मनुस्मृति २५-११-२०१९
अध्याय
११
१. दान देना और लेना
1. नवविध स्नातक के लिए दान देना
सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् ।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः ॥ ११.१ ॥
2. नवविध स्नातक के लिए दान देना
न वै तान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान् ।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ ११.२ ॥
3. सोमयागाधिकरण
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ ११.७ ॥
4. स्वजनेदुःखजीविनि
शक्तः परजने दाता स्वजने दुःखजीविनि ।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ ११.९ ॥
5. स्वजनेदुःखजीविनि
भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम् ।
तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च ॥ ११.१० ॥
6. याज्ञार्थमर्थंभिक्षित्वानरक्षणीयम
याज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः ॥ ११.२५ ॥
२. प्रायश्चितविधान
7. प्रायश्चित कब किया जाएगा
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ ११.४४ ॥
8. प्रायश्चित कैसे किया जाएगा
अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥ ११.४६ ॥
9. प्रायश्चितअर्थः
प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा ।
न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ ११.४७ ॥
10.नित्यं प्रायश्चित्तं
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥ ११.५४॥
3.
व्रत्याओ के
लिए शुद्धिकरण
11.व्रत्याओ के लिए व्रत एवं
शुद्धिकरण
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ॥
११.१९२ ॥
12.निन्दित कर्म करने वालो का
प्राश्चित
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ११.१९३ ॥
13.स्नातकव्रतलोप
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ११.२०४ ॥
4. व्रतो के प्रकार
14.व्रत विधि
यैरभ्युपायैरेनांसि मानवो व्यपकर्षति ।
तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ ११.२११ ] ॥
15.प्राजापत्यव्रत
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन् द्विजः ॥ ११.२१२ ॥
16.कृच्छ-सांतपनंव्रत
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥ ११.२१३ ॥
17.अतिकृच्छव्रत
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥ ११.२१४ ॥
18.तप्तकृच्छव्रत
तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥ ११.२१५ ॥
19.चान्द्रायणव्रत
एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
उपस्पृशंस्त्रिषवणमेतच्चाण्द्रायणं स्मृतम् ॥ ११.२१७ ॥
20.यवमध्यमचान्द्रायणव्रत
एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे ।
शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ ११.२१८ ॥
21.व्रत पालन के समय यज्ञ विधान
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ।
अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ ११.२२३ ॥
22.मानस पापो का प्रायश्चित
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः ।
अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ ११.२२७ ॥
23.पापप्रकटीकरण
यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते ।
तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ ११.२२९ ॥
24.पापप्रकटीकरण
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।
तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ ११.२३० ॥
25.पापप्रकटीकरण
कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ।
नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ॥ ११.२३१ ॥
26.शुभआचरण
एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ ११.२३२ ॥
27.शुभआचरण
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ।
तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३३ ॥
उपसंहार
28.वेदोंसेपापभावनानाश
यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ ११.२६४ ॥
29.वेदवेत्ता
ऋचो यजूंषि चान्यानि सामानि विविधानि च ।
एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ ११.२६५ ॥
30.ईश्वर की महिमा
आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता ।
स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥ ११.२६६ ॥
Comments
Post a Comment