मनुस्मृति २५-११-२०१९ 




अध्याय ४

१. गृहस्थ जीवन के नियम


1.      ब्रह्मचर्यगृह्स्थास्स्र्मकालौ




चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजाः।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१ ॥

2.      वेद स्नातक का सत्कार

वेदविद्याव्रतस्नाताञ्श्रोत्रियान् गृहमेधिनः 
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ४.३१ ॥

3.      ब्रह्मचारी के अन्न दान

शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना 
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः  ॥ ४.३२ ॥

4.      सफाई

कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः 
स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च  ॥ ४.३५ ॥

5.      मिटटी गौ आदि

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् 
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्  ॥ ४.३९ ॥

6.      काल विशेषे स्त्री दर्शन निषेध

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् 
न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः  ॥ ४.४४ ॥

7.      नग्नस्नानादिनिषेध

नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे  ॥ ४.४५ ॥

8.      मार्गादौमुत्रादीनिषेध

न फालकृष्टे न जले न चित्यां न च पर्वते 
न जीर्णदेवायतने न वल्मीके कदा चन  ॥ ४.४६ ॥

9.      मार्गादौमुत्रादीनिषेध

न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः 
न नदीतीरमासाद्य न च पर्वतमस्तके  ॥ ४.४७ ॥

10.मुत्रोत्सर्गविधि

तिरस्कृत्योच्चरेत्काष्ठ- लोष्ठपत्रतृणादिना 
नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः  ॥ क्४.४९॥

11.अग्नौ प्रक्षिपेदग्नौ

न च पादौ प्रतापयेत्          नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् 
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ४.५३

12.अग्नि उल्लंधन निषेध

अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ।
न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ४.५४ ॥

13.जलेमुत्रादीप्रक्षेपनिषेध

नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा  ॥ ४.५६ ॥

14.शून्यगृहसुप्याच्छून्यगेहे निषेध

नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् ।
नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः  ॥ ४.५७ ॥

15.अग्नि होत्र

अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ 
स्वाध्याये भोजने चैव दक्षिनं पाणिमुद्धरेत् ॥ ४.५८ ॥

16.अधार्मिक ग्राम में निवास का निषेध


नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् 
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६० ॥

17.अतिभोजननिषेध

न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।
नातिप्रगे नातिसायं न सायं प्रातराशितः  ॥ ४.६२ ॥

18.व्यर्थचेष्टानिषेध

न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली  ॥ ४.६३ ॥

19.निषेध बर्तन

न पादौ धावयेत्कांस्ये कदा चिदपि भाजने 
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते  ॥ ४.६५ ॥

20.यज्ञोपवीतादिपरधृतन धारयेत

उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
उपवीतमलङ्कारं स्रजं करकमेव च  ॥ ४.६६ ॥

21.अविनीतवृर्षयानादिनिषेध

नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः 
न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः  ॥ ४.६७ ॥

22.विनीतवाहनादी गमन योग्य

विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः 
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम्  ॥ ४.६८ ॥

23.मालाधारणगोयानादौ

न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् ।
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम्  ॥ ४.७२ ॥

24.अद्वारेंन गृह गमनादौ

अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम् 
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३ ॥

25.अक्षक्रीडाशयनस्थानभोजननिषेध

नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने  ॥ ४.७४ ॥

26.आद्रपदशयननिषेध

आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ४.७६ ॥

27.न संवसेच्चपतित

न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः 
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः  ॥ ४.७९ ॥

28.शत्रुचोरपरस्त्रीसेवानिषेध

वैरिणं नोपसेवेत सहायं चैव वैरिणः 
अधार्मिकं तस्करं च परस्यैव च योषितं  ॥ ४.१३३ ॥

29.परदारनिंदा

न हीदृशमनायुष्यं लोके किं चन विद्यते 
यादृशं पुरुषस्येह परदारोपसेवनम्  ॥ ४.१३४ ॥

30.समृद्धिकामना प्रयत्न

नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः 
आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्  ॥ ४.१३७ ॥

31.प्रियसत्यकथनम

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् 
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः  ॥ ४.१३८ ॥

32.वृथावाद न कुर्यात

भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।
शुष्कवैरं विवादं च न कुर्यात्केन चित्सह  ॥ ४.१३९ ॥

33.अज्ञातेंन पुरुष सह न गन्तव्यं

नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते 
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह  ॥ ४.१४० ॥

34.हीनअंगादिआक्षेपनिषेध

हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् 
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ ४.१४१ ॥

35.मल मुत्र त्याग

दूरादावसथान्मूत्रं दूरात्पादावसेचनम् 
उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ ४.१५१ ॥

36.वृद्ध जनो का अभिवादन

अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम् 
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ ४.१५४ ॥

37.श्रुतिस्मृतिआचार

श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु 
धर्ममूलं निषेवेत सदाचारमतन्द्रितः  ॥ ४.१५५ ॥

38.आचारफलम

आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः 
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम्  ॥ ४.१५६ ॥

39.दुराचारोपुरुषो लोके निन्दितःभवति

दुराचारो हि पुरुषो लोके भवति निन्दितः 
दुःखभागी च सततं व्याधितोऽल्पायुरेव च  ॥ ४.१५७ ॥

40.शतं वर्षाणि जीवति

सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः 
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति  ॥ ४.१५८ ॥

41.परवशं कर्म यत्नेन वर्जयेत्

यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः  ॥ ४.१५९ ॥

42.आचारपालन

यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः 
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥

43.आचार्यादिहिंसानिषेध

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् 
न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः  ॥ ४.१६२ ॥

44.नास्तिक्यंसम्माननिषेध

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् 
द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ ४.१६३ ॥

45.प्रताड़नाआदि का निषेध

परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् ।
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ  ॥ ४.१६४ ॥

46.अधार्मिक व्यक्ति को सुख नहीं

अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् 
हिंसारतश्च यो नित्यं नेहासौ सुखमेधते  ॥ ४.१७० ॥

47.अधार्मिक व्यक्ति को सुख नहीं

नाधर्मश्चरितो लोके सद्यः फलति गौरिव 
शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति  ॥ ४.१७२ ॥

48.अधार्मिक व्यक्ति को सुख नहीं

यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु 
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः  ॥ ४.१७३ ॥

49.अधार्मिक व्यक्ति को सुख नहीं

अधर्मेणैधते तावत्ततो भद्राणि पश्यति 
ततः सपत्नान् जयति समूलस्तु विनश्यति  ॥ ४.१७४ ॥

50.अर्थकामत्यागे

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ 
धर्मं चाप्यसुखोदर्कं लोकसंक्रुष्टमेव च  ॥ ४.१७६ ॥

51.कुलमार्गगमनं

येनास्य पितरो याता येन याताः पितामहाः 
तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति  ॥ ४.१७८ ॥

52.निर्थक बाते न करना

ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः 
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः  ॥ ४.१७९ ॥

53.निर्थक बाते न करना

मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया 
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥

54.पुर्त का फल

दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् 
परितुष्टेन भावेन पात्रमासाद्य शक्तितः  ॥ ४.२२७॥

55.दान

यत्किं चिदपि दातव्यं याचितेनानसूयया 
उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः  ॥ ४.२२८॥

56.जलादान

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः 
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्  ॥ ४.२२९॥

57.वेद दान

सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते 
वार्यन्नगोमहीवासस्- तिलकाञ्चनसर्पिषाम्  ॥ ४.२३३॥

58.अच्छे बुरे कर्मो का फल

एकः प्रजायते जन्तुरेक एव प्रलीयते 
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्  ॥ ४.२४० ॥

59.उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन्

उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् 
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्  ॥ ४.२४५॥

60.उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन्

दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् 
अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः  ॥ ४.२४६ ॥

61.ग्राह्य अन्न

एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम्  ॥ ४.२४७ ॥

62.असत्य भाषण

वाच्यर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः 
तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः  ॥ ४.२५६ ॥

२. उचित धन संचय

63.उचित धन संचय

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः 
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम्  ॥ ४.३ ॥

64.ऋत आदि से जीवन वृत्ति

ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा 
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥४.४ ॥

65.उचित धन संचय

कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा 
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥४.७ ॥

66.आसक्ति का निषेध

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः 
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ४.१६ ॥

67.अभक्ष्य भोजन

मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन 
केशकीटावपन्नं च पदा स्पृष्टं च कामतः  ॥ ४.२०७ ॥

३. वेदअध्ययनदैनिककर्म

68.वेद विरुद्ध कर्म

सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः 
यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता  ॥ ४.१७ ॥

69.वय के अनुसार आचरण

वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च 
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह  ॥ ४.१८ ॥

70.शास्त्र का अध्ययन

बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च 
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्  ॥ ४.१९ ॥

71.शास्त्र का अध्ययन

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति 
तथा तथा विजानाति विज्ञानं चास्य रोचते  ॥ ४.२० ॥

72.निरंतर अभ्यास

वेदाभ्यासेन सततं शौचेन तपसैव च 
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम्  ॥ ४.१४८ ॥

73.पाखंडी के सत्कार पर रोक

पाषाण्डिनो विकर्मस्थान् बैडालव्रतिकाञ्शठान् 
हैतुकान् बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत् ॥ ४.३० ॥

74.ब्रह्म मुहर्त में उठना

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च  ॥ ४.९२ ॥

75.रजस्वला में सम्भोग का निषेध

नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने 
समानशयने चैव न शयीत तया सह  ॥ ४.४० ॥

76.रजस्वला में सम्भोग का निषेध

रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः 
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते  ॥ ४.४१ ॥

77.रजस्वला में सम्भोग का निषेध

तां विवर्जयतस्तस्य रजसा समभिप्लुताम् 
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते  ॥ ४.४२ ॥

78.स्नान

न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि 
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये  ॥ ४.१२९ ॥

79.गृहस्थ नियम समाप्ति

एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती 
स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः  ॥ ४.२५९ ॥



Comments

Popular posts from this blog