मनुस्मृति २५-११-२०१९ 



अध्याय ६ वानप्रस्थ- संन्यास आश्रम

१. वानप्रस्थप्रवेश


1.      वानप्रस्थाश्रममाह

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः 
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः  ॥ ६.१ ॥

2.      सभार्याग्निहोत्रोवनेवसेत

संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् 
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा  ॥ ६.३ ॥

3.      अग्निहोत्र

अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् 
ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः  ॥ ६.४ ॥

4.      फलमुलेनपञ्चमहायज्ञ

मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।
एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम्  ॥ ६.५ ॥

5.      चर्मचीरजटादिधारणम

वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा 
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च  ॥ ६.६ ॥


6.      अथितिचर्या

यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः 
अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान्  ॥ ६.७ ॥

२. वानप्रस्थनियम


7.      वानप्रस्थनियमाः-१

स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः 
दाता नित्यमनादाता सर्वभूतानुकम्पकः  ॥ ६.८ ॥

8.      वानप्रस्थनियमाः-२

वैतानिकं च जुहुयादग्निहोत्रं यथाविधि 
दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः  ॥ ६.९ ॥

9.      वानप्रस्थनियमाः-३

ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशो दक्षस्यायनमेव च  ॥ ६.१० ॥

10.वानप्रस्थनियमाः-४

वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः 
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ॥ ६.११ ॥

11.वानप्रस्थनियमाः-५

देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः 
शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम्॥ ६.१२॥

12.वानप्रस्थनियमाः-६

स्थलजाउदकशाकानि पुष्पमूलफलानि च 
मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान्  ॥ ६.१३ ॥

13.वानप्रस्थनियमाः-७

अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा 
अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा  ॥ ६.१७ ॥

14.वानप्रस्थनियमाः-८

सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा 
षण्मासनिचयो वा स्यात्समानिचय एव वा  ॥ ६.१८ ॥

15.वानप्रस्थनियमाः-९

पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा 
कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः  ॥ ६.२१ ॥

16.वानप्रस्थनियमाः-१०

भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् 
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः  ॥ ६.२२ ॥

17.वानप्रस्थनियमाः-११

ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः 
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः  ॥ ६.२३ ॥

18.वानप्रस्थनियमाः-१२

अग्नीनात्मनि वैतानान् समारोप्य यथाविधि 
अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः  ॥ ६.२५ ॥

19.वानप्रस्थनियमाः-१३

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः 
शरणेष्वममश्चैव वृक्षमूलनिकेतनः  ॥ ६.२६ ॥

20.वानप्रस्थनियमाः-१४

तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु  ॥ ६.२७ ॥

21.वानप्रस्थनियमाः-१५

ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् 
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा  ॥ ६.२८ ॥

३. परिव्राजककालनियमः


22.परिव्राजककालमाह

वनेषु च विहृत्यैवं तृतीयं भागमायुषः 
चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥



23.ब्रह्म्चार्यादिक्रमेण परिव्रजेत


आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः 
भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते  ॥ ६.३४ ॥

24.ऋणशोध्य न परिव्रजेत

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः  ॥ ६.३५ ॥

25.पुत्रमनुत्पाध न परिव्रजेत

अधीत्य विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः 
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥

26.अधोगति

अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् 
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः  ॥ ६.३७ ॥

27.प्राजापतेय्ष्टि कृत्वा परिव्रजेत

प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् 
आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ ६.३८ ॥

28.एकाकीमोक्षार्थचरेत

एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् 
सिद्धिमेकस्य संपश्यन्न जहाति न हीयते  ॥ ६.४२ ॥

29.मुक्तलक्षणम

कपालं वृक्षमूलानि कुचेलमसहायता 
समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्  ॥ ६.४४ ॥

30.जीवनादीकामनाराहित्यम

नाभिनन्देत मरणं नाभिनन्देत जीवितम् 
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा  ॥ ६.४५ ॥

31.परिव्रजकाचार

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥

32.परिव्रजकाचार

अतिवादांस्तितिक्षेत नावमन्येत कं चन 
न चेमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ ६.४७ ॥

33.परिव्रजकाचार

क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ ६.४८ ॥

34.भिक्षाग्रहणे

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया 
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ ६.५० ॥

35.दण्डकमंडल्वादयः

कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् 
विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन्  ॥ ६.५२ ॥

36.भिक्षा पात्राणि

अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च 
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे  ॥ ६.५३ ॥

37.एककालं भिक्षाचरणम

एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे 
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति  ॥ ६.५५ ॥

38.भिक्षा कालः

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने 
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ६.५६ ॥

39.प्राणयात्रिकमात्रःभिक्षाचरणम

अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः  ॥ ६.५७ ॥

40.पूजापूर्वकभिक्षानिषेध

अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः 
अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते  ॥ ६.५८ ॥

41.इन्द्रिय निग्रह

अल्पान्नाभ्यवहारेण रहःस्थानासनेन च 
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥

42.इन्द्रिय निग्रह

इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च 
अहिंसया च भूतानाममृतत्वाय कल्पते  ॥ ६.६० ॥

43.न लिङ्गं धर्मकारणम्

दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः 
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम्  ॥ ६.६६ ॥

44.न लिङ्गं धर्मकारणम्

फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् 
न नामग्रहणादेव तस्य वारि प्रसीदति  ॥ ६.६७ ॥

45.संरक्षणार्थंजन्तूनां भूमि निरीक्ष्य पर्येटत

संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा 
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥

46.विषयानअभिलाषः

यदा भावेन भवति सर्वभावेषु निःस्पृहः 
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्  ॥ ६.८० ॥

५. संन्यासिककर्मयोगं


47.सन्यासिकर्माह

एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् 
वेदसंन्यासिकानां तु कर्मयोगं निबोधत  ॥ ६.८६ ॥

48.चत्वारआश्रमः

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा 
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः  ॥ ६.८७ ॥

49.सर्वाश्रमफलम

सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः 
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम्  ॥ ६.८८ ॥

50.गृहस्थउच्यतेश्रेष्ठः

सर्वेषामपि चैतेषां वेदस्मृतिविधानतः 
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि  ॥ ६.८९ ॥

51.गृहस्थउच्यतेश्रेष्ठः

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् 
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्  ॥ ६.९० ॥

52.दशविधो धर्मः सेवितव्यः

धर्मः सेवितव्यःचतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः  
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः  ॥ ६.९१ ॥

53.दशविधधर्मलक्षणम्

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः 
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्  ॥ ६.९२ ॥

54.दशविधधर्माचरणफलम

दश लक्षणानि धर्मस्य ये विप्राः समधीयते 
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम्  ॥ ६.९३ ॥

55.वेदत्यागेशुद्राणी

संन्येसेत्सर्वकर्माणि वेद्मेकं न संन्यसेत ।
वेद्सन्यासतः शुद्रस्त्स्माद्वेदं न संन्यसेत ॥ ६.९५ ॥

56.राज्ञांधर्मं

एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः 
पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत  ॥ ६.९७ ॥







Comments

Popular posts from this blog