मनुस्मृति २५-११-२०१९
अध्याय १२
१.
कर्मो का स्रोत
1.
कर्मउत्पत्तिस्थान
शुभाशुभफलं
कर्म मनोवाग्देहसंभवम् ।
कर्मजा
गतयो नॄणामुत्तमाधममध्यमः ॥ १२.३ ॥
2.
कर्मप्रवर्तक
तस्येह
त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः।
दशलक्षणयुक्तस्य
मनो विद्यात्प्रवर्तकम् ॥ १२.४ ॥
3.
त्रिविधमानसकर्माणि
परद्रव्येष्वभिध्यानं
मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च
त्रिविधं कर्म मानसम् ॥ १२.५ ॥
4.
चतुर्विधवाचिककर्माणि
पारुष्यमनृतं
चैव पैशुन्यं चापि सर्वशः ।
असंबद्धप्रलापश्च
वाङ्मयं स्याच्चतुर्विधम् ॥ १२.६ ॥
5.
त्रिविधशरीरकर्माणि
अदत्तानामुपादानं
हिंसा चैवाविधानतः ।
परदारोपसेवा
च शारीरं त्रिविधं स्मृतम् ॥ १२.७ ॥
6.
मनसैवायमुपभुङ्क्ते शुभाशुभम् फलम
मानसं
मनसैवायमुपभुङ्क्ते शुभाशुभम् ।
वाचा वाचा
कृतं कर्म कायेनैव च कायिकम् ॥ १२.८ ॥
त्रिविधं
च शरीरेण वाचा चैव चतुर्विधिम ।
मनसा
त्रिविधं कर्म दशाधर्म पथान्स्त्याजेत ॥ १२.८Kulluck ॥
२.
त्रिविधगुणकथनम
7.
त्रिविधगुणकथनम
सत्त्वं
रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् ।
यैर्व्याप्येमान्
स्थितो भावान्महान् सर्वानशेषतः ॥ १२.२४ ॥
8.
अधिकगुणप्रधानोदेह
यो यदैषां
गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्रायं
तं करोति शरीरिणम् ॥ १२.२५ ॥
9.
त्रिविधगुणव्याप्तशरीर
सत्त्वं
ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम्
।
एतद्व्याप्तिमदेतेषां
सर्वभूताश्रितं वपुः ॥ १२.२६ ॥
10. सतगुण
तत्र
यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् ।
प्रशान्तमिव
शुद्धाभं सत्त्वं तदुपधारयेत् ॥ १२.२७ ॥
11. रजोगुण
यत्तु
दुःखसमायुक्तमप्रीतिकरमात्मनः ।
तद्रजो
प्रतीपं विद्यात्सततं हारि देहिनाम् ॥
१२.२८ ॥
12. तमोगुण
यत्तु
स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम् ।
अप्रतर्क्यमविज्ञेयं
तमस्तदुपधारयेत् ॥ १२.२९ ॥
13. सात्विकगुणलक्षण
वेदाभ्यासस्तपो
ज्ञानं शौचमिन्द्रियनिग्रहः ।
धर्मक्रियात्मचिन्ता
च सात्त्विकं गुणलक्षणम् ॥ १२.३१ ॥
14. राजसिकगुणलक्षण
आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः ।
विषयोपसेवा
चाजस्रं राजसं गुणलक्षणम् ॥ १२.३२ ॥
15. तामसिकगुणलक्षण
लोभः
स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता
।
याचिष्णुता
प्रमादश्च तामसं गुणलक्षणम् ॥ १२.३३ ॥
16. त्रिविधगतिप्रकारा
त्रिविधा
त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा
मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ १२.४१
॥
17. कार्माणुसारफलभोग
यादृशेन
तु भावेन यद्यत्कर्म निषेवते ।
तादृशेन
शरीरेण तत्तत्फलमुपाश्नुते ॥ १२.८१ ॥
३.
सर्वदाकर्मवैदिकम्
18. मोक्षोपायष्टकर्मा
वेदाभ्यासस्तपो
ज्ञानमिन्द्रियाणां च संयमः ।
अहिंसा
[धर्म क्रिया] गुरुसेवा [आत्मचिन्ता ] च निःश्रेयसकरं परम् ॥ १२.८३ ॥
19. वेदोदितकर्मणाश्रेष्ठत्व
षण्णामेषां
तु सर्वेषां कर्मणां प्रेत्य चेह च ।
श्रेयस्करतरं
ज्ञेयं सर्वदा कर्म वैदिकम् ॥ १२.८६ ॥
20. वैदिककर्मद्विविधिम
सुखाभ्युदयिकं
चैव नैःश्रेयसिकमेव च ।
प्रवृत्तं
च निवृत्तं च द्विविधं कर्म वैदिकम् ॥
१२.८८ ॥
21. वेद विहित कार्य
इह चामुत्र वा काम्यं प्रवृत्तं कर्म
कीर्त्यते ।
निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते ॥ १२.८९ ॥
22. वेदाभ्यासादौ
यथोक्तान्यपि कर्माणि परिहाय
द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च
यत्नवान् ॥ १२.९२ ॥
23. वेद विहित कार्य
प्रवृत्तं कर्म संसेव्यं देवानामेति
साम्यताम् ।
निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च
वै ॥ १२.९० ॥
24. समदर्शनम
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ १२.९१ ॥
25. वेदबाह्याःस्मृतयोसर्वास्ता
निष्फलाः
या वेदबाह्याः स्मृतयो याश्च काश्च
कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः
स्मृताः ॥ १२.९५ ॥
26. वेद विहित कार्य
उत्पद्यन्ते
च्यवन्ते च यान्यतोऽन्यानि कानि चित् ।
तान्यर्वाक्कालिकतया
निष्फलान्यनृतानि च ॥ १२.९६ ॥
27. वेदशास्त्रं सनातनम्
बिभर्ति
सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्मादेतत्परं
मन्ये यज्जन्तोरस्य साधनम् ॥ १२.९९ ॥
28. वेदज्ञाता
सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ १२.१०० ॥
29. ज्ञान
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो
धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो
व्यवसायिनः ॥ १२.१०३ ॥
४.
धर्मसंशयनिवारण
30. प्रत्यक्षंचानुमानंचशास्त्रंत्रिविधप्रमाण
प्रत्यक्षं
चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं
सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥
१२.१०५ ॥
31. धर्मज्ञलक्षणम
आर्षं धर्मोपदेशं
च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते
स धर्मं वेद नेतरः ॥ १२.१०६ ॥
32. शिष्ट के द्वारा संशय का
निवारण
अनाम्नातेषु
धर्मेषु कथं स्यादिति चेद्भवेत् ।
यं शिष्टा
ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥
१२.१०८ ॥
33. अथःशिष्टा
धर्मेणाधिगतो
यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा
ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥
१२.१०९ ॥
34. परिषद् का गठन
दशावरा वा
परिषद्यं धर्मं परिकल्पयेत् ।
त्र्यवरा
वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥
35. दस विद्द्वानो की परिषद्
त्रैविद्यो हेतुकस्तर्की नैरुक्तो
धर्मपाठकः ।
त्रयश्चाश्रमिणः पूर्वे
परिषत्स्याद्दशावरा ॥ १२.१११ ॥
36. तीन विद्द्वानो की परिषद्
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च ।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥ १२.११२ ॥
37. आपात काल में वेदज्ञ
एकोऽपि वेदविद्धर्मं यं
व्यवस्येद्द्विजोत्तमः ।
स विज्ञेयः परो धर्मो
नाज्ञानामुदितोऽयुतैः ॥ १२.११३ ॥
38. मूर्खाणापरिषद्निषेध
अव्रतानाममन्त्राणां
जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२.११४ ॥
39. समयचक्र
एष
सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः
।
जन्मवृद्धिक्षयैर्नित्यं
संसारयति चक्रवत् ॥ १२.१२४ ॥
५.
शास्त्र में वर्णित विषय 39-45
40. शास्त्र में वर्णित विषय
जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १.१११ ॥
41.
शास्त्र में वर्णित विषय
दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च शाश्वतम्
॥ १.११२ ॥
42.
शास्त्र में वर्णित विषय
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ १.११३ ॥
43.
शास्त्र में वर्णित विषय
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ १.११४ ॥
44. शास्त्र में वर्णित विषय
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ १.११५ ॥
45. शास्त्र में वर्णित विषय
प्रायश्चित्तविधिं चैव त्रिविधं कर्मसंभवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ १.११७ ॥
46. शास्त्र में वर्णित विषय
देशधर्माञ्जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः ॥ १.११८ ॥
47. इति मानवधर्मशास्त्र
मनुः स्वयंभुवो
देवः सर्वशास्त्रार्थ पारगः ।
तस्यातस्यनिर्गतं
धर्म विचार्य बहुविस्तरम ॥ १२.१२६ ॥ [Kullack]
Comments
Post a Comment