मनुस्मृति २५-११-२०१९
अध्याय ४
१. गृहस्थ जीवन के नियम
1. ब्रह्मचर्यगृह्स्थास्स्र्मकालौ
चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजाः।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ ४.१ ॥
2. वेद स्नातक का सत्कार
वेदविद्याव्रतस्नाताञ्श्रोत्रियान् गृहमेधिनः ।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत् ॥ ४.३१ ॥
3. ब्रह्मचारी के अन्न दान
शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना ।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ ४.३२ ॥
4. सफाई
कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ।
स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥ ४.३५ ॥
5. मिटटी गौ आदि
मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ४.३९ ॥
6. काल विशेषे स्त्री दर्शन निषेध
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् ।
न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥ ४.४४ ॥
7. नग्नस्नानादिनिषेध
नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ ४.४५ ॥
8. मार्गादौमुत्रादीनिषेध
न फालकृष्टे न जले न चित्यां न च पर्वते ।
न जीर्णदेवायतने न वल्मीके कदा चन ॥ ४.४६ ॥
9. मार्गादौमुत्रादीनिषेध
न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः ।
न नदीतीरमासाद्य न च पर्वतमस्तके ॥ ४.४७ ॥
10.मुत्रोत्सर्गविधि
तिरस्कृत्योच्चरेत्काष्ठ- लोष्ठपत्रतृणादिना ।
नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥ क्४.४९॥
11.अग्नौ प्रक्षिपेदग्नौ
न च पादौ प्रतापयेत् नाग्निं
मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ ४.५३ ॥
12.अग्नि उल्लंधन निषेध
अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ।
न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ ४.५४ ॥
13.जलेमुत्रादीप्रक्षेपनिषेध
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ॥ ४.५६ ॥
14.शून्यगृहसुप्याच्छून्यगेहे
निषेध
नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् ।
नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः ॥ ४.५७ ॥
15.अग्नि होत्र
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।
स्वाध्याये भोजने चैव दक्षिनं पाणिमुद्धरेत् ॥ ४.५८ ॥
16.अधार्मिक ग्राम में निवास का
निषेध
नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ।
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६० ॥
17.अतिभोजननिषेध
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ।
नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ४.६२ ॥
18.व्यर्थचेष्टानिषेध
न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली ॥ ४.६३ ॥
19.निषेध बर्तन
न पादौ धावयेत्कांस्ये कदा चिदपि भाजने ।
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ ४.६५ ॥
20.यज्ञोपवीतादिपरधृतन धारयेत
उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
उपवीतमलङ्कारं स्रजं करकमेव च ॥ ४.६६ ॥
21.अविनीतवृर्षयानादिनिषेध
नाविनीतैर्भजेद्धुर्यैर्न च क्षुध्व्याधिपीडितैः ।
न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥ ४.६७ ॥
22.विनीतवाहनादी गमन योग्य
विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः ।
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम् ॥ ४.६८ ॥
23.मालाधारणगोयानादौ
न विगर्ह्य कथां कुर्याद्बहिर्माल्यं न धारयेत् ।
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ४.७२ ॥
24.अद्वारेंन गृह गमनादौ
अद्वारेण च नातीयाद्ग्रामं वा वेश्म वावृतम् ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३ ॥
25.अक्षक्रीडाशयनस्थानभोजननिषेध
नाक्षैर्दीव्येत्कदा चित्तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ४.७४ ॥
26.आद्रपदशयननिषेध
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ४.७६ ॥
27.न संवसेच्चपतित
न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ ४.७९ ॥
28.शत्रुचोरपरस्त्रीसेवानिषेध
वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च परस्यैव च योषितं ॥ ४.१३३ ॥
29.परदारनिंदा
न हीदृशमनायुष्यं लोके किं चन विद्यते ।
यादृशं पुरुषस्येह परदारोपसेवनम् ॥ ४.१३४ ॥
30.समृद्धिकामना प्रयत्न
नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः ।
आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ ४.१३७ ॥
31.प्रियसत्यकथनम
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ ४.१३८ ॥
32.वृथावाद न कुर्यात
भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।
शुष्कवैरं विवादं च न कुर्यात्केन चित्सह ॥ ४.१३९ ॥
33.अज्ञातेंन पुरुष सह न गन्तव्यं
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ।
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ ४.१४० ॥
34.हीनअंगादिआक्षेपनिषेध
हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ।
रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ ४.१४१ ॥
35.मल मुत्र त्याग
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।
उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ ४.१५१ ॥
36.वृद्ध जनो का अभिवादन
अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम् ।
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ ४.१५४ ॥
37.श्रुतिस्मृतिआचार
श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु ।
धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ ४.१५५ ॥
38.आचारफलम
आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः ।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ ४.१५६ ॥
39.दुराचारोपुरुषो लोके
निन्दितःभवति
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ ४.१५७ ॥
40.शतं वर्षाणि जीवति
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ४.१५८ ॥
41.परवशं कर्म यत्नेन वर्जयेत्
यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः ॥ ४.१५९ ॥
42.आचारपालन
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥
43.आचार्यादिहिंसानिषेध
आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ॥ ४.१६२ ॥
44.नास्तिक्यंसम्माननिषेध
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥
४.१६३ ॥
45.प्रताड़नाआदि का निषेध
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् ।
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ ॥ ४.१६४ ॥
46.अधार्मिक व्यक्ति को सुख नहीं
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
हिंसारतश्च यो नित्यं नेहासौ सुखमेधते ॥ ४.१७० ॥
47.अधार्मिक व्यक्ति को सुख नहीं
नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति ॥ ४.१७२ ॥
48.अधार्मिक व्यक्ति को सुख नहीं
यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु ।
न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ ४.१७३ ॥
49.अधार्मिक व्यक्ति को सुख नहीं
अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ ४.१७४ ॥
50.अर्थकामत्यागे
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्मं चाप्यसुखोदर्कं लोकसंक्रुष्टमेव च ॥ ४.१७६ ॥
51.कुलमार्गगमनं
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति ॥ ४.१७८ ॥
52.निर्थक बाते न करना
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ।
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ॥ ४.१७९ ॥
53.निर्थक बाते न करना
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥
54.पुर्त का फल
दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् ।
परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥ ४.२२७॥
55.दान
यत्किं चिदपि दातव्यं याचितेनानसूयया ।
उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ ४.२२८॥
56.जलादान
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ ४.२२९॥
57.वेद दान
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
वार्यन्नगोमहीवासस्- तिलकाञ्चनसर्पिषाम् ॥ ४.२३३॥
58.अच्छे बुरे कर्मो का फल
एकः प्रजायते जन्तुरेक एव प्रलीयते ।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ ४.२४० ॥
59.उत्तमानुत्तमानेव गच्छन्
हीनांस्तु वर्जयन्
उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् ।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ ४.२४५॥
60.उत्तमानुत्तमानेव गच्छन्
हीनांस्तु वर्जयन्
दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ।
अहिंस्रो दमदानाभ्यां जयेत्स्वर्गं तथाव्रतः ॥ ४.२४६ ॥
61.ग्राह्य अन्न
एधोदकं मूलफलमन्नमभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ ४.२४७ ॥
62.असत्य भाषण
वाच्यर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः ।
तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ ४.२५६ ॥
२. उचित धन संचय
63.उचित धन संचय
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः ।
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥ ४.३ ॥
64.ऋत आदि से जीवन वृत्ति
ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥४.४ ॥
65.उचित धन संचय
कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥४.७ ॥
66.आसक्ति का निषेध
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ ४.१६ ॥
67.अभक्ष्य भोजन
मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन ।
केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ ४.२०७ ॥
३. वेदअध्ययनदैनिककर्म
68.वेद विरुद्ध कर्म
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ।
यथा तथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ ४.१७ ॥
69.वय के अनुसार आचरण
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ॥ ४.१८ ॥
70.शास्त्र का अध्ययन
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ ४.१९ ॥
71.शास्त्र का अध्ययन
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ४.२० ॥
72.निरंतर अभ्यास
वेदाभ्यासेन सततं शौचेन तपसैव च ।
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ ४.१४८ ॥
73.पाखंडी के सत्कार पर रोक
पाषाण्डिनो विकर्मस्थान् बैडालव्रतिकाञ्शठान् ।
हैतुकान् बकवृत्तींश्च वाङ्गात्रेणापि नार्चयेत् ॥ ४.३० ॥
74.ब्रह्म मुहर्त में उठना
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥ ४.९२ ॥
75.रजस्वला में सम्भोग का निषेध
नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने ।
समानशयने चैव न शयीत तया सह ॥ ४.४० ॥
76.रजस्वला में सम्भोग का निषेध
रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥ ४.४१ ॥
77.रजस्वला में सम्भोग का निषेध
तां विवर्जयतस्तस्य रजसा समभिप्लुताम् ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ ४.४२ ॥
78.स्नान
न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ ४.१२९ ॥
79.गृहस्थ नियम समाप्ति
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ।
स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ॥ ४.२५९ ॥
Comments
Post a Comment