मनुस्मृति २५-११-२०१९
अध्याय ५
१.
भोजन
1. स्थावरं जङ्गमं चैव सर्वं
प्राणस्य भोजनम्
प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ ५.२८ ॥
2. वेदविहिताहिंसा
या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।
अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ५.४४ ॥
२.
अशौच
3. सपिन्ड़मृत्यु दोष
दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५.५८ ॥
4. सपिन्ड़मृत्यु दोष
दशाहं शावमाशौचं सपिण्डेषु विधीयते ।
अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा ॥ ५.५९ ॥
5. सपिण्डलक्षणमाह
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ५.६० ॥
6. साध्वीरजस्वला स्नानेन
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ५.६६ ॥
7. निर्हारकानुगमने
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च ।
स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य
विशुध्यति ॥ ५.१०३ ॥
३.
शरीर और धन की शुद्धि
8. ज्ञानादीनीशुद्धिसधानानि
ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ ५.१०५॥
9. क्षमादानतपांसीशोधकानि
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ५.१०७ ॥
10.गात्रगमनसात्मबुद्धिशुद्धौ
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ५.१०९ ॥
11.अर्थशौच
सर्वेषामेव शौचानामर्थशौचं परं स्मृतं ।
योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ ५.१०६ ॥
४.
पात्र शुधि
12.समलनदीस्त्रीद्विजशुद्धौ
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ ५.१०८॥
13.सुवर्णादिमणिशुद्धौ
तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥ ५.१११॥
14.शुद्धि
निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति ।
अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ ५.११२॥
15.शुद्धि
अपामग्नेश्च संयोगाद्धैमं रौप्यं च निर्बभौ ।
तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ५.११३॥
16.शुद्धि
ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ५.११४ ॥
17.शुद्धि
द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ।
प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ५.११५ ॥
18.मार्जनं यज्ञपात्राणां
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ ५.११६ ॥
19.शुद्धि
चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा ।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ५.११७ ॥
20.चर्मवशपात्रशाक
फलफूलशुद्धौ चैलवच्चर्मणां शुद्धिर्वैदलानां तथैव च ।
शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते ॥ ५.११९॥
21.कम्बलपटवस्त्रादिशुद्धौ
क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च ।
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥ ५.१२१॥
22.त्तृणकाष्ठंगृहम्रद्रांडशुद्धौ
प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुध्यति ।
मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृन्मयम् ॥ ५.१२२॥
23.भूमिशुद्धौ
संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च ।
गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ ५.१२४ ॥
५.
स्त्रियों के कर्तव्य
24.अथःस्त्रीधर्मनाह
एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च ।
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥ ५.१४६ ॥
25.स्त्रियों के कर्तव्य
पित्रा भर्त्रा सुतैर्वापि नेच्छेद्विरहमात्मनः ।
एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ ५.१४९॥
26.प्रसन्नागृहकर्म कुर्यात
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५.१५०॥
27.स्वामीप्रशंसा
अनृतावृतुकाले च
मन्त्रसंस्कारकृत्पतिः ।
सुखस्य नित्यं दातेह
परलोके च योषितः ॥ ५.१५३ ॥
28.परपुरुषगमननिंदा
अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते ।
सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ ५.१६१ ॥
29.स्त्रियों के कर्तव्य
नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे ।
न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते ॥ ५.१६२॥
30.पातिवृत्याफलम
पतिं या नाभिचरति मनोवाग्देहसंयुता ।
सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ ५.१६५॥
31.भार्याया
मृताया श्रौताग्नीदाहः एवं
वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम्
।
दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ५.१६७ ॥
32.पुनर्दारग्रहणे
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीनन्त्यकर्मणि ।
पुनर्दारक्रियां कुर्यात्पुनराधानमेव च ॥ ५.१६८॥
गृहस्थ
आश्रम पालन
33.गृहस्थस्यकालावधि
अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६९॥
Comments
Post a Comment