मनुस्मृति २५-११-२०१९

अध्याय ३



१. अध्ययन की समाप्ति

1.      गृहस्थाश्रमवासमाह

वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् 
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२ ॥

2.      गृहीतवेदस्यपित्रादिभिःपूजनं

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः 
स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा  ॥ ३.३ ॥

3.      कृतसमावर्तनोविवाहंकुर्यात

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि 
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम्  ॥ ३.४ ॥

२. योग्य कन्या


4.      असपिंडाधाविवाह्या

असपिण्डा च या मातुरसगोत्रा च या पितुः 
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने  ॥ ३.५ ॥

5.      कन्यालक्षणम

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् 
तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम्  ॥ ३.१० ॥

6.      सवर्णास्त्रीप्रशस्ता

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि 
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः  ॥ ३.१२ ॥

३. विवाह भेद

7.      अष्टोविवाहप्रकारा:

चतुर्णामपि वर्णानं प्रेत्य चेह हिताहितान् 
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत  ॥ ३.२० ॥

8.      अष्टोविवाहप्रकारा:

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः 
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः  ॥ ३.२१ ॥

9.      पैशाचासुरविवाहनिन्दा

पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह 
पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन  ॥ ३.२५ ॥

10.अथःब्रह्मविवाहलक्षण

आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् 
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः  ॥ ३.२७ ॥

11.दैवविवाहलक्षण

यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते 
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते  ॥ ३.२८ ॥

12.आर्षविवाहलक्षण

एकं गोमिथुनं द्वे वा वरादादाय धर्मतः 
कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते  ॥ ३.२९ ॥

13.प्राजापत्यविवाहलक्षण

सहोभौ चरतां धर्ममिति वाचानुभाष्य च 
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः  ॥ ३.३० ॥

14.आसुरविवाहलक्षण

ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः 
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते  ॥ ३.३१ ॥

15.गान्धर्वविवाहलक्षण

इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च 
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः  ॥ ३.३२ ॥

16.राक्षसविवाहलक्षण

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते  ॥ ३.३३ ॥

17.पैशाचविवाहलक्षण

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति 
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः  ॥ ३.३४ ॥

18.जलदान पूर्वक विवाह

अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते 
इतरेषां तु वर्णानामितरेतरकाम्यया  ॥ ३.३५ ॥

19.निन्दितविवाहे निन्दित प्रजोत्त्पत्ति

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः 
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः  ॥ ३.४१ ॥

20.कन्याविक्रयेनिषेध

न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि 
गृह्णञ्शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी  ॥ ३.५१ ॥

21.स्त्रीधनग्रहणेदोषः

स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः 
नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्  ॥ ३.५२ ॥

४. दाम्पत्यजीवन

22.ऋतुगमनकाल

ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा 
पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया  ॥ ३.४५ ॥

23.ऋतुकालअवधि

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः 
चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः  ॥ ३.४६ ॥

24.निन्दितकाल

तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या 
त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः  ॥ ३.४७ ॥

25.युग्मतिथौपुत्रोत्त्त्पत्ति

युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु 
तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्  ॥ ३.४८ ॥

26.स्त्रीपुनपुंसकोत्त्पतिहेतुमाह

पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः 
समेऽपुमान् पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः  ॥ ३.४९ ॥

27.वानप्रस्थस्यापि ऋतुगमनमाह

निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् 
ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन्  ॥ ३.५० ॥

28.पूज्या भूषयितव्या

पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा 
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः  ॥ ३.५५ ॥

29.कन्यादीपूजनमफलम

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः 
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः  ॥ ३.५६ ॥

30.न शोचन्ति वर्धते सर्वदा

शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् 
न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा  ॥ ३.५७ ॥

31.विनश्यन्तिगृह

जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः 
तानि कृत्याहतानीव विनश्यन्ति समन्ततः  ॥ ३.५८ ॥

32.उत्स्वेषु विशेषतः पूज्या

तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः 
भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च  ॥ ३.५९ ॥

33.दम्पत्योसन्तोषफलम

संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च 
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्  ॥ ३.६० ॥

34.स्त्रियोंअलंकारादिदानादाने

यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते  ॥ ३.६१ ॥

35.पत्निसंतुष्टिफलम

स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलं 
तस्यां त्वरोचमानायां सर्वमेव न रोचते  ॥ ३.६२ ॥

36.कुलोत्क्रर्ष कर्माह

मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि 
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः  ॥ ३.६६ ॥

37.गृहस्थाश्रमप्रशंसा

यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः 
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः  ॥ ३.७७ ॥

38.गृहस्थमहत्त्व

यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् 
गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही  ॥ ३.७८ ॥

39.दिधिषुपतिलक्षणमाह

भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः 
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः  ॥ ३.१७३ ॥

40.कुंडगोलकवाह

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ 
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः  ॥ ३.१७४॥

५. पञ्च महायज्ञ का अनुष्ठान

41.पञ्चमहायज्ञअनुष्ठान

वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि 
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही  ॥ ३.६७ ॥

42.पञ्चयाज्ञानाह

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् 
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्  ॥ ३.७० ॥

43.निन्दितेमनुष्या

देवतातिथिभृत्यानां पितॄणामात्मनश्च यः 
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति  ॥ ३.७२॥

44.पञ्चमहायज्ञअनुष्ठानफलंम

एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति 
स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना  ॥ ३.९३॥

45.अतिथिसत्कारे

संप्राप्ताय त्वतिथये प्रदद्यादासनोदके 
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम्  ॥ ३.९९ ॥

46.यथाशक्ति भोजयेत

इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान् 
प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया  ॥ ३.११३ ॥

47.प्रथमकुमारीश् रोगिणो गर्भिणीः स्त्रियः

सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः 
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन्  ॥ ३.११४ ॥

48.गृह्त्स्यप्रथमभोजननिषेध

अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः 
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः  ॥ ३.११५॥

49.दम्पत्योःसर्वशेषेणभोजनं

भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि 
भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती  ॥ ३.११६॥

50.आत्मार्थपाक निषेध

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते  ॥ ३.११८ ॥

51.वेदेषुलक्षणं

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च 
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः  ॥ ३.१८४॥

52.वेदेषुलक्षणं

त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च  ॥ ३.१८५ ॥




Comments

Popular posts from this blog