मनुस्मृति २५-११-२०१९
अध्याय २
Cessante
Ratione Legis, Cessat Ipsa Lex
:
the reason of the law ceasing, the law itself
ceases
१. संस्कार
1. विधि की शुरुवात
एषा धर्मस्य वो योनिः समासेन प्रकीर्तित ।
संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ २.२५ ॥
2. संस्कारविधान
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २.२६ ॥
3. संस्कार का कारण
गार्भैर्होमैर्जातकर्म- चौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥ २.२७ ॥
4. संस्कार का कारण
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २.२८ ॥
5. जातकर्म संस्कार
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९ ॥
6. नामकरण संस्कार
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३० ॥
7. स्त्रियों का नामकरण
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३ ॥
8. अन्नप्राशन संस्कार
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले ॥ २.३४ ॥
9. चूडाकरणसंस्कार
चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥
10.उपनयन संस्कार
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥ २.३७ ॥
11.यज्ञोपवीतसंस्कार के बाद के
कर्तव्य
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।
आचारमग्निकार्यं च संध्योपासनमेव च ॥ २.६९ ॥
२. ब्रह्मचारी
12.ब्रह्मचारी के वस्त्र
कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१ ॥
13.मेखला
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२ ॥
14.मेखला का प्रतिनिधि
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ २.४३ ॥
15.यज्ञोपवीत
कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४ ॥
16.दंडमान
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ २.४६ ॥
17.दंडमान कैसा हो
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ २.४७ ॥
18.उपविती के लक्ष्ण
उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः ।
सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ २.६३ ॥
19.ब्रह्मचारी के तीन प्रकार
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः ।
नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् ॥
२.२१९ ॥
३. संस्कार ना होने के परिणाम
20.व्रात्य
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २.३९ ॥
४. भिक्षा विधि और भोजन विधि
21.प्रथम भिक्षा किनसे मांगे
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥
22.भिक्षा द्रव्य की सेवन विधि
समाहृत्य तु तद्भैक्षं यावदन्नममायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ २.५१ ॥
23.पूर्व दिशा की और मुह करके
भोजन करना
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते
ह्युदङ्मुखः ॥ २.५२ ॥
24.भोजन के अंत में आचमन
उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः ।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥
25.श्रद्धा से भोजन
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ २.५४ ॥
26.भोजन के अन्य नियम
नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा ।
न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्व चिद्व्रजेत् ॥ २.५६
॥
27.अधिक भोजन का निषेध
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २.५७ ॥
28.आचमन के योग्य तीर्थ
ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ २.५८ ॥
29.तीर्थो के लक्षण
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥ २.५९ ॥
30.आचमन विधि
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ २.६० ॥
31.भिक्षा योग्य घर
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ २.१८३ ॥
५. अध्ययन विधि
32.वेद अध्ययन विधि
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः ॥ २.७० ॥
33.ब्रह्म्नांजलि
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१ ॥
34.गुरु के अभिवादन की विधि
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२ ॥
35.अध्ययन का आरम्भ और समाप्ति
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २.७३ ॥
36.बिना पूछे उत्तर न देना
नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ २.११० ॥
37.पालन ना करने हानि
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ २.१११ ॥
38.विधादान की विफलता
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥ २.११२ ॥
39.शिष्यों से मधुर भाषण
यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६० ॥
40.वेदाभ्यास
वेदमेव सदाभ्यस्येत्तपस्तप्स्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ २.१६६ ॥
41.वेदाभ्यास
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ २.१६७ ॥
42.वेदाभ्यास
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २.१६८ ॥
43.द्विज तत्व निरूपण
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात्
॥ २.१६९ ॥
44.गुरु दक्षिणा
न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् ।
स्नास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थमाहरेत् ॥
२.२४५ ॥
45.शिक्षा ग्रहण
यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् ।
तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन्मनः ॥ २.२२३ ॥
46.त्रिवर्ग
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च ।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ २.२२४ ॥
६. प्रणाम करने की विधि
47.अध्यापक की मान्यता
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २.११७ ॥
48.प्रणाम करने की विधि
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् ॥ २.१२१ ॥
49.प्रणाम करने की विधि
आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५ ॥
50.स्त्री से संभाषण
परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः ।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ २.१२९ ॥
51.विद्धा की महता
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ २.१३६ ॥
52.पहले मार्ग देना
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ २.१३८ ॥
७. गुरु की आज्ञा पालन अन्य नियमो का
पालन
53.माता पिता भाई और गुरु
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ २.२२६ ॥
54.ज्ञान प्राप्त करना
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २.२३९ ॥
55.ज्ञान प्राप्त करना
स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शील्पानि समादेयानि सर्वतः ॥ २.२४० ॥
८. ज्ञान की महिमा
56.अज्ञानी
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ २.१५३ ॥
57.अवस्था की अपेक्षा ज्ञान
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ २.१५४ ॥
58.ज्ञान
विप्राणां ज्ञानतो, ज्यैष्ठ्यं
क्षत्रियाणां तु वीर्यतः वैश्यानां धान्यधनतः॥ २.१५५ ॥
59.मुर्ख की निंदा
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ २.१५७ ॥
९. नियमो का पालन
60.नियमो का पालन
सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ २.१७५ ॥
61.संध्या विधि
पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीमार्कदर्शनात् ।
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ २.१०१ ॥
62.दोष नाश
पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२ ॥
१०. शिक्षक के लक्षण
63.आचार्य का लक्षण उपनीय
तु यः शिष्यं वेदमध्यापयेद्द्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ २.१४० ॥
64.उपाध्याय
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २.१४१ ॥
65.ऋत्विक
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् ।
यः करोति वृतो यस्य स तस्य र्त्विगिहोच्यते ॥ २.१४३ ॥
66.आचार्य का लक्षण
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन ॥ २.१४४ ॥
67.माता की श्रेष्ठता
उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥ २.१४५ ॥
68.पिता से आचार्य के
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ २.१४६ ॥
69.पिता से आचार्य के
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ २.१४७ ॥
70.आचार्य का लक्षण
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ २.१४८ ॥
71.गुरु
निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ २.१४२ ॥
72.गुरु
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया ॥ २.१४९ ॥
73.गुरु
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५० ॥
Comments
Post a Comment