मनुस्मृति २५-११-२०१९ 



अध्याय


१. भोजन

1.      स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्

प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्  ॥ ५.२८ ॥

2.      वेदविहिताहिंसा

या वेदविहिता हिंसा नियतास्मिंश्चराचरे 
अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ  ॥ ५.४४ ॥

२. अशौच

3.      सपिन्ड़मृत्यु दोष

दन्तजातेऽनुजाते च कृतचूडे च संस्थिते 
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते  ॥ ५.५८ ॥

4.      सपिन्ड़मृत्यु दोष

दशाहं शावमाशौचं सपिण्डेषु विधीयते 
अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा  ॥ ५.५९ ॥

5.      सपिण्डलक्षणमाह

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते 
समानोदकभावस्तु जन्मनाम्नोरवेदने  ॥ ५.६० ॥

6.      साध्वीरजस्वला स्नानेन

रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति 
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला  ॥ ५.६६ ॥

7.      निर्हारकानुगमने

अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च 
स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति  ॥ ५.१०३ ॥

३. शरीर और धन की शुद्धि

8.      ज्ञानादीनीशुद्धिसधानानि

ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् 
वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम्  ॥ ५.१०५॥

9.      क्षमादानतपांसीशोधकानि

क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः 
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः  ॥ ५.१०७ ॥

10.गात्रगमनसात्मबुद्धिशुद्धौ

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति 
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति  ॥ ५.१०९ ॥

11.अर्थशौच

सर्वेषामेव शौचानामर्थशौचं परं स्मृतं 
योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः  ॥ ५.१०६ ॥

४. पात्र शुधि

12.समलनदीस्त्रीद्विजशुद्धौ

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति 
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः  ॥ ५.१०८॥

13.सुवर्णादिमणिशुद्धौ

तैजसानां मणीनां च सर्वस्याश्ममयस्य च 
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः  ॥ ५.१११॥

14.शुद्धि

निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति 
अब्जमश्ममयं चैव राजतं चानुपस्कृतम्  ॥ ५.११२॥

15.शुद्धि

अपामग्नेश्च संयोगाद्धैमं रौप्यं च निर्बभौ 
तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः  ॥ ५.११३॥

16.शुद्धि

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च 
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः  ॥ ५.११४ ॥

17.शुद्धि

द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् 
प्रोक्षणं संहतानां च दारवाणां च तक्षणम्  ॥ ५.११५ ॥

18.मार्जनं यज्ञपात्राणां

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि 
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु  ॥ ५.११६ ॥

19.शुद्धि

चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा 
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च  ॥ ५.११७ ॥

20.चर्मवशपात्रशाक

फलफूलशुद्धौ चैलवच्चर्मणां शुद्धिर्वैदलानां तथैव च 
शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते  ॥ ५.११९॥

21.कम्बलपटवस्त्रादिशुद्धौ

क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च 
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा  ॥ ५.१२१॥

22.त्तृणकाष्ठंगृहम्रद्रांडशुद्धौ

प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति 
मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृन्मयम्  ॥ ५.१२२॥

23.भूमिशुद्धौ

संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च 
गवां च परिवासेन भूमिः शुध्यति पञ्चभिः  ॥ ५.१२४ ॥

५. स्त्रियों के कर्तव्य

24.अथःस्त्रीधर्मनाह

एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च 
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत  ॥ ५.१४६ ॥

25.स्त्रियों के कर्तव्य

पित्रा भर्त्रा सुतैर्वापि नेच्छेद्विरहमात्मनः 
एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले  ॥ ५.१४९॥

26.प्रसन्नागृहकर्म कुर्यात

सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया 
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया  ॥ ५.१५०॥

27.स्वामीप्रशंसा

अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः 
सुखस्य नित्यं दातेह परलोके च योषितः  ॥ ५.१५३ ॥

28.परपुरुषगमननिंदा

अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते 
सेह निन्दामवाप्नोति परलोकाच्च हीयते  ॥ ५.१६१ ॥

29.स्त्रियों के कर्तव्य

नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे 
न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते  ॥ ५.१६२॥

30.पातिवृत्याफलम

पतिं या नाभिचरति मनोवाग्देहसंयुता 
सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते  ॥ ५.१६५॥

31.भार्याया

मृताया श्रौताग्नीदाहः        एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् 
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ५.१६७ ॥

32.पुनर्दारग्रहणे

भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि 
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च  ॥ ५.१६८॥

गृहस्थ आश्रम पालन

33.गृहस्थस्यकालावधि

अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६९॥



Comments

Popular posts from this blog