मनुस्मृति २५-११-२०१९
अध्याय ६ – वानप्रस्थ- संन्यास आश्रम
१. वानप्रस्थप्रवेश
1. वानप्रस्थाश्रममाह
एवं
गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः
।
वने
वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ ६.१
॥
2. सभार्याग्निहोत्रोवनेवसेत
संत्यज्य
ग्राम्यमाहारं सर्वं चैव परिच्छदम् ।
पुत्रेषु भार्यां
निक्षिप्य वनं गच्छेत्सहैव वा ॥ ६.३ ॥
3. अग्निहोत्र
अग्निहोत्रं
समादाय गृह्यं चाग्निपरिच्छदम् ।
ग्रामादरण्यं
निःसृत्य निवसेन्नियतेन्द्रियः ॥ ६.४ ॥
4. फलमुलेनपञ्चमहायज्ञ
मुन्यन्नैर्विविधैर्मेध्यैः
शाकमूलफलेन वा ।
एतानेव
महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥ ६.५ ॥
5. चर्मचीरजटादिधारणम
वसीत चर्म
चीरं वा सायं स्नायात्प्रगे तथा ।
जटाश्च
बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥ ६.६ ॥
6. अथितिचर्या
यद्भक्ष्यं
स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः
।
अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥ ६.७ ॥
२. वानप्रस्थनियम
7. वानप्रस्थनियमाः-१
स्वाध्याये
नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः
।
दाता
नित्यमनादाता सर्वभूतानुकम्पकः ॥ ६.८ ॥
8. वानप्रस्थनियमाः-२
वैतानिकं
च जुहुयादग्निहोत्रं यथाविधि ।
दर्शमस्कन्दयन्
पर्व पौर्णमासं च योगतः ॥ ६.९ ॥
9. वानप्रस्थनियमाः-३
ऋक्षेष्ट्याग्रयणं
चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च
क्रमशो दक्षस्यायनमेव च ॥ ६.१० ॥
10.वानप्रस्थनियमाः-४
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः
स्वयमाहृतैः ।
पुरोडाशांश्चरूंश्चैव
विधिवन्निर्वपेत्पृथक् ॥ ६.११ ॥
11.वानप्रस्थनियमाः-५
देवताभ्यस्तु
तद्धुत्वा वन्यं मेध्यतरं हविः ।
शेषमात्मनि
युञ्जीत लवणं च स्वयं कृतम्॥ ६.१२॥
12.वानप्रस्थनियमाः-६
स्थलजाउदकशाकानि
पुष्पमूलफलानि च ।
मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च
फलसंभवान् ॥ ६.१३ ॥
13.वानप्रस्थनियमाः-७
अग्निपक्वाशनो
वा स्यात्कालपक्वभुगेव वा ।
अश्मकुट्टो
भवेद्वापि दन्तोलूखलिकोऽपि वा ॥ ६.१७ ॥
14.वानप्रस्थनियमाः-८
सद्यः
प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
षण्मासनिचयो
वा स्यात्समानिचय एव वा ॥ ६.१८ ॥
15.वानप्रस्थनियमाः-९
पुष्पमूलफलैर्वापि
केवलैर्वर्तयेत्सदा ।
कालपक्वैः
स्वयं शीर्णैर्वैखानसमते स्थितः ॥ ६.२१ ॥
16.वानप्रस्थनियमाः-१०
भूमौ
विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां
विहरेत्सवनेषूपयन्नपः ॥ ६.२२ ॥
17.वानप्रस्थनियमाः-११
ग्रीष्मे
पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ।
आर्द्रवासास्तु
हेमन्ते क्रमशो वर्धयंस्तपः ॥ ६.२३ ॥
18.वानप्रस्थनियमाः-१२
अग्नीनात्मनि
वैतानान् समारोप्य यथाविधि ।
अनग्निरनिकेतः
स्यान्मुनिर्मूलफलाशनः ॥ ६.२५ ॥
19.वानप्रस्थनियमाः-१३
अप्रयत्नः
सुखार्थेषु ब्रह्मचारी धराशयः ।
शरणेष्वममश्चैव
वृक्षमूलनिकेतनः ॥ ६.२६ ॥
20.वानप्रस्थनियमाः-१४
तापसेष्वेव
विप्रेषु यात्रिकं भैक्षमाहरेत् ।
गृहमेधिषु
चान्येषु द्विजेषु वनवासिषु ॥ ६.२७ ॥
21.वानप्रस्थनियमाः-१५
ग्रामादाहृत्य
वाश्नीयादष्टौ ग्रासान् वने वसन् ।
प्रतिगृह्य
पुटेनैव पाणिना शकलेन वा ॥ ६.२८ ॥
३. परिव्राजककालनियमः
22.परिव्राजककालमाह
वनेषु च विहृत्यैवं
तृतीयं भागमायुषः ।
चतुर्थमायुषो
भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥
23.ब्रह्म्चार्यादिक्रमेण
परिव्रजेत
आश्रमादाश्रमं
गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षाबलिपरिश्रान्तः
प्रव्रजन् प्रेत्य वर्धते ॥ ६.३४ ॥
24.ऋणशोध्य न परिव्रजेत
ऋणानि त्रीण्यपाकृत्य
मनो मोक्षे निवेशयेत् ।
अनपाकृत्य
मोक्षं तु सेवमानो व्रजत्यधः ॥ ६.३५ ॥
25.पुत्रमनुत्पाध न परिव्रजेत
अधीत्य
विधिवद्वेदान् पुत्रांश्चोत्पाद्य धर्मतः
।
इष्ट्वा च
शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥
26.अधोगति
अनधीत्य
द्विजो वेदाननुत्पाद्य तथा सुतान् ।
अनिष्ट्वा
चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥
६.३७ ॥
27.प्राजापतेय्ष्टि कृत्वा
परिव्रजेत
प्राजापत्यं
निरुप्येष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्यग्नीन्
समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥ ६.३८ ॥
28.एकाकीमोक्षार्थचरेत
एक एव चरेन्नित्यं
सिद्ध्यर्थमसहायवान् ।
सिद्धिमेकस्य
संपश्यन्न जहाति न हीयते ॥ ६.४२ ॥
29.मुक्तलक्षणम
कपालं
वृक्षमूलानि कुचेलमसहायता ।
समता चैव
सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ६.४४ ॥
30.जीवनादीकामनाराहित्यम
नाभिनन्देत
मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत
निर्वेशं भृतको यथा ॥ ६.४५ ॥
31.परिव्रजकाचार
दृष्टिपूतं
न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां
वदेद्वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥
32.परिव्रजकाचार
अतिवादांस्तितिक्षेत
नावमन्येत कं चन ।
न चेमं
देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ ६.४७ ॥
33.परिव्रजकाचार
क्रुद्ध्यन्तं
न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां
च न वाचमनृतां वदेत् ॥ ६.४८ ॥
34.भिक्षाग्रहणे
न
चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया
।
नानुशासनवादाभ्यां
भिक्षां लिप्सेत कर्हि चित् ॥ ६.५० ॥
35.दण्डकमंडल्वादयः
कॢप्तकेशनखश्मश्रुः
पात्री दण्डी कुसुम्भवान् ।
विचरेन्नियतो
नित्यं सर्वभूतान्यपीडयन् ॥ ६.५२ ॥
36.भिक्षा पात्राणि
अतैजसानि
पात्राणि तस्य स्युर्निर्व्रणानि च ।
तेषामद्भिः
स्मृतं शौचं चमसानामिवाध्वरे ॥ ६.५३ ॥
37.एककालं भिक्षाचरणम
एककालं
चरेद्भैक्षं न प्रसज्जेत विस्तरे ।
भैक्षे
प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥
६.५५ ॥
38.भिक्षा कालः
विधूमे
सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते
शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ ६.५६ ॥
39.प्राणयात्रिकमात्रःभिक्षाचरणम
अलाभे न
विषदी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः
स्यान्मात्रासङ्गाद्विनिर्गतः ॥ ६.५७ ॥
40.पूजापूर्वकभिक्षानिषेध
अभिपूजितलाभांस्तु
जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैश्च
यतिर्मुक्तोऽपि बध्यते ॥ ६.५८ ॥
41.इन्द्रिय निग्रह
अल्पान्नाभ्यवहारेण
रहःस्थानासनेन च ।
ह्रियमाणानि
विषयैरिन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥
42.इन्द्रिय निग्रह
इन्द्रियाणां
निरोधेन रागद्वेशक्षयेण च ।
अहिंसया च
भूतानाममृतत्वाय कल्पते ॥ ६.६० ॥
43.न लिङ्गं धर्मकारणम्
दूषितोऽपि
चरेद्धर्मं यत्र तत्राश्रमे रतः ।
समः
सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥
६.६६ ॥
44.न लिङ्गं धर्मकारणम्
फलं
कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
न
नामग्रहणादेव तस्य वारि प्रसीदति ॥ ६.६७ ॥
45.संरक्षणार्थंजन्तूनां भूमि
निरीक्ष्य पर्येटत
संरक्षणार्थं
जन्तूनां रात्रावहनि वा सदा ।
शरीरस्यात्यये
चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥
46.विषयानअभिलाषः
यदा भावेन
भवति सर्वभावेषु निःस्पृहः ।
तदा
सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥
६.८० ॥
५. संन्यासिककर्मयोगं
47.सन्यासिकर्माह
एष
धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् ।
वेदसंन्यासिकानां
तु कर्मयोगं निबोधत ॥ ६.८६ ॥
48.चत्वारआश्रमः
ब्रह्मचारी
गृहस्थश्च वानप्रस्थो यतिस्तथा ।
एते
गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ ६.८७
॥
49.सर्वाश्रमफलम
सर्वेऽपि
क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं
विप्रं नयन्ति परमां गतिम् ॥ ६.८८ ॥
50.गृहस्थउच्यतेश्रेष्ठः
सर्वेषामपि
चैतेषां वेदस्मृतिविधानतः ।
गृहस्थ उच्यते
श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥ ६.८९
॥
51.गृहस्थउच्यतेश्रेष्ठः
यथा
नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः
सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ६.९० ॥
52.दशविधो धर्मः सेवितव्यः
धर्मः
सेवितव्यःचतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः ।
दशलक्षणको
धर्मः सेवितव्यः प्रयत्नतः ॥ ६.९१ ॥
53.दशविधधर्मलक्षणम्
धृतिः
क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या
सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ ६.९२ ॥
54.दशविधधर्माचरणफलम
दश
लक्षणानि धर्मस्य ये विप्राः समधीयते ।
अधीत्य
चानुवर्तन्ते ते यान्ति परमां गतिम् ॥
६.९३ ॥
55.वेदत्यागेशुद्राणी
संन्येसेत्सर्वकर्माणि
वेद्मेकं न संन्यसेत ।
वेद्सन्यासतः
शुद्रस्त्स्माद्वेदं न संन्यसेत ॥ ६.९५ ॥
56.राज्ञांधर्मं
एष
वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।
पुण्योऽक्षयफलः
प्रेत्य राज्ञां धर्मं निबोधत ॥ ६.९७ ॥
Comments
Post a Comment