मनुस्मृति २५-११-२०१९
अध्याय ९
१६. पति पत्नी धर्म
1. स्त्रीपुंधर्मं
पुरुषस्य
स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः ।
संयोगे
विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान्
॥ ९.१ ॥
2. स्त्रीरक्षा
अस्वतन्त्राः
स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्
।
विषयेषु च
सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ ९.२ ॥
3. पुनरीक्षण
पिता
रक्षति कौमारे भर्ता रक्षति यौवने ।
रक्षन्ति
स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति
॥ ९.३ ॥
4. पुनरीक्षण
कालेऽदाता
पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
मृते
भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥
९.४ ॥
5. पुनरीक्षण
सूक्ष्मेभ्योऽपि
प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर्हि
कुलयोः शोकमावहेयुररक्षिताः ॥ ९.५ ॥
6. पुनरीक्षण
इमं हि
सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् ।
यतन्ते
रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥
९.६ ॥
7. पुनरीक्षण
स्वां
प्रसूतिं चरित्रं च कुलमात्मानमेव च ।
स्वं च
धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥
९.७ ॥
8. जायाशब्दार्थकथनम
पतिर्भार्यां
संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास्तद्धि
जायात्वं यदस्यां जायते पुनः ॥ ९.८ ॥
9. पत्य्नुकुल संतानोत्त्पति
यादृशं
भजते हि स्त्री सुतं सूते तथाविधम् ।
तस्मात्प्रजाविशुद्ध्यर्थं
स्त्रियं रक्षेत्प्रयत्नतः ॥ ९.९ ॥
10.पुनरीक्षण
न
कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम्
।
एतैरुपाययोगैस्तु
शक्यास्ताः परिरक्षितुम् ॥ ९.१० ॥
11.पुनरीक्षण
अर्थस्य
संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे
धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे
॥ ९.११ ॥
12.पुनरीक्षण
अरक्षिता
गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
आत्मानमात्मना
यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ ९.१२ ॥
13.छह दोष
पानं
दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेहवासश्च
नारीसंदूषणानि षट् ॥ ९.१३ ॥
14.स्त्रीस्वभाव
नैता रूपं
परीक्षन्ते नासां वयसि संस्थितिः ।
सुरूपं वा
विरूपं वा पुमानित्येव भुञ्जते ॥ ९.१४ ॥
15.स्त्रीस्वभाव
पौंश्चल्याच्चलचित्ताच्च
नैस्नेह्याच्च स्वभावतः ।
रक्षिता
यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ ९.१५
॥
16.स्त्रीस्वामीगुणाभवति
यादृग्गुणेन
भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृग्गुणा
सा भवति समुद्रेणेव निम्नगा ॥ ९.२२ ॥
17.स्त्रीप्रशंसा
प्रजनार्थं
महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियः
श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ ९.२६
॥
18.-स्त्री से घर की शोभा
उत्पादनमपत्यस्य
जातस्य परिपालनम् ।
प्रत्यहं
लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम्
॥ ९.२७ ॥
19.पुनरीक्षण
अपत्यं
धर्मकार्याणि शुश्रूषा रतिरुत्तमा ।
दाराधीनस्तथा
स्वर्गः पितॄणामात्मनश्च ह ॥ ९.२८ ॥
20.अव्याभिचारफलम
पतिं या
नाभिचरति मनोवाग्देहसंयता ।
सा
भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते
॥ ९.२९ ॥
21.व्याभिचारफलम
व्यभिचारात्तु
भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्
।
सृगालयोनिं
चाप्नोति पापरोगैश्च पीड्यते ॥ ९.३० ॥
22.-बीज और खेत का महत्व
क्षेत्रभूता
स्मृता नारी बीजभूतः स्मृतः पुमान् ।
क्षेत्रबीजसमायोगात्संभवः
सर्वदेहिनाम् ॥ ९.३३ ॥
23.-बीज और क्षेत्र की प्रधानता
विशिष्टं
कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित् ।
उभयं तु
समं यत्र सा प्रसूतिः प्रशस्यते ॥ ९.३४ ॥
24.--बीज प्राधान्य
बीजस्य
चैव योन्याश्च बीजमुत्कृष्टमुच्यते ।
सर्वभूतप्रसूतिर्हि
बीजलक्षणलक्षिता ॥ ९.३५ ॥
25.-बीज प्राधान्य में द्रष्टान्त
यादृशं
तूप्यते बीजं क्षेत्रे कालोपपादिते ।
तादृग्रोहति
तत्तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः ॥
९.३६ ॥
26.-परस्त्री में बीजवपन का निषेध
तत्प्राज्ञेन
विनीतेन ज्ञानविज्ञानवेदिना ।
आयुष्कामेन
वप्तव्यं न जातु परयोषिति ॥ ९.४१ ॥
27.-परस्त्री गमन
अत्र गाथा
वायुगीताः कीर्तयन्ति पुराविदः ।
यथा बीजं
न वप्तव्यं पुंसा परपरिग्रहे ॥ ९.४२ ॥
28.-भ्रात्रपत्नी से सम्भोग करके
पतित होना
भ्रातुर्ज्येष्ठस्य
भार्या या गुरुपत्न्यनुजस्य सा ।
यवीयसस्तु
या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥
९.५७ ॥
29.-केवल नियोग में आज्ञा
ज्येष्ठो
यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम् ।
पतितौ
भवतो गत्वा नियुक्तावप्यनापदि ॥ ९.५८ ॥
30.-नियोग प्रकरण - क्षेत्रज पुत्र
देवराद्वा
सपिण्डाद्वा स्त्रिया सम्यङ्नियुक्तया ।
प्रजेप्सिताआधिगन्तव्या
संतानस्य परिक्षये ॥ ९.५९ ॥
31.-नियोग प्रकरण द्वितीय पुत्र को
उत्पन्न का निषेध
विधवायां
नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एकमुत्पादयेत्पुत्रं
न द्वितीयं कथं चन ॥ ९.६० ॥
32.-पूर्वत व्यवहार
विधवायां
नियोगार्थे निर्वृत्ते तु यथाविधि ।
गुरुवच्च
स्नुषावच्च वर्तेयातां परस्परम् ॥ ९.६२ ॥
33.-नियोग में कामवासना से सम्भोग
की निंदा
नियुक्तौ
यौ विधिं हित्वा वर्तेयातां तु कामतः ।
तावुभौ
पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ९.६३ ॥
34.-वाग्दत कन्या के पति के मरने
पर
यस्या
म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तामनेन
विधानेन निजो विन्देत देवरः ॥ ९.६९ ॥
35.-सप्तपदी के पूर्व दोषवती कन्या
का त्याग
विधिवत्प्रतिगृह्यापि
त्यजेत्कन्यां विगर्हिताम् ।
व्याधितां
विप्रदुष्टां वा छद्मना चोपपादिताम् ॥
९.७२ ॥
36.-
सप्तपदी के बाद दोषवती
कन्या का त्याग
यस्तु
दोषवतीं कन्यामनाख्यायोपपादयेत् ।
तस्य
तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ॥
९.७३ ॥
37.-विदेश गमन से पूर्व
स्त्रीवृत्ति की व्यवस्था
विधाय
वृत्तिं भार्यायाः प्रवसेत्कार्यवान्नरः ।
अवृत्तिकर्शिता
हि स्त्री प्रदुष्येत्स्थितिमत्यपि ॥ ९.७४
॥
38.-विदेश गमन में स्त्री के
कर्तव्य
विधाय
प्रोषिते वृत्तिं जीवेन्नियममास्थिता ।
प्रोषिते
त्वविधायैव जीवेच्छिल्पैरगर्हितैः ॥ ९.७५
॥
39.-विदेश गमन में पति की
प्रतीक्षा का समय
प्रोषितो
धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः
।
विद्यार्थं
षड्यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान्
॥ ९.७६ ॥
40.-द्वेषयुक्त स्त्री की
प्रतीक्षा का समय
संवत्सरं
प्रतीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्ध्वं
संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥ ९.७७ ॥
41.परित्याज्या विभूषणपरिच्छदा
अतिक्रामेत्प्रमत्तं
या मत्तं रोगार्तमेव वा ।
सा
त्रीन्मासान् परित्याज्या विभूषणपरिच्छदा
॥ ९.७८ ॥
42.-वक्ष्यमान स्त्री के रहते
दूसरा विवाह करना
मद्यपासाधुवृत्ता
च प्रतिकूला च या भवेत् ।
व्याधिता
वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥
९.८० ॥
43.-दुसरे विवाह के अन्य नियम
वन्ध्याष्टमेऽधिवेद्याऽअब्दे
दशमे तु मृतप्रजा ।
एकादशे
स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ ९.८१ ॥
44.-रोगिणी तथा पति परायण स्त्री
के होने पर दूसरा विवाह
या रोगिणी
स्यात्तु हिता संपन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या
नावमान्या च कर्हि चित् ॥ ९.८२ ॥
45.नारी निर्गच्छेद्रुषिता गृहात्
अधिविन्ना
तु या नारी निर्गच्छेद्रुषिता गृहात् ।
सा सद्यः
संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥
९.८३ ॥
46.-स्त्री के मधपान पर दण्ड
प्रतिषिद्धापि
चेद्या तु मद्यमभ्युदयेष्वपि ।
प्रेक्षासमाजं
गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥ ९.८४ ॥
47.वर अभाव में जीवन पर्यंत घर
रहना
काममा
मरणात्तिष्ठेद्गृहे कन्या र्तुमत्यपि ।
न चैवैनां
प्रयच्चेत्तु गुणहीनाय कर्हि चित् ॥ ९.८९ ॥
48.-निर्गुणी वर के लिए कन्यादान
का निषेध
त्रीणि
वर्षाण्युदीक्षेत कुमार्यृतुमती सती ।
ऊर्ध्वं
तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥
९.९० ॥
49.-स्वयं वरण का समय
अदीयमाना
भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किं
चिदवाप्नोति न च यं साधिगच्छति ॥ ९.९१ ॥
50.-स्वयंवरण में पति पत्नी की निर्दोषता
अलङ्कारं
नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं
भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९.९२ ॥
51.-विवाह की आवश्यकता
प्रजनार्थं
स्त्रियः सृष्टाः संतानार्थं च मानवः ।
तस्मात्साधारणो
धर्मः श्रुतौ पत्न्या सहोदितः ॥ ९.९६ ॥
52.-स्त्री के साथ धर्म कार्य का
विधान
कन्यायां
दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय
प्रदातव्या यदि कन्यानुमन्यते ॥ ९.९७ ॥
53.जीवन पर्यंत साथ रहना
अन्योन्यस्याव्यभिचारो
भवेदामरणान्तिकः
। एष
धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥
९.१०१ ॥
54.-संक्षेपतः स्त्री पुरुष का
धर्म
तथा
नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ
।
यथा
नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ ९.१०२
॥
55.स्त्रीपुरुषकर्तव्य
एष
स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः ।
आपद्यपत्यप्राप्तिश्च
दायधर्मं निबोधत ॥ ९.१०३ ॥
१७. दायभाग विवाद-निर्णय
56.दायधर्मं
दायधर्मं
निबोधत ॥ ९.१०३ब ॥
57.दायविभाजनकालसमविभाजन
ऊर्ध्वं
पितुश्च मातुश्च समेत्य भ्रातरः समम् ।
भजेरन्
पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ ९.१०४
॥
58.सम्मिलित रहने पर ज्येष्ठ भाई
की प्रधानता
ज्येष्ठ
एव तु गृह्णीयात्पित्र्यं धनमशेषतः ।
शेषास्तमुपजीवेयुर्यथैव
पितरं तथा ॥ ९.१०५ ॥
59.भाइयो का परस्पर व्यवहार
पितेव
पालयेत्पूत्रान् ज्येष्ठो भ्रातॄण्यवीयसः
।
पुत्रवच्चापि
वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ ९.१०८
॥
60.ज्येष्ठः भाई के अपने योग्य
बर्ताव न करने पर
यो
ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः
।
अज्येष्ठवृत्तिर्यस्तु
स्यात्स संपूज्यस्तु बन्धुवत् ॥ ९.११० ॥
61.सम्पति विभाग में हेतु
एवं सह
वसेयुर्वा पृथग्वा धर्मकाम्यया ।
पृथग्विवर्धते
धर्मस्तस्माद्धर्म्या पृथक्क्रिया ॥ ९.१११
॥
62.अविवाहित बहनो के लिए पृथक्
भाग की व्यवस्था
स्वेभ्योऽशेभ्यस्तु
कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् ।
स्वात्स्वादंशाच्चतुर्भागं
पतिताः स्युरदित्सवः ॥ ९.११८ ॥
पुत्रिका के दायभाग का
वर्णन—
63.नियोगपुत्रअधिकार
यवीयाञ्ज्येष्ठभार्यायां
पुत्रमुत्पादयेद्यदि ।
समस्तत्र
विभागः स्यादिति धर्मो व्यवस्थितः ॥ ९.१२०
॥
64.पुत्रिकाघोषणा
अपुत्रोऽनेन
विधिना सुतां कुर्वीत पुत्रिकाम् ।
यदपत्यं
भवेदस्यां तन्मम स्यात्स्वधाकरम् ॥ ९.१२७
॥
65.यथैवात्मा तथा पुत्रः पुत्रेण
दुहिता समा
यथैवात्मा
तथा पुत्रः पुत्रेण दुहिता समा ।
तस्यामात्मनि
तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ ९.१३० ॥
66.मातुःस्त्रीधनदुहितु
मातुस्तु
यौतकं यत्स्यात्कुमारीभाग एव सः ।
दौहित्र
एव च हरेदपुत्रस्याखिलं धनम् ॥ ९.१३१ ॥
67.पुत्रिकापुत्रस्यधनग्राहित्व्म
दौहित्रो
ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् ।
स एव
दद्याद्द्वौ पिण्डौ पित्रे मातामहाय च ॥
९.१३२ ॥
68.पुत्रिकाऔरसपुत्रभाग
पुत्रिकायां
कृतायां तु यदि पुत्रोऽनुजायते ।
समस्तत्र
विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः
॥ ९.१३४ ॥
69.पौत्री मातामहस्तेन
दद्यात्पिण्डं हरेद्धनम्
अकृता वा
कृता वापि यं विन्देत्सदृशात्सुतम् ।
पौत्री
मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥
९.१३६ ॥
70.पौत्रदौहित्रसमान
पौत्रदौहित्रयोर्लोके
विशेषो नोपपद्यते ।
दौहित्रोऽपि
ह्यमुत्रैनं संतारयति पौत्रवत् ॥ ९.१३९ ॥
71.पिण्डं निर्वपेत्पुत्रिकासुतः
मातुः
प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ।
द्वितीयं
तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥
९.१४० ॥
72.दत्तकपुत्रअधिकार
उपपन्नो
गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।
स हरेतैव
तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः ॥
९.१४१ ॥
नियोग से उत्पन्न
क्षत्रेण पुत्र के दायभाग का विधान—
73.दत्तकपुत्रकासंपत्ति में
अधिकार
गोत्ररिक्थे
जनयितुर्न हरेद्दत्त्रिमः क्व चित् ।
गोत्ररिक्थानुगः
पिण्डो व्यपैति ददतः स्वधा ॥ ९.१४२ ॥
74.कामजादेर्नधनग्राहकत्वम
अनियुक्तासुतश्चैव
पुत्रिण्याप्तश्च देवरात् ।
उभौ तौ
नार्हतो भागं जारजातककामजौ ॥ ९.१४३ ॥
75.नैवार्हःपैतृकंरिक्थंपतितोत्पादितो
नियुक्तायामपि
पुमान्नार्यां जातोऽविधानतः ।
नैवार्हः
पैतृकं रिक्थं पतितोत्पादितो हि सः ॥
९.१४४ ॥
76.क्षेत्रजपुत्रकोपितृधनमेंभागअधिकार
हरेत्तत्र
नियुक्तायां जातः पुत्रो यथाउरसः ।
क्षेत्रिकस्य
तु तद्बीजं धर्मतः प्रसवश्च सः ॥ ९.१४५ ॥
77.नियोगपुत्रअधिकार
धनं यो
बिभृयाद्भ्रातुर्मृतस्य स्त्रियमेव च ।
सोऽपत्यं
भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥
९.१४६ ॥
78.कामजमरिक्थीयंवृथोत्पन्नं
या
नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयात् ।
तं
कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ॥
९.१४७ ॥
79.षड्बन्धुदायादाःषडदायादबान्धवाः
पुत्रान्
द्वादश यानाह नॄणां स्वायंभुवो मनुः ।
तेषां
षड्बन्धुदायादाः षडदायादबान्धवाः ॥ ९.१५८
॥
80.दायादा बान्धवाश्च षट्
औरसः
क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च
दायादा बान्धवाश्च षट् ॥ ९.१५९ ॥
81.षडदायादबान्धवाःअदायदा
कानीनश्च
सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तश्च
शौद्रश्च षडदायादबान्धवाः ॥ ९.१६० ॥
82.विभक्ति क्रम
औरसक्षेत्रजौ
पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु
क्रमशो गोत्ररिक्थांशभागिनः ॥ ९.१६५ ॥
83.औरसपुत्रलक्षण
स्वक्षेत्रे
संस्कृतायां तु स्वयमुत्पादयेद्धि यम् ।
तमौरसं
विजानीयात्पुत्रं प्राथमकल्पिकम् ॥ ९.१६६
॥
84.क्षेत्रजपुत्रलक्षण
यस्तल्पजः
प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
स्वधर्मेण
नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥
९.१६७ ॥
85.दत्तकपुत्रलक्षण
माता पिता
वा दद्यातां यमद्भिः पुत्रमापदि ।
सदृशं प्रीतिसंयुक्तं
स ज्ञेयो दत्त्रिमः सुतः ॥ ९.१६८ ॥
86.कृत्रिमपुत्रलक्षण
सदृशं तु
प्रकुर्याद्यं गुणदोषविचक्षणम् । पुत्रं
पुत्र
गुणैर्युक्तं
स विज्ञेयश्च कृत्रिमः ॥ ९.१६९ ॥
87.गूढ़पुत्रलक्षण उत्पद्यते
गृहे
यस्तु न च ज्ञायेत कस्य सः ।
स गृहे
गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥
९.१७० ॥
88.अपविद्दपुत्रलक्षण
मातापितृभ्यामुत्सृष्टं
तयोरन्यतरेण वा ।
यं पुत्रं
परिगृह्णीयादपविद्धः स उच्यते ॥ ९.१७१ ॥
89.कानीनपुत्रलक्षण
पितृवेश्मनि
कन्या तु यं पुत्रं जनयेद्रहः ।
तं कानीनं
वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ ९.१७२
॥
90.सहोढपुत्रलक्षण
या
गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती
।
वोढुः स
गर्भो भवति सहोढ इति चोच्यते ॥ ९.१७३ ॥
91.क्रीतकपुत्रलक्षण
क्रीणीयाद्यस्त्वपत्यार्थं
मातापित्रोर्यमन्तिकात् ।
स क्रीतकः
सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ ९.१७४ ॥
92.पौनर्भवपुत्रलक्षण
या पत्या
वा परित्यक्ता विधवा वा स्वयेच्छया ।
उत्पादयेत्पुनर्भूत्वा
स पौनर्भव उच्यते ॥ ९.१७५ ॥
93.पौनर्भवेन संस्कारमर्हति
सा
चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा ।
पौनर्भवेन
भर्त्रा सा पुनः संस्कारमर्हति ॥ ९.१७६ ॥
94.स्वयंदत्तपुत्रलक्षण
मातापितृविहीनो
यस्त्यक्तो वा स्यादकारणात् ।
आत्मानमर्पयेद्यस्मै
स्वयंदत्तस्तु स स्मृतः ॥ ९.१७७ ॥
95.पाराशवपुत्रलक्षण
यं
ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम्
।
स
पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥
९.१७८ ॥
96.दासीपुत्रलक्षण
दास्यां
वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सोऽनुज्ञातो
हरेदंशमिति धर्मो व्यवस्थितः ॥ ९.१७९ ॥
97.सर्वे रिक्थस्य भागिनः
श्रेयसः
श्रेयसोऽलाभे पापीयान् रिक्थमर्हति ।
बहवश्चेत्तु
सदृशाः सर्वे रिक्थस्य भागिनः ॥ ९.१८४ ॥
98.न भ्रातरो न पितरः पुत्रा
रिक्थहराः
पितुः न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।
पिता
हरेदपुत्रस्य रिक्थं भ्रातर एव च ॥ ९.१८५
॥
99.क्षेत्रजादीनापितामहधने
त्रयाणामुदकं
कार्यं त्रिषु पिण्डः प्रवर्तते ।
चतुर्थः
संप्रदातैषां पञ्चमो नोपपद्यते ॥ ९.१८६ ॥
100.
अधिकारक्रम
अनन्तरः
सपिण्डाद्यस्तस्य तस्य धनं भवेत् ।
अत
ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा
॥ ९.१८७ ॥
101.
राज्यअधिकार
अहार्यं
ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः
।
इतरेषां
तु वर्णानां सर्वाभावे हरेन्नृपः ॥ ९.१८९
॥
102.
द्विपुत्रस्यमात
द्वौ तु
यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।
तयोर्यद्यस्य
पित्र्यं स्यात्तत्स गृह्णीत नेतरः ॥
९.१९१ ॥
103.
मातृधनविभाजन
जनन्यां
संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन्मातृकं
रिक्थं भगिन्यश्च सनाभयः ॥ ९.१९२ ॥
104.
स्त्रीधनप्रकार
अध्यग्न्यध्यावाहनिकं
दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं
षड्विधं स्त्रीधनं स्मृतम् ॥ ९.१९४ ॥
105.
स्त्रीधनअधिकारी
अन्वाधेयं
च यद्दत्तं पत्या प्रीतेन चैव यत् ।
पत्यौ
जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ ९.१९५ ॥
106.
संतानहीनास्त्रीधनअधिकारी
ब्राह्मदैवार्षगान्धर्व-
प्राजापत्येषु यद्वसु ।
अप्रजायामतीतायां
भर्तुरेव तदिष्यते ॥ ९.१९६ ॥
107.
निषेधविवाहमेंस्त्रीधनअधिकारी
यत्त्वस्याः
स्याद्धनं दत्तं विवाहेष्वासुरादिषु ।
अप्रजायामतीतायां
मातापित्रोस्तदिष्यते ॥ ९.१९७ ॥
108.
स्त्रीआभूषणकीअविभाज्यता
पत्यौ
जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् ।
न तं
भजेरन् दायादा भजमानाः पतन्ति ते ॥ ९.२००
॥
109.
दायभागअयोग्य
अनंशौ
क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश्च
ये च के चिन्निरिन्द्रियाः ॥ ९.२०१ ॥
110.
दायभागअयोग्यपुरुषकानियोगसेउत्त्पन्नपुत्र
यद्यर्थिता
तु दारैः स्यात्क्लीबादीनां कथं चन ।
तेषामुत्पन्नतन्तूनामपत्यं
दायमर्हति ॥ ९.२०३ ॥
111.
विद्धादीधने
विद्याधनं
तु यद्यस्य तत्तस्यैव धनं भवेत् ।
मैत्र्यमौद्वाहिकं
चैव माधुपर्किकमेव च ॥ ९.२०६ ॥
112.
सशक्त भाई के भाग ग्रहण में उपेक्षा करने पर
भ्रातॄणां
यस्तु नेहेत धनं शक्तः स्वकर्मणा ।
स
निर्भाज्यः स्वकादंशात्किं चिद्दत्त्वोपजीवनम्
॥ ९.२०७ ॥
113.
अविभाज्यधन
अनुपघ्नन्
पितृद्रव्यं श्रमेण यदुपार्जितम् ।
स्वयमीहितलब्धं
तन्नाकामो दातुमर्हति ॥ ९.२०८ ॥
114.
नष्टोद्धारे
पैतृकं तु
पिता द्रव्यमनवाप्तं यदाप्नुयात् ।
न
तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम्
॥ ९.२०९ ॥
115.
-पुनः सम्मिलित किये धन का अविभाजन
विभक्ताः
सह जीवन्तो विभजेरन् पुनर्यदि ।
समस्तत्र
विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥
९.२१० ॥
116.
-विदेश गमन और सन्यास गमन में भाग का लोप नहीं
येषां
ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो
वापि तस्य भागो न लुप्यते ॥ ९.२११ ॥
-समभाग
सोदर्या
विभजेरंस्तं समेत्य सहिताः समम् ।
भ्रातरो
ये च संसृष्टा भागिन्यश्च सनाभयः ॥ ९.२१२
॥
117.
-भाग की अप्राप्ति
सर्व एव
विकर्मस्था नार्हन्ति भ्रातरो धनम् ।
न
चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम्
॥ ९.२१४ ॥
118.
-पिता के जीवित रहने पर उपार्जित धन का संमभाग
भ्रातॄणामविभक्तानां
यद्युत्थानं भवेत्सह ।
न
पुत्रभागं विषमं पिता दद्यात्कथं चन ॥
९.२१५ ॥
119.
-पितृधनविभाजन के बाद पुत्र उत्पन्न होने पर
ऊर्ध्वं
विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् ।
संसृष्टास्तेन
वा ये स्युर्विभजेत स तैः सह ॥ ९.२१६ ॥
120.
-संतानहीन पुत्र के धन का अधिकारी
अनपत्यस्य
पुत्रस्य माता दायमवाप्नुयात् ।
मातर्यपि
च वृत्तायां पितुर्माता हरेद्धनम् ॥ ९.२१७
॥
121.
-ऋण तथा धन का सामान विभाग
ऋणे धने च
सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद्दृश्येत
यत्किं चित्तत्सर्वं समतां नयेत् ॥ ९.२१८ ॥
122.
-अविभाज्य वस्तु
वस्त्रं
पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः।
योगक्षेमं
प्रचारं च न विभाज्यं प्रचक्षते ॥ ९.२१९ ॥
123.
अयमुक्तो विभागो
वः
पुत्राणां च क्रियाविधिः ।
क्रमशः
क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ ९.२२०
॥
१८. द्यूतंसमाह्वयं
124.
द्यूतं समाह्वयं का निषेध
द्यूतं
समाह्वयं चैव राजा राष्ट्रान्निवारयेत् ।
राजान्तकरणावेतौ
द्वौ दोषौ पृथिवीक्षिताम् ॥ ९.२२१ ॥
-
125.
द्यूतं समाह्वयं प्रकाश तस्करी के समान
प्रकाशमेतत्तास्कर्यं
यद्देवनसमाह्वयौ ।
तयोर्नित्यं
प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ ९.२२२ ॥
126.
द्यूतं समाह्वयं के लक्षण
अप्राणिभिर्यत्क्रियते
तल्लोके द्यूतमुच्यते ।
प्राणिभिः
क्रियते यस्तु स विज्ञेयः समाह्वयः ॥
९.२२३ ॥
127.
द्यूतं समाह्वयं खिलाने वालो को दण्ड
द्यूतं
समाह्वयं चैव यः कुर्यात्कारयेत वा ।
तान्
सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः
॥ ९.२२४ ॥
128.
देशनिर्वासन
कितवान्
कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान्
।
विकर्मस्थान्
शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ ९.२२५ ॥
129.
राज्य के लिए खतरा
एते
राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः
।
विकर्मक्रियया
नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ ९.२२६ ॥
130.
उपहासार्थ भी द्दुत का निषेध
द्यूतमेतत्पुरा
कल्पे दृष्टं वैरकरं महत् ।
तस्माद्द्यूतं
न सेवेत हास्यार्थमपि बुद्धिमान् ॥ ९.२२७
॥
Comments
Post a Comment