मनुस्मृति २५-११-२०१९
अध्याय १
Summary
of the chapter
The venerable Manu composed the Manu Smriti for the benefits
of all human beings, in this treaty, he set the rules for to enjoyment of human
life in threefold i.e. Dharma [Law], Artha [Wealth], and Kama [Desires]. This treaty
provides the rules chain, for achieving the aim of life. In the first chapter
of this treaty, he explain the creation of the world, a classification of the
beings, elucidate the time calculation, duties, source of law. The first
chapter illuminate us about these subjects and object of treaty.
This chapter contained about 135 verses and 45
verses out of 135 found original and rest are interpolated. The
filtration process of verses is based on concepts, which is used in “Visudh
Manu Smriti”, but the purpose of this treaty is different, the purpose of
this treaty, to provide original practical law which was given by Aadi Manu to
society. This Smriti or law is extraction from Vedas and follow the path of Vedas.
१. भूमिका
1. ऋषियों का मनु भगवान् को प्रणाम
मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १.१ ॥
2. धर्म ज्ञाता मनु भगवान्
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ १.३ ॥
3. ऋषियों का मनु भगवान् से सवाल पूछना
भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ १.२ ॥
4. मनु भगवान् का धर्म का प्रवचन
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः।
प्रत्युवाचार्च्य तान् सर्वान्महर्षीञ्श्रूयतामिति ॥ १.४ ॥
२. ब्रह्माण्ड निर्माण
5. जगदुत्त्पत्ति कथनम
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १.५ ॥
6. महाभूतो सहित स्वयंभू का प्रकट होना
ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः ॥ १.६ ॥
7. स्वयंभू के लक्षण
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥ १.७ ॥
8. जलस्रष्टि
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८ ॥
9. वेद त्रयी
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥ १.२३ ॥
४. प्राणियों की रचना
10.प्राणियों ,संसार की रचना
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६ ॥
11.विनिश्वर संसार की रचना
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् ॥ १.१९ ॥
12.मनुष्य शरीर की रचना
यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः
॥ १.१७ ॥
13.स्त्री पुरुष की रचना
द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ १.३२ ॥
14.प्राणियों की रचना
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः।
ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ॥ १.२७ ॥
15.जरायुजजीव
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः।
रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ १.४३ ॥
16.अंडजजीव
अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।
यानि चैवम्: प्रकाराणि स्थलजान्यौदकानि च ॥ १.४४ ॥
17.स्वेदजजीव
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम् ॥ १.४५ ॥
18.उद्भिज-औषिधि
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६ ॥
19.वनस्पति-वृक्ष
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ १.४७ ॥
20.गुच्छगुल्मआदि
गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥ १.४८ ॥
21.वृक्षों में चेतना
तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ १.४९ ॥
५. समय आदि की रचना
22.समय आदि की रचना
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
सरितः सागराञ्शैलान् समानि विषमानि च ॥ १.२४ ॥
23.दिन रात का परिमाण
निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।
त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ १.६४ ॥
24.दिन रात का विभाजन
अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ १.६५ ॥
25.पक्षों का परिमाण
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः।
कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १.६६ ॥
26.उत्तरायण
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १.६७ ॥
६. कर्मो की रचना
27.धर्म -अधर्म , कर्म - अकर्म की रचना
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ १.२६ ॥
28.कर्मो की रचना
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ १.२९ ॥
29.नामानि कर्माणि च पृथक्पृथक्
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १.२१ ॥
30.ब्राह्मणकर्म
अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १.८८ ॥
31.क्षत्रियकर्म
प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥ १.८९ ॥
32.वैश्यकर्म
पशूनां रक्षणं दानमिज्याध्ययनमेव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ १.९० ॥
33.सप्त वित्तागमा
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ १०.११५ ॥
34.दश जीवनहेतवः
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः ॥ १०.११६ ॥
35.प्राणियों की श्रेष्ठता
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ १.९६ ॥
७. धर्म के प्रमाण और सामान्य लक्ष्ण
36.धर्म का सामान्य लक्ष्ण
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१ ॥
37.कामात्मता न प्रशस्ता
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२ ॥
38.संकल्प की शक्ति
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः ।
व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः ॥ २.३ ॥
39.अकामस्य न कापि क्रिया
अकामस्य क्रिया का चिद्दृश्यते नेह कर्हि चित् ।
यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् ॥ २.४ ॥
40.धर्मस्यवेदमूलतत्वम
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ २.६ ॥
41.श्रुतिप्रामाण्यतो
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८ ॥
42.धर्म का पालन
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९ ॥
43.श्रुतिस्मृतिःपरिचय
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ २.१० ॥
44.नास्तिकनिंदा
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११ ॥
45.धर्मचतुर्विधलक्षण
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ २.१२ ॥
46.धर्मंप्रमाणंपरमंश्रुतिः
अर्थकामेष्वसक्तानां
धर्मज्ञानं विधीयते ।
धर्मं जिज्ञासमानानां
प्रमाणं परमं श्रुतिः ॥ २.१३ ॥
47.शास्त्रेऽधिकार
निषेकादिश्मशानान्तो
मन्त्रैर्यस्योदितो विधिः।
तस्य
शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्य चित् ॥ २.१६ ॥
Comments
Post a Comment