मनुस्मृति २५-११-२०१९
अध्याय ३
१. अध्ययन की समाप्ति
1. गृहस्थाश्रमवासमाह
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२ ॥
2. गृहीतवेदस्यपित्रादिभिःपूजनं
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा ॥ ३.३ ॥
3. कृतसमावर्तनोविवाहंकुर्यात
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ ३.४ ॥
२. योग्य कन्या
4. असपिंडाधाविवाह्या
असपिण्डा च या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ ३.५ ॥
5. कन्यालक्षणम
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम् ॥ ३.१० ॥
6. सवर्णास्त्रीप्रशस्ता
सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥ ३.१२ ॥
३. विवाह भेद
7. अष्टोविवाहप्रकारा:
चतुर्णामपि वर्णानं प्रेत्य चेह हिताहितान् ।
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥ ३.२० ॥
8. अष्टोविवाहप्रकारा:
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ ३.२१ ॥
9. पैशाचासुरविवाहनिन्दा
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ।
पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन ॥ ३.२५ ॥
10.अथःब्रह्मविवाहलक्षण
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७ ॥
11.दैवविवाहलक्षण
यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते ।
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ ३.२८ ॥
12.आर्षविवाहलक्षण
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥ ३.२९ ॥
13.प्राजापत्यविवाहलक्षण
सहोभौ चरतां धर्ममिति वाचानुभाष्य च ।
कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३.३० ॥
14.आसुरविवाहलक्षण
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ ३.३१ ॥
15.गान्धर्वविवाहलक्षण
इच्छयान्योन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ ३.३२ ॥
16.राक्षसविवाहलक्षण
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३.३३ ॥
17.पैशाचविवाहलक्षण
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ॥ ३.३४ ॥
18.जलदान पूर्वक विवाह
अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
इतरेषां तु वर्णानामितरेतरकाम्यया ॥ ३.३५ ॥
19.निन्दितविवाहे निन्दित
प्रजोत्त्पत्ति
इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ३.४१ ॥
20.कन्याविक्रयेनिषेध
न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि ।
गृह्णञ्शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥ ३.५१ ॥
21.स्त्रीधनग्रहणेदोषः
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ ३.५२ ॥
४. दाम्पत्यजीवन
22.ऋतुगमनकाल
ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥ ३.४५ ॥
23.ऋतुकालअवधि
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥ ३.४६ ॥
24.निन्दितकाल
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या ।
त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ ३.४७ ॥
25.युग्मतिथौपुत्रोत्त्त्पत्ति
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥ ३.४८ ॥
26.स्त्रीपुनपुंसकोत्त्पतिहेतुमाह
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।
समेऽपुमान् पुं स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः ॥ ३.४९ ॥
27.वानप्रस्थस्यापि ऋतुगमनमाह
निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।
ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ ३.५० ॥
28.पूज्या भूषयितव्या
पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ ३.५५ ॥
29.कन्यादीपूजनमफलम
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ३.५६ ॥
30.न शोचन्ति वर्धते सर्वदा
शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।
न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा ॥ ३.५७ ॥
31.विनश्यन्तिगृह
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ३.५८ ॥
32.उत्स्वेषु विशेषतः पूज्या
तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।
भूतिकामैर्नरैर्नित्यं सत्करेषूत्सवेषु च ॥ ३.५९ ॥
33.दम्पत्योसन्तोषफलम
संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै
ध्रुवम् ॥ ३.६० ॥
34.स्त्रियोंअलंकारादिदानादाने
यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ ३.६१ ॥
35.पत्निसंतुष्टिफलम
स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलं ।
तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ ३.६२ ॥
36.कुलोत्क्रर्ष कर्माह
मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ ३.६६ ॥
37.गृहस्थाश्रमप्रशंसा
यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ ३.७७ ॥
38.गृहस्थमहत्त्व
यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ॥ ३.७८ ॥
39.दिधिषुपतिलक्षणमाह
भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ३.१७३ ॥
40.कुंडगोलकवाह
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥ ३.१७४॥
५. पञ्च महायज्ञ का अनुष्ठान
41.पञ्चमहायज्ञअनुष्ठान
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ३.६७ ॥
42.पञ्चयाज्ञानाह
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ३.७० ॥
43.निन्दितेमनुष्या
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३.७२॥
44.पञ्चमहायज्ञअनुष्ठानफलंम
एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति ।
स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना ॥ ३.९३॥
45.अतिथिसत्कारे
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ ३.९९ ॥
46.यथाशक्ति भोजयेत
इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान् ।
प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ३.११३ ॥
47.प्रथमकुमारीश् रोगिणो गर्भिणीः
स्त्रियः
सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः ।
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥ ३.११४ ॥
48.गृह्त्स्यप्रथमभोजननिषेध
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ ३.११५॥
49.दम्पत्योःसर्वशेषेणभोजनं
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ ३.११६॥
50.आत्मार्थपाक निषेध
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ३.११८ ॥
51.वेदेषुलक्षणं
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१८४॥
52.वेदेषुलक्षणं
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ॥ ३.१८५ ॥
Comments
Post a Comment