण्डस्य
कृत्स्नमुद्विजते जगत् ।
तस्मात्सर्वाणि
भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३॥
74.शासन योजना
अमाययैव
वर्तेत न कथं चन मायया ।
बुध्येतारिप्रयुक्तां
च मायां नित्यं सुसंवृतः ॥ ७.१०४॥
75.शासन योजना
नास्य
छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च
।
गूहेत्कूर्म
इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ७.१०५॥
76.शासन योजना
बकवच्चिन्तयेदर्थान्
सिंहवच्च पराक्रमे ।
वृकवच्चावलुम्पेत
शशवच्च विनिष्पतेत् ॥ ७.१०६ ॥
77.शासन योजना
एवं
विजयमानस्य येऽस्य स्युः परिपन्थिनः ।
तानानयेद्वशं
सर्वान् सामादिभिरुपक्रमैः ॥ ७.१०७॥
78.शासन योजना
यदि ते तु
न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।
दण्डेनैव
प्रसह्यैताञ्शनकैर्वशमानयेत् ॥ ७.१०८॥
79.शासन योजना
सामादीनामुपायानां
चतुर्णामपि पण्डिताः ।
सामदण्डौ
प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥
७.१०९॥
80.शासन योजना
यथोद्धरति
निर्दाता कक्षं धान्यं च रक्षति ।
तथा
रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः
॥ ७.११० ॥
81.शासन योजना
मोहाद्राजा
स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
सोऽचिराद्भ्रश्यते
राज्याज्जीविताच्च सबान्धवः ॥ ७.१११ ॥
82.शासन योजना
शरीरकर्षणात्प्राणाः
क्षीयन्ते प्राणिनां यथा ।
तथा
राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२ ॥
83.शासन योजना
राष्ट्रस्य
संग्रहे नित्यं विधानमिदमाचरेत् ।
सुसंगृहीतराष्ट्रे
हि पार्थिवः सुखमेधते ॥ ७.११३ ॥
९. युद्ध
84.युद्ध
समोत्तमाधमै
राजा त्वाहूतः पालयन् प्रजाः ।
न
निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन्
॥ ७.८७॥
85.युद्ध
आहवेषु
मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः
परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥
७.८९॥
86.युद्ध
रथाश्वं
हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः
।
सर्वद्रव्याणि
कुप्यं च यो यज्जयति तस्य तत् ॥ ७.९६ ॥
१०. राज्य प्रबंध
87.राज्य प्रबंध
द्वयोस्त्रयाणां
पञ्चानां मध्ये गुल्ममधिष्ठितम् ।
तथा
ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम्
॥ ७.११४ ॥
88.राज्य प्रबंध
ग्रामस्याधिपतिं
कुर्याद्दशग्रामपतिं तथा ।
विंशतीशं
शतेशं च सहस्रपतिमेव च ॥ ७.११५ ॥
89.राज्य प्रबंध
ग्रामदोषान्
समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
शंसेद्ग्रामदशेशाय
दशेशो विंशतीशिने ॥ ७.११६॥
90.राज्य प्रबंध
विंशतीशस्तु
तत्सर्वं शतेशाय निवेदयेत् ।
शंसेद्ग्रामशतेशस्तु
सहस्रपतये स्वयम् ॥ ७.११७ ॥
91.राज्य प्रबंध
यानि
राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
अन्नपानेन्धनादीनि
ग्रामिकस्तान्यवाप्नुयात् ॥ ७.११८ ॥
92.राज्य प्रबंध
दशी कुलं
तु भुञ्जीत विंशी पञ्च कुलानि च ।
ग्रामं
ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥
७.११९ ॥
93.राज्य प्रबंध
तेषां
ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि
।
राज्ञोऽन्यः
सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥
७.१२० ॥
94.राज्य प्रबंध
नगरे नगरे
चैकं कुर्यात्सर्वार्थचिन्तकम् ।
उच्चैःस्थानं
घोररूपं नक्षत्राणामिव ग्रहम् ॥ ७.१२१ ॥
95.राज्य प्रबंध
स
ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् ।
तेषां
वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः
॥ ७.१२२ ॥
96.राज्य प्रबंध
राज्ञो हि
रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या
भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः
॥ ७.१२३ ॥
97.राज्य प्रबंध
ये
कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ।
तेषां
सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥
७.१२४ ॥
98.राज्य प्रबंध
राजा
कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च
।
प्रत्यहं
कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः ॥
७.१२५ ॥
99.राज्य प्रबंध
पणो
देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
षाण्मासिकस्तथाच्छादो
धान्यद्रोणस्तु मासिकः ॥ ७.१२६॥
११. कर आदि
100.
कर संग्रह आदि
सांवत्सरिकमाप्तैश्च
राष्ट्रादाहारयेद्बलिम् ।
स्याच्चाम्नायपरो
लोके वर्तेत पितृवन्नृषु ॥ ७.८० ॥
101.
कर संग्रह आदि
अध्यक्षान्
विविधान् कुर्यात्तत्र तत्र विपश्चितः ।
तेऽस्य
सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम्
॥ ७.८१ ॥
102.
कर आदि
क्रयविक्रयमध्वानं
भक्तं च सपरिव्ययम् ।
योगक्षेमं
च संप्रेक्ष्य वणिजो दापयेत्करान् ॥
७.१२७॥
103.
कर आदि
यथा फलेन
युज्येत राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य
नृपो राष्ट्रे कल्पयेत्सततं करान् ॥
७.१२८॥
104.
कर आदि
यथाल्पाल्पमदन्त्याद्यं
वार्योकोवत्सषट्पदाः ।
तथाल्पाल्पो
ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः ॥
७.१२९॥
105.
कर आदि
पञ्चाशद्भाग
आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानामष्टमो
भागः षष्ठो द्वादश एव वा ॥ ७.१३०॥
106.
कर आदि
आददीताथ
षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्धौषधिरसानां
च पुष्पमूलफलस्य च ॥ ७.१३१॥
107.
कर आदि
पत्रशाकतृणानां
च चर्मणां वैदलस्य च ।
मृन्मयानां
च भाण्डानां सर्वस्याश्ममयस्य च ॥ ७.१३२॥
108.
प्रजा का पालन
श्रुतवृत्ते
विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत्सर्वतश्चैनं
पिता पुत्रमिवाउरसम् ॥ ७.१३५॥
109.
कर आदि
यत्किं
चिदपि वर्षस्य दापयेत्करसंज्ञितम् ।
व्यवहारेण
जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ ७.१३७॥
110.
कर आदि
कारुकाञ्शिल्पिनश्चैव
शूद्रांस्चात्मोपजीविनः ।
एकैकं
कारयेत्कर्म मासि मासि महीपतिः ॥ ७.१३८॥
111.
कर आदि
नोच्छिन्द्यादात्मनो
मूलं परेषां चातितृष्णया ।
उच्छिन्दन्
ह्यात्मनो मूलमाट्मानं तांश्च पीदयेत् ॥ ७.१३९ ॥
१२. दिनचर्या
112.
दिनचर्या
तत्र
स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च
प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥
७.१४६ ॥
113.
दिनचर्या
गिरिपृष्ठं
समारुह्य प्रसादं वा रहोगतः ।
अरण्ये
निःशलाके वा मन्त्रयेदविभावितः ॥ ७.१४७ ॥
114.
दिनचर्या
यस्य
मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
स
कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः
॥ ७.१४८ ॥
115.
दिनचर्या
जडमूकान्धबधिरांस्तैर्यग्योनान्
वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत्
॥ ७.१४९ ॥
116.
दिनचर्या
भिन्दन्त्यवमता
मन्त्रं तैर्यग्योनास्तथैव च ।
स्त्रियश्चैव
विशेषेण तस्मात्तत्रादृतो भवेत् ॥ ७.१५० ॥
117.
दिनचर्या
मध्यंदिनेऽर्धरात्रे
वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्मकामार्थान्
सार्धं तैरेक एव वा ॥ ७.१५१ ॥
118.
दिनचर्या
परस्परविरुद्धानां
तेषां च समुपार्जनम् ।
कन्यानां
संप्रदानं च कुमाराणां च रक्षणं ॥ ७.१५२ ॥
119.
दिनचर्या
दूतसंप्रेषणं
चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं
च प्रणिधीनां च चेष्टितम् ॥ ७.१५३ ॥
120.
दिनचर्या
कृत्स्नं
चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ
च प्रचारं मण्डलस्य च ॥ ७.१५४ ॥
121.
दिनचर्या
मध्यमस्य
प्रचारं च विजीगिषोश्च चेष्टितम् ।
उदासीनप्रचारं
च शत्रोश्चैव प्रयत्नतः ॥ ७.१५५ ॥
122.
दिनचर्या
एताः
प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ
चान्याः समाख्याता द्वादशैव तु ताः स्मृताः
॥ ७.१५६ ॥
123.
दिनचर्या
अमात्यराष्ट्रदुर्गार्थ-
दण्डाख्याः पञ्च चापराः ।
प्रत्येकं
कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥
७.१५७ ॥
124.
दिनचर्या
अनन्तरमरिं
विद्यादरिसेविनमेव च ।
अरेरनन्तरं
मित्रमुदासीनं तयोः परम् ॥ ७.१५८ ॥
125.
दिनचर्या
तान्
सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः ।
व्यस्तैश्चैव
समस्तैश्च पौरुषेण नयेन च ॥ ७.१५९ ॥
126.
दिनचर्या
संधिं च
विग्रहं चैव यानमासनमेव च ।
द्वैधीभावं
संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ ७.१६०
॥
127.
दिनचर्या
आसनं चैव
यानं च संधिं विग्रहमेव च ।
कार्यं
वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥
७.१६१ ॥
128.
दिनचर्या
संधिं तु
द्विविधं विद्याद्राजा विग्रहमेव च ।
उभे
यानासने चैव द्विविधः संश्रयः स्मृतः ॥
७.१६२ ॥
129.
दिनचर्या
समानयानकर्मा
च विपरीतस्तथैव च ।
तदा
त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः
॥ ७.१६३ ॥
130.
दिनचर्या
स्वयंकृतश्च
कार्यार्थमकाले काल एव वा ।
मित्रस्य
चैवापकृते द्विविधो विग्रहः स्मृतः ॥
७.१६४ ॥
131.
दिनचर्या
एकाकिनश्चात्ययिके
कार्ये प्राप्ते यदृच्छया ।
संहतस्य च
मित्रेण द्विविधं यानमुच्यते ॥ ७.१६५ ॥
132.
दिनचर्या
क्षीणस्य
चैव क्रमशो दैवात्पूर्वकृतेन वा ।
मित्रस्य
चानुरोधेन द्विविधं स्मृतमासनम् ॥ ७.१६६ ॥
133.
दिनचर्या
बलस्य
स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ।
द्विविधं
कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥
७.१६७ ॥
134.
दिनचर्या
अर्थसंपादनार्थं
च पीड्यमानस्य शत्रुभिः ।
साधुषु
व्यपदेशश्च द्विविधः संश्रयः स्मृतः ॥
७.१६८ ॥
135.
दिनचर्या
यदावगच्छेदायत्यामाधिक्यं
ध्रुवमात्मनः ।
तदात्वे
चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९ ॥
136.
दिनचर्या
यदा
प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम्
।
अत्युच्छ्रितं
तथात्मानं तदा कुर्वीत विग्रहम् ॥ ७.१७० ॥
137.
दिनचर्या
यदा
मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य
विपरीतं च तदा यायाद्रिपुं प्रति ॥ ७.१७१
॥
138.
दिनचर्या
यदा तु
स्यात्परिक्षीणो वाहनेन बलेन च ।
तदासीत
प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥ ७.१७२॥
139.
दिनचर्या
मन्येतारिं
यदा राजा सर्वथा बलवत्तरम् ।
तदा
द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥
७.१७३ ॥
140.
दिनचर्या
यदा
परबलानां तु गमनीयतमो भवेत् ।
तदा तु
संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥
७.१७४ ॥
141.
दिनचर्या
निग्रहं
प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।
उपसेवेत
तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ ७.१७५ ॥
142.
दिनचर्या
यदि
तत्रापि संपश्येद्दोषं संश्रयकारितम् ।
सुयुद्धमेव
तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६ ॥
143.
दिनचर्या
सर्वोपायैस्तथा
कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका
न स्युर्मित्रोदासीनशत्रवः ॥ ७.१७७ ॥
144.
दिनचर्या
आयतिं
सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां
च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ७.१७८ ॥
145.
दिनचर्या
आयत्यां
गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
अतीते
कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ ७.१७९
॥
146.
दिनचर्या
यथैनं
नाभिसंदध्युर्मित्रोदासीनशत्रवः ।
तथा सर्वं
संविदध्यादेष सामासिको नयः ॥ ७.१८० ॥
147.
दिनचर्या
तदा तु
यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ।
तदानेन
विधानेन यायादरिपुरं शनैः ॥ ७.१८१ ॥
148.
दिनचर्या
अन्येष्वपि
तु कालेषु यदा पश्येद्ध्रुवं जयम् ।
तदा
यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥
७.१८३ ॥
149.
दिनचर्या
कृत्वा
विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं
चैव चारान् सम्यग्विधाय च ॥ ७.१८४ ॥
150.
दिनचर्या
संशोध्य
त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
सांपरायिककल्पेन
यायादरिपुरं प्रति ॥ ७.१८५ ॥
151.
दिनचर्या
शत्रुसेविनि
मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते
चैव स हि कष्टतरो रिपुः ॥ ७.१८६ ॥
152.
दिनचर्या
दण्डव्यूहेन
तन्मार्गं यायात्तु शकटेन वा ।
वराहमकराभ्यां
वा सूच्या वा गरुडेन वा ॥ ७.१८७ ॥
153.
दिनचर्या
यतश्च
भयमाशङ्केत्ततो विस्तारयेद्बलम् ।
पद्मेन
चैव व्यूहेन निविशेत सदा स्वयम् ॥ ७.१८८॥
154.
दिनचर्या
सेनापतिबलाध्यक्षौ
सर्वदिक्षु निवेशयेत् ।
यतश्च
भयमाशङ्केत्प्राचीं तां कल्पयेद्दिशम् ॥
७.१८९ ॥
155.
दिनचर्या
गुल्मांश्च
स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।
स्थाने
युद्धे च कुशलानभीरूनविकारिणः ॥ ७.१९० ॥
156.
दिनचर्या
संहतान्
योधयेदल्पान् कामं विस्तारयेद्बहून् ।
सूच्या
वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥
157.
दिनचर्या
स्यन्दनाश्वैः
समे युध्येदनूपे नौ द्विपैस्तथा ।
वृक्षगुल्मावृते
चापैरसिचर्मायुधैः स्थले ॥ ७.१९२ ॥
158.
दिनचर्या
प्रहर्षयेद्बलं
व्यूह्य तांश्च सम्यक्परीक्षयेत् ।
चेष्टाश्चैव
विजानीयादरीन् योधयतामपि ॥ ७.१९४ ॥
159.
दिनचर्या
उपरुध्यारिमासीत
राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य
सततं यवसान्नोदकेन्धनम् ॥ ७.१९५ ॥
160.
दिनचर्या
भिन्द्याच्चैव
तडागानि प्राकारपरिखास्तथा ।
समवस्कन्दयेच्चैनं
रात्रौ वित्रासयेत्तथा ॥ ७.१९६ ॥
161.
दिनचर्या
उपजप्यानुपजपेद्बुध्येतैव
च तत्कृतम् ।
युक्ते च
दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ ७.१९७ ॥
162.
दिनचर्या
साम्ना
दानेन भेदेन समस्तैरथ वा पृथक् ।
विजेतुं
प्रयतेतारीन्न युद्धेन कदा चन ॥ ७.१९८ ॥
163.
दिनचर्या
अनित्यो
विजयो यस्माद्दृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे
तस्माद्युद्धं विवर्जयेत् ॥ ७.१९९ ॥
164.
दिनचर्या
त्रयाणामप्युपायानां
पूर्वोक्तानामसंभवे ।
तथा
युध्येत संपन्नो विजयेत रिपून् यथा ॥
७.२०० ॥
165.
दिनचर्या
जित्वा
संपूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान्
।
प्रदद्यात्परिहारार्थं
ख्यापयेदभयानि च ॥ ७.२०१ ॥
166.
दिनचर्या
सर्वेषां
तु विदित्वैषां समासेन चिकीर्षितम् ।
स्थापयेत्तत्र
तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ ७.२०२॥
167.
दिनचर्या
प्रमाणानि
च कुर्वीत तेषां धर्मान् यथोदितान् ।
रत्नैश्च
पूजयेदेनं प्रधानपुरुषैः सह ॥ ७.२०३ ॥
168.
दिनचर्या
आदानमप्रियकरं
दानं च प्रियकारकम् ।
अभीप्सितानामर्थानां
काले युक्तं प्रशस्यते ॥ ७.२०४ ॥
169.
दिनचर्या
सर्वं
कर्मेदमायत्तं विधाने दैवमानुषे ।
तयोर्दैवमचिन्त्यं
तु मानुषे विद्यते क्रिया ॥ ७.२०५ ॥
170.
दिनचर्या
सह वापि
व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः ।
मित्रं
हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम्
॥ ७.२०६॥
171.
दिनचर्या
पार्ष्णिग्राहं
च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।
मित्रादथाप्यमित्राद्वा
यात्राफलमवाप्नुयात् ॥ ७.२०७ ॥
172.
दिनचर्या
हिरण्यभूमिसंप्राप्त्या
पार्थिवो न तथैधते ।
यथा
मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्
॥ ७.२०८॥
173.
दिनचर्या
धर्मज्ञं
च कृतज्ञं च तुष्टप्रकृतिमेव च ।
अनुरक्तं
स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ ७.२०९
॥
174.
दिनचर्या
प्राज्ञं
कुलीनं शूरं च दक्षं दातारमेव च ।
कृतज्ञं
धृतिमन्तं च कष्टमाहुररिं बुधाः ॥ ७.२१० ॥
175.
दिनचर्या
आर्यता
पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं
च सततमुदासीनगुणोदयः ॥ ७.२११ ॥
176.
दिनचर्या
क्सेम्यां
सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
परित्यजेन्नृपो
भूमिमात्मार्थमविचारयन् ॥ ७.२१२ ॥
177.
दिनचर्या
आपदर्थं
धनं रक्षेद्दारान् रक्षेद्धनैरपि ।
आत्मानं
सततं रक्षेद्दारैरपि धनैरपि ॥ ७.२१३ ॥
178.
दिनचर्या
सह सर्वाः
समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश्च
वियुक्तांश्च सर्वोपायान् सृजेद्बुधः ॥
७.२१४ ॥
179.
दिनचर्या
उपेतारमुपेयं
च सर्वोपायांश्च कृत्स्नशः ।
एतत्त्रयं
समाश्रित्य प्रयतेतार्थसिद्धये ॥ ७.२१५ ॥
180.
दिनचर्या
एवं
सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः
।
व्यायम्याप्लुत्य
मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ ७.२१६ ॥
181.
दिनचर्या
तत्रात्मभूतैः
कालज्ञैरहार्यैः परिचारकैः ।
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥ ७.२१७ ॥
182.
दिनचर्या
विषघ्नैरगदैश्चास्य
सर्वद्रव्याणि योजयेत् ।
विषघ्नानि
च रत्नानि नियतो धारयेत्सदा ॥ ७.२१८ ॥
183.
दिनचर्या
परीक्षिताः
स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंशुद्धाः
स्पृशेयुः सुसमाहिताः ॥ ७.२१९ ॥
184.
दिनचर्या
एवं
प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने
प्रसाधने चैव सर्वालङ्कारकेषु च ॥ ७.२२० ॥
185.
दिनचर्या
भुक्तवान्
विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।
विहृत्य
तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥
186.
दिनचर्या
अलंकृतश्च
संपश्येदायुधीयं पुनर्जनम् ।
वाहनानि च
सर्वाणि शस्त्राण्याभरणानि च ॥ ७.२२२॥
187.
दिनचर्या
संध्यां चोपास्य
शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां
चैव प्रणिधीनां च चेष्टितम् ॥ ७.२२३ ॥
188.
दिनचर्या
गत्वा
कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् ।
प्रविशेद्भोजनार्थं
च स्त्रीवृतोऽन्तःपुरं पुनः ॥ ७.२२४ ॥
189.
दिनचर्या
तत्र
भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः
।
संविशेत्तं
यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ ७.२५५ ॥
190.
समाप्ति
एतद्विधानमातिष्ठेदरोगः
पृथिवीपतिः ।
अस्वस्थः
सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ ७.२२६ ॥
Comments
Post a Comment