मनुस्मृति २५-११-२०१९
अध्याय १०
राज्य कंटक शोधन एवं विविध विधि
प्रकरण
1. राज्य के इच्छानुसार दण्ड
प्रच्छन्नं
वा प्रकाशं वा तन्निषेवेत यो नरः ।
तस्य
दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ॥
९.२२८ ॥
2. स्त्रीबालादिदण्डे
स्त्रीबालोन्मत्तवृद्धानां
दरिद्राणां च रोगिणाम् ।
शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम् ॥ ९.२३० ॥
3. उत्कोचद्वाराकार्यहानि
ये
नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् ।
धनोष्मणा
पच्यमानास्तान्निःस्वान् कारयेन्नृपः ॥
९.२३१ ॥
4. कूटशासनस्त्रीबालब्राह्मणघ्नांश्च
कूटशासनकर्तॄंश्च
प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश्च
हन्याद्द्विट्सेविनस्तथा ॥ ९.२३२ ॥
5. पुनःनिर्णय
तीरितं
चानुशिष्टं च यत्र क्व चन यद्भवेत् ।
कृतं
तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ ९.२३३ ॥
6. अधर्म पूर्वक किये गए कार्य को
ठीक करना
अमात्याः
प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा ।
तत्स्वयं
नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥ ९.२३४ ॥
7. अधर्म से दण्ड
यावानवध्यस्य
वधे तावान् वध्यस्य मोक्षणे ।
अधर्मो
नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥
९.२४९ ॥
8. -धर्म युक्त शासन
एवं
धर्म्याणि कार्याणि सम्यक्कुर्वन्महीपतिः
।
देशानलब्धांल्लिप्सेत
लब्धांश्च परिपालयेत् ॥ ९.२५१ ॥
9. -कंटक निवारण
सम्यङ्निविष्टदेशस्तु
कृतदुर्गश्च शास्त्रतः ।
कण्टकोद्धरणे
नित्यमातिष्ठेद्यत्नमुत्तमम् ॥ ९.२५२ ॥
10.-कंटक शोधन राज्य का कर्म
रक्षनादार्यवृत्तानां
कण्टकानां च शोधनात् ।
नरेन्द्रास्त्रिदिवं
यान्ति प्रजापालनतत्पराः ॥ ९.२५३ ॥
11.-कंटक निग्रह नहीं करने पर
राज्य की अवनती
अशासंस्तस्करान्
यस्तु बलिं गृह्णाति पार्थिवः ।
तस्य
प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते
॥ ९.२५४ ॥
12.-निर्भय राज्य की उन्नति
निर्भयं
तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् ।
तस्य
तद्वर्धते नित्यं सिच्यमान इव द्रुमः ॥
९.२५५ ॥
13.-प्रत्यक्ष था परोक्ष चोर का
ज्ञान
द्विविधांस्तस्करान्
विद्यात्परद्रव्यापहारकान् ।
प्रकाशांश्चाप्रकाशांश्च
चारचक्षुर्महीपतिः ॥ ९.२५६ ॥
14.-प्रत्यक्ष तथा परोक्ष चोर का
लक्षण
प्रकाशवञ्चकास्तेषां
नानापण्योपजीविनः ।
प्रच्छन्नवञ्चकास्त्वेते
ये स्तेनाटविकादयः ॥ ९.२५७ ॥
15.-परोक्ष चोर
उत्कोचकाश्चाउपधिका
वञ्चकाः कितवास्तथा ।
मङ्गलादेशवृत्ताश्च
भद्राश्चेक्षणिकैः सह ॥ ९.२५८ ॥
16.-परोक्ष चोर
असम्यक्कारिणश्चैव
महामात्राश्चिकित्सकाः ।
शिल्पोपचारयुक्ताश्च
निपुणाः पण्ययोषितः ॥ ९.२५९ ॥
17.-चोरो का पता लगाना
एवमादीन्
विजानीयात्प्रकाशांल्लोककण्टकान् ।
निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ ९.२६० ॥
18.-गुप्तचर का प्रयोग
तान्
विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः ।
चारैश्चानेकसंस्थानैः
प्रोत्साद्य वशमानयेत् ॥ ९.२६१ ॥
19.-दोषानुसार दण्ड की व्यवस्था
तेषां
दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः
।
कुर्वीत
शासनं राजा सम्यक्सारापराधतः ॥ ९.२६२ ॥
20.-चौर्य कर्म के निग्रह में दण्ड
का प्रयोग
न हि
दण्डादृते शक्यः कर्तुं पापविनिग्रहः ।
स्तेनानां
पापबुद्धीनां निभृतं चरतां क्षितौ ॥ ९.२६३
॥
21.-चौरो का अन्वेषण
सभाप्रपापूपशाला-
वेशमद्यान्नविक्रयाः ।
चतुष्पथांश्चैत्यवृक्षाः
समाजाः प्रेक्षणानि च ॥ ९.२६४ ॥
22.-समायोजित
जीर्णोद्यानान्यरण्यानि
कारुकावेशनानि च ।
शून्यानि
चाप्यगाराणि वनान्युपवनानि च ॥ ९.२६५ ॥
23.-समायोजित
एवंविधान्नृपो
देशान् गुल्मैः स्थावरजङ्गमैः ।
तस्करप्रतिषेधार्थं
चारैश्चाप्यनुचारयेत् ॥ ९.२६६ ॥
24.-चोरो का पता लगाने के उपाय
तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः ।
विद्यादुत्सादयेच्चैव
निपुणैः पूर्वतस्करैः ॥ ९.२६७ ॥
25.-चोरो को पकड़ने के उपाय
भक्ष्यभोज्योपदेशैश्च
ब्राह्मणानां च दर्शनैः ।
शौर्यकर्मापदेशैश्च
कुर्युस्तेषां समागमम् ॥ ९.२६८ ॥
26.-गुप्तचरों द्वारा चोरो का
निग्रह
ये तत्र
नोपसर्पेयुर्मूलप्रणिहिताश्च ये ।
तान्
प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान्
॥ ९.२६९ ॥
27.-चुराए गए धन का पता न लगने पर
न होढेन
विना चौरं घातयेद्धार्मिको नृपः ।
सहोढं
सोपकरणं घातयेदविचारयन् ॥ ९.२७० ॥
28.-चोरो के आश्रयदाताओ को दण्ड
ग्रामेष्वपि
च ये के चिच्चौराणां भक्तदायकाः ।
भाण्डावकाशदाश्चैव
सर्वांस्तानपि घातयेत् ॥ ९.२७१ ॥
29.-अपराधी सीमा रक्षको को दण्ड
राष्ट्रेषु
रक्षाधिकृतान् सामन्तांश्चैव चोदितान् ।
अभ्याघातेषु
मध्यस्थाञ्शिष्याच्चौरानिव द्रुतम् ॥
९.२७२ ॥
30.-चोर उपद्रव में सहायक न होने
वालो का उपाय
ग्रामघाते
हिताभङ्गे पथि मोषाभिदर्शने ।
शक्तितो
नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥
९.२७४ ॥
31.-राजकोष के चोर आदि को दण्ड
राज्ञः
कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् ।
घातयेद्विविधैर्दण्डैररीणां
चोपजापकान् ॥ ९.२७५ ॥
32.-सेंध मारने वाले चोर को दण्ड
संधिं
छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः
।
तेषां
छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६ ॥
33.-गिरहकट चोर को दण्ड
अङ्गुलीर्ग्रन्थिभेदस्य
छेदयेत्प्रथमे ग्रहे ।
द्वितीये
हस्तचरणौ तृतीये वधमर्हति ॥ ९.२७७ ॥
34.-चौरो के सहायको को दण्ड
अग्निदान्
भक्तदांश्चैव तथा शस्त्रावकाशदान् ।
संनिधातॄंश्च
मोषस्य हन्याच्चौरमिवेश्वरः ॥ ९.२७८ ॥
35.-
तडागभेदकं पर दण्ड
तडागभेदकं
हन्यादप्सु शुद्धवधेन वा ।
यद्वापि
प्रतिसंस्कुर्याद्दाप्यस्तूत्तमसाहसम् ॥
९.२७९ ॥
36.-
कोष्ठागारायुधागार को तोड़ने
पर दण्ड
कोष्ठागारायुधागार-
देवतागारभेदकान् ।
हस्त्यश्वरथहर्तॄंश्च
हन्यादेवाविचारयन् ॥ ९.२८० ॥
37.-व्यक्तिगत तड़ाग तोड़ने पर दण्ड
यस्तु
पूर्वनिविष्टस्य तडागस्योदकं हरेत् ।
आगमं
वाप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम्
॥ ९.२८१ ॥
38.-राजमार्ग को गन्दा करने पर
दण्ड
समुत्सृजेद्राजमार्गे
यस्त्वमेध्यमनापदि ।
स द्वौ
कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ ९.२८२ ॥
39.-राजमार्ग को गन्दा करने पर
सफाई करवाना
आपद्गतोऽथ
वा वृद्धा गर्भिणी बाल एव वा ।
परिभाषणमर्हन्ति
तच्च शोध्यमिति स्थितिः ॥ ९.२८३ ॥
40.-चिकिस्सक को दण्ड
चिकित्सकानां
सर्वेषां मिथ्याप्रचरतां दमः ।
अमानुषेषु
प्रथमो मानुषेषु तु मध्यमः ॥ ९.२८४ ॥
41.-संक्रम आदि को तोड़ने पर दण्ड
संक्रमध्वजयष्टीनां
प्रतिमानां च भेदकः ।
प्रतिकुर्याच्च
तत्सर्वं पञ्च दद्याच्छतानि च ॥ ९.२८५ ॥
42.-शुद्द पदार्थ को दूषित करने पर
दण्ड
अदूषितानां
द्रव्याणां दूषणे भेदने तथा ।
मणीनामपवेधे
च दण्डः प्रथमसाहसः ॥ ९.२८६ ॥
43.-विषम व्यवहार करने पर दण्ड
समैर्हि
विषमं यस्तु चरेद्वै मूल्यतोऽपि वा ।
समाप्नुयाद्दमं
पूर्वं नरो मध्यममेव वा ॥ ९.२८७ ॥
44.-बंधन ग्रह को राजमार्ग के पास
बनवाना
बन्धनानि
च सर्वाणि राजा मार्गे निवेशयेत् ।
दुःखिता
यत्र दृश्येरन् विकृताः पापकारिणह् ॥ ९.२८८ ॥
45.-सार्वजनिक संपत्ति के नुक्सान
पर दण्ड
प्राकारस्य
च भेत्तारं परिखाणां च पूरकम् ।
द्वाराणां
चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥ ९.२८९ ॥
46.-अभिचार कर्म करने वालो को दण्ड
अभिचारेषु
सर्वेषु कर्तव्यो द्विशतो दमः ।
मूलकर्मणि
चानाप्तेः कृत्यासु विविधासु च ॥ ९.२९० ॥
47.-दूषित बीज बेचने पर दण्ड
अबीजविक्रयी
चैव बीजोत्कृष्टा तथैव च ।
मर्यादाभेदकश्चैव
विकृतं प्राप्नुयाद्वधम् ॥ ९.२९१ ॥
48.-चोर सुनार को दण्ड
सर्वकण्टकपापिष्ठं
हेमकारं तु पार्थिवः ।
प्रवर्तमानमन्याये
छेदयेल्लवशः क्षुरैः ॥ ९.२९२ ॥
49.-खेती के साधन चुराने पर दण्ड
सीताद्रव्यापहरणे
शस्त्राणामौषधस्य च ।
कालमासाद्य
कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ९.२९३ ॥
50.-`सप्तांग राज्य
स्वाम्यमात्यौ
पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा ।
सप्त
प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते
॥ ९.२९४ ॥
51.-प्रकृति की श्रेष्टता
सप्तानां
प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
पूर्वं
पूर्वं गुरुतरं जानीयाद्व्यसनं महत् ॥ ९.२९५ ॥
52.-प्रकृतियो की समानता
सप्ताङ्गस्येह
राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशेष्यान्न
किं चिदतिरिच्यते ॥ ९.२९६ ॥
53.-प्रकृति का महत्व
तेषु तेषु
तु कृत्येषु तत्तदङ्गं विशिष्यते ।
येन
यत्साध्यते कार्यं तत्तस्मिञ्श्रेष्ठमुच्यते
॥ ९.२९७ ॥
54.-स्वपर शक्ति का ज्ञान
चारेणोत्साहयोगेन
क्रिययैव च कर्मणाम् ।
शक्तिं
परशक्तिं च नित्यं विद्यान्महीपतिः ॥
९.२९८ ॥
55.-दुसरे राज्य की कमी
पीडनानि च
सर्वाणि व्यसनानि तथैव च ।
आरभेत ततः
कार्यं संचिन्त्य गुरुलाघवम् ॥ ९.२९९ ॥
56.-उधोगशीलता का महत्व
आरभेतैव
कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
कर्माण्यारभमाणं
हि पुरुषं श्रीर्निषेवते ॥ ९.३०० ॥
57.-उधोगशीलता का महत्व
कृतं
त्रेतायुगं चैव द्वापरं कलिरेव च ।
राज्ञो
वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥
९.३०१ ॥
58.-उधोगशीलता का महत्व
कलिः
प्रसुप्तो भवति स जाग्रद्द्वापरं युगम् ।
कर्मस्वभ्युद्यतस्त्रेता
विचरंस्तु कृतं युगम् ॥ ९.३०२ ॥
59.राजा का आचरण
इन्द्रस्यार्कस्य
वायोश्च यमस्य वरुणस्य च ।
चन्द्रस्याग्नेः
पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ ९.३०३ ॥
60.–इंद्र व्रत
वार्षिकांश्चतुरो
मासान् यथेन्द्रोऽभिप्रवर्षति ।
तथाभिवर्षेत्स्वं
राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥ ९.३०४ ॥
61.-सूर्य व्रत
अष्टौ
मासान् यथादित्यस्तोयं हरति रश्मिभिः ।
तथा
हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ ९.३०५ ॥
62.-वायु व्रत
प्रविश्य
सर्वभूतानि यथा चरति मारुतः ।
तथा चारैः
प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ ९.३०६
॥
63.-यम व्रत
यथा यमः
प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा
राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम्
॥ ९.३०७ ॥
64.–वरुण व्रत
वरुणेन
यथा पाशैर्बद्ध एवाभिदृश्यते ।
तथा
पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥
९.३०८ ॥
65.–चन्द्र व्रत
परिपूर्णं
यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
तथा
प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥
९.३०९ ॥
66.-आग्नेय व्रत
प्रतापयुक्तस्तेजस्वी
नित्यं स्यात्पापकर्मसु ।
दुष्टसामन्तहिंस्रश्च
तदाग्नेयं व्रतं स्मृतम् ॥ ९.३१० ॥
67.-
पार्थिवं व्रतम्
यथा
सर्वाणि भूतानि धरा धारयते समम् ।
तथा
सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥
९.३११ ॥
68.-चौरो का निग्रह
एतैरुपायैरन्यैश्च
युक्तो नित्यमतन्द्रितः ।
स्तेनान्
राजा निगृह्णीयात्स्वराष्ट्रे पर एव च ॥
९.३१२ ॥
69.-विधि की समाप्ति
एषोऽखिलः
कर्मविधिरुक्तो राज्ञः सनातनः ।
इमं कर्मविधिं
विद्यात्क्रमशो वैश्यशूद्रयोः ॥ ९.३२५ ॥
वैश्य कला
70.रत्नों का परिक्षण
मणिमुक्ताप्रवालानां
लोहानां तान्तवस्य च ।
गन्धानां
च रसानां च विद्यादर्घबलाबलम् ॥ ९.३२९ ॥
71.माप तौल रीति का ज्ञान
बीजानामुप्तिविच्च
स्यात्क्षेत्रदोषगुणस्य च ।
मानयोगं च
जानीयात्तुलायोगांश्च सर्वशः ॥ ९.३३० ॥
72.वस्तु की पहचान
सारासारं
च भाण्डानां देशानां च गुणागुणान् ।
लाभालाभं
च पण्यानां पशूनां परिवर्धनम् ॥ ९.३३१ ॥
73.वस्तु की पहचान
भृत्यानां
च भृतिं विद्याद्भाषाश्च विविधा नृणां ।
द्रव्याणां
स्थानयोगांश्च क्रयविक्रयमेव च ॥ ९.३३२ ॥
74.तौल
लोकसंव्यवहारार्थं
याः संज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां
ताः प्रवक्ष्याम्यशेषतः ॥ ८.१३१ ॥
75.त्रसरेणु
जालान्तरगते
भानौ यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं
तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥
८.१३२ ॥
76.गौर सर्षेप
त्रसरेणवोऽष्टौ
विज्ञेया लिक्षैका परिमाणतः ।
ता
राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥
८.१३३ ॥
77.तौल
सर्षपाः
षड्यवो मध्यस्त्रियवं त्वेककृष्णलम्।
पञ्चकृष्णलको
माषस्ते सुवर्णस्तु षोडश ॥ ८.१३४ ॥
78.तौल
पलं
सुवर्णाश्चत्वारः पलानि धरणं दश ।
द्वे
कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥
८.१३५ ॥
79.तौल
ते षोडश
स्याद्धरणं पुराणश्चैव राजतः ।
कार्षापणस्तु
विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ ८.१३६ ॥
80.तौल
धरणानि दश
ज्ञेयः शतमानस्तु राजतः ।
तुःसौवर्णिको
निष्को विज्ञेयस्तु प्रमाणतः ॥ ८.१३७ ॥
81.तौल
पणानां
द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः
पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥
८.१३८ ॥
82.राजा की दुर्बलता
अनादेयस्य
चादानादादेयस्य च वर्जनात् ।
दौर्बल्यं
ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥
८.१७१ ॥
83.राजा की सार्थकता
स्वादानाद्वर्णसंसर्गात्त्वबलानां
च रक्षणात् ।
बलं
संजायते राज्ञः स प्रेत्येह च वर्धते ॥
८.१७२ ॥
84.राजा की सार्थकता
तस्माद्यम
इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ ८.१७३ ॥
85.राजा की दुर्बलता
यस्त्वधर्मेण
कार्याणि मोहात्कुर्यान्नराधिपः ।
अचिरात्तं
दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ८.१७४
॥
86.विधि शासन का लाभ
कामक्रोधौ
तु संयम्य योऽर्थान् धर्मेण पश्यति ।
प्रजास्तमनुवर्तन्ते
समुद्रमिव सिन्धवः ॥ ८.१७५ ॥
87.विवाद निर्णय में साक्षी,
प्रमाणों का उपयोग
अनेन
विधिना राजा मिथो विवदतां नृणाम् ।
साक्षिप्रत्ययसिद्धानि
कार्याणि समतां नयेत् ॥ ८.१७८ ॥
88.अपराध रहित राज्य
यस्य
स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न
साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६ ॥
89.-अपराध रहित राज्य
एतेषां
निग्रहो राज्ञः पञ्चानां विषये स्वके ।
सांराज्यकृत्सजात्येषु
लोके चैव यशस्करः ॥ ८.३८७ ॥
90.पुरोहित तथा यजमान का त्याग
करने पर दण्ड
ऋत्विजं
यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि
।
शक्तं
कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥
८.३८८ ॥
91.माता पिता का त्याग करने पर
दण्ड
न माता न
पिता न स्त्री न पुत्रस्त्यागमर्हति ।
त्यजन्नपतितानेतान्
राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥
92.कर ग्रहण से मुक्त व्यक्ति
अन्धो जडः
पीठसर्पी सप्तत्या स्थविरश्च यः ।
श्रोत्रियेषूपकुर्वंश्च
न दाप्याः केन चित्करम् ॥ ८.३९४ ॥
93.बालवृद्धावकिंचनम्
श्रोत्रियं
व्याधितार्तौ च बालवृद्धावकिंचनम् ।
महाकुलीनमार्यं
च राजा संपूजयेत्सदा ॥ ८.३९५ ॥
94.धोबी के कपडे धोने का विधान
शाल्मलीफलके
श्लक्ष्णे नेनिज्यान्नेजकः शनैः ।
न च
वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ ८.३९६ ॥
95.बुनकर द्वारा कपडे बनाने का
विधान
तन्तुवायो
दशपलं दद्यादेकपलाधिकम् ।
अतोऽन्यथा
वर्तमानो दाप्यो द्वादशकं दमम् ॥ ८.३९७ ॥
96.विक्रय कर
शुल्कस्थानेषु
कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युरर्घं
यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥
97.निषिद्ध वस्तु का निर्यात
राज्ञः
प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
ताणि
निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥
८.३९९ ॥
98.असमय विक्रय करने पर दण्ड
शुल्कस्थानं
परिहरन्नकाले क्रयविक्रयी ।
मिथ्यावादी
च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ ८.४००
॥
99.विदेश में विक्रय करने का
मूल्य निर्णय
आगमं
निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
विचार्य
सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ ८.४०१
॥
100.
मूल्य निर्धारण
पञ्चरात्रे
पञ्चरात्रे पक्षे पक्षेऽथ वा गते ।
कुर्वीत
चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥
८.४०२ ॥
101.
तराजू बाट आदि की जांच
तुलामानं
प्रतीमानं सर्वं च स्यात्सुलक्षितम् ।
षट्सु
षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ८.४०३ ॥
102.
नाव का भाड़ा
पणं यानं
तरे दाप्यं पौरुषोऽर्धपणं तरे ।
पादं
पशुश्च योषिच्च पादार्धं रिक्तकः पुमान् ॥
८.४०४ ॥
103.
भाड़ा में राहत
भाण्डपूर्णानि
यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि
यत्किं चित्पुमांसश्चापरिच्छदाः ॥ ८.४०५ ॥
104.
उचित भाड़ा
दीर्घाध्वनि
यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु
तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥
८.४०६ ॥
105.
भाड़े से मुक्ति
गर्भिणी
तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।
ब्राह्मणा
लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥
८.४०७ ॥
106.
मल्लाह के दोष से सामान नष्ट होने पर दण्ड
यन्नावि
किं चिद्दाशानां विशीर्येतापराधतः ।
तद्दाशैरेव
दातव्यं समागम्य स्वतोऽशतः ॥ ८.४०८ ॥
107.
मल्लाह के दोष से सामान नष्ट होने पर दण्ड
एष
नौयायिनामुक्तो व्यवहारस्य निर्णयः ।
दाशापराधतस्तोये
दैविके नास्ति निग्रहः ॥ ८.४०९ ॥
108.
भरण पोषण करना
क्षत्रियं
चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
बिभृयादानृशंस्येन
स्वानि कर्माणि कारयेत् ॥ ८.४११ ॥
109.
भरण पोषण करना
दास्यं तु
कारयंल्लोभाद्ब्राह्मणः संस्कृतान् द्विजान्
।
अनिच्छतः
प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥
110.
दासो के प्रकार
ध्वजाहृतो
भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैत्रिको
दण्डदासश्च सप्तैते दासयोनयः ॥ ८.४१५ ॥
111.
प्रतिदिन आय व्यव का निरीक्षण
अहन्यहन्यवेक्षेत
कर्मान्तान् वाहनानि च ।
आयव्ययौ च
नियतावाकरान् कोशमेव च ॥ ८.४१९ ॥
112.
राज्य का परम कर्त्तव्य
एवं
सर्वानिमान् राजा व्यवहारान् समापयन् ।
व्यपोह्य
किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥
८.४२० ॥
113.
भय मुक्त वातावरण
अभयस्य हि
यो दाता स पूज्यः सततं नृपः ।
सत्त्रं
हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ८.३०३ ॥
114.
सुरक्षा कर
सर्वतो
धर्मषड्भागो राज्ञो भवति रक्षतः ।
अधर्मादपि
षड्भागो भवत्यस्य ह्यरक्षतः ॥ ८.३०४ ॥
115.
सुरक्षा कर
यदधीते
यद्यजते यद्ददाति यदर्चति ।
तस्य
षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ ८.३०५ ॥
116.
दण्ड का न्याय से प्रयोग
रक्षन्
धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
यजतेऽहरहर्यज्ञैः
सहस्रशतदक्षिणैः ॥ ८.३०६ ॥
117.
अधर्म कर ग्रहण
योऽरक्षन्
बलिमादत्ते करं शुल्कं च पार्थिवः ।
प्रतिभागं
च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥
118.
सुरक्षा कर
अरक्षितारं
राजानं बलिषड्भागहारिणम् ।
तमाहुः
सर्वलोकस्य समग्रमलहारकम् ॥ ८.३०८ ॥
119.
अधर्मं से कर संग्रह
अनपेक्षितमर्यादं
नास्तिकं विप्रलुंपकम् ।
अरक्षितारमत्तारं
नृपं विद्यादधोगतिम् ॥ ८.३०९ ॥
120.
अपराधियों का निग्रह –आसेध
अधार्मिकं
त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः ।
निरोधनेन
बन्धेन विविधेन वधेन च ॥ ८.३१० ॥
121.
अपराधियों का निग्रह –आसेध
निग्रहेण
हि पापानां साधूनां संग्रहेण च ।
द्विजातय
इवेज्याभिः पूयन्ते सततं नृपाः ॥ ८.३११ ॥
122.
शान्ति स्थापना
क्षन्तव्यं
प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम्
।
बालवृद्धातुराणां
च कुर्वता हितमात्मनः ॥ ८.३१२ ॥
123.
शान्ति स्थापना
यः
क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते
।
यस्त्वैश्वर्यान्न
क्षमते नरकं तेन गच्छति ॥ ८.३१३ ॥
124.
विवाद पदों की वर्णन की समाप्ति
उदितोऽयं
विस्तरशो मिथो विवादमानयोः ।
अष्टादशसु
मार्गेषु व्यवहारस्य निर्णयः ॥ ९.२५० ॥
Comments
Post a Comment